This overlay will guide you through the buttons:

| |
|
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ ७.५९.१ ॥
श्रुत्वा तु उशनसम् क्रुद्धम् तदा आर्तः नहुषात्मजः । जराम् परमिकाम् प्राप्य यदुम् वचनम् अब्रवीत् ॥ ७।५९।१ ॥
śrutvā tu uśanasam kruddham tadā ārtaḥ nahuṣātmajaḥ . jarām paramikām prāpya yadum vacanam abravīt .. 7.59.1 ..
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ ७.५९.२ ॥
यदो त्वम् असि धर्म-ज्ञः मद्-अर्थम् प्रतिगृह्यताम् । जराम् परमिकाम् पुत्र भोगैः रंस्ये महा-यशः ॥ ७।५९।२ ॥
yado tvam asi dharma-jñaḥ mad-artham pratigṛhyatām . jarām paramikām putra bhogaiḥ raṃsye mahā-yaśaḥ .. 7.59.2 ..
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ । अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥ ७.५९.३ ॥
न तावत् कृतकृत्यः अस्मि विषयेषु नर-ऋषभ । अनुभूय तदा कामम् ततस् प्राप्स्यामि अहम् जराम् ॥ ७।५९।३ ॥
na tāvat kṛtakṛtyaḥ asmi viṣayeṣu nara-ṛṣabha . anubhūya tadā kāmam tatas prāpsyāmi aham jarām .. 7.59.3 ..
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् । पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ७.५९.४ ॥
यदुः तत् वचनम् श्रुत्वा प्रत्युवाच नर-ऋषभम् । पुत्रः ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ७।५९।४ ॥
yaduḥ tat vacanam śrutvā pratyuvāca nara-ṛṣabham . putraḥ te dayitaḥ pūruḥ pratigṛhṇātu vai jarām .. 7.59.4 ..
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव । प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ॥ ७.५९.५ ॥
बहिष्कृतः अहम् अर्थेषु सन्निकर्षात् च पार्थिव । प्रतिगृह्णातु वै राजन् क सह अश्नाति भोजनम् ॥ ७।५९।५ ॥
bahiṣkṛtaḥ aham artheṣu sannikarṣāt ca pārthiva . pratigṛhṇātu vai rājan ka saha aśnāti bhojanam .. 7.59.5 ..
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् । इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ ७.५९.६ ॥
तस्य तत् वचनम् श्रुत्वा राजा पूरुम् अथ अब्रवीत् । इयम् जरा महा-बाहो मद्-अर्थम् प्रतिगृह्यताम् ॥ ७।५९।६ ॥
tasya tat vacanam śrutvā rājā pūrum atha abravīt . iyam jarā mahā-bāho mad-artham pratigṛhyatām .. 7.59.6 ..
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् । धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ॥ ७.५९.७ ॥
नाहुषेण एवम् उक्तः तु पूरुः प्राञ्जलिः अब्रवीत् । धन्यः अस्मि अनुगृहीतः अस्मि शासने अस्मि तव स्थितः ॥ ७।५९।७ ॥
nāhuṣeṇa evam uktaḥ tu pūruḥ prāñjaliḥ abravīt . dhanyaḥ asmi anugṛhītaḥ asmi śāsane asmi tava sthitaḥ .. 7.59.7 ..
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥ ७.५९.८ ॥
पूरोः वचनम् आज्ञाय नाहुषः परया मुदा । प्रहर्षम् अतुलम् लेभे जराम् सङ्क्रामयत् च ताम् ॥ ७।५९।८ ॥
pūroḥ vacanam ājñāya nāhuṣaḥ parayā mudā . praharṣam atulam lebhe jarām saṅkrāmayat ca tām .. 7.59.8 ..
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ७.५९.९ ॥
ततस् स राजा तरुणः प्राप्य यज्ञान् सहस्रशस् । बहु-वर्ष-सहस्राणि पालयामास मेदिनीम् ॥ ७।५९।९ ॥
tatas sa rājā taruṇaḥ prāpya yajñān sahasraśas . bahu-varṣa-sahasrāṇi pālayāmāsa medinīm .. 7.59.9 ..
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ ७.५९.१० ॥
अथ दीर्घस्य कालस्य राजा पूरुम् अथ अब्रवीत् । आनयस्व जराम् पुत्र न्यासम् निर्यातयस्व मे ॥ ७।५९।१० ॥
atha dīrghasya kālasya rājā pūrum atha abravīt . ānayasva jarām putra nyāsam niryātayasva me .. 7.59.10 ..
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥ ७.५९.११ ॥
न्यास-भूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात् प्रतिग्रहीष्यामि ताम् जराम् मा व्यथाम् कृथाः ॥ ७।५९।११ ॥
nyāsa-bhūtā mayā putra tvayi saṅkrāmitā jarā . tasmāt pratigrahīṣyāmi tām jarām mā vyathām kṛthāḥ .. 7.59.11 ..
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् । त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥ ७.५९.१२ ॥
प्रीतः च अस्मि महा-बाहो शासनस्य प्रतिग्रहात् । त्वाम् च अहम् अभिषेक्ष्यामि प्रीति-युक्तः नराधिपम् ॥ ७।५९।१२ ॥
prītaḥ ca asmi mahā-bāho śāsanasya pratigrahāt . tvām ca aham abhiṣekṣyāmi prīti-yuktaḥ narādhipam .. 7.59.12 ..
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः । देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ ७.५९.१३ ॥
एवम् उक्त्वा सुतम् पूरुम् ययातिः नहुष-आत्मजः । देवयानी-सुतम् क्रुद्धः राजा वाक्यम् उवाच ह ॥ ७।५९।१३ ॥
evam uktvā sutam pūrum yayātiḥ nahuṣa-ātmajaḥ . devayānī-sutam kruddhaḥ rājā vākyam uvāca ha .. 7.59.13 ..
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ॥ ७.५९.१४ ॥
राक्षसः त्वम् मया जातः पुत्र-रूपः दुरासदः । प्रतिहंसि मम आज्ञाम् यत् प्रजा-अर्थे विफलः भव ॥ ७।५९।१४ ॥
rākṣasaḥ tvam mayā jātaḥ putra-rūpaḥ durāsadaḥ . pratihaṃsi mama ājñām yat prajā-arthe viphalaḥ bhava .. 7.59.14 ..
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे । राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ ७.५९.१५ ॥
पितरम् गुरु-भूतम् माम् यस्मात् त्वम् अवमन्यसे । राक्षसान् यातुधानान् त्वम् जनयिष्यसि दारुणान् ॥ ७।५९।१५ ॥
pitaram guru-bhūtam mām yasmāt tvam avamanyase . rākṣasān yātudhānān tvam janayiṣyasi dāruṇān .. 7.59.15 ..
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ ७.५९.१६ ॥
न तु सोम-कुल-उत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशः अपि भवतः तुल्यः दुर्विनीतः भविष्यति ॥ ७।५९।१६ ॥
na tu soma-kula-utpanne vaṃśe sthāsyati durmateḥ . vaṃśaḥ api bhavataḥ tulyaḥ durvinītaḥ bhaviṣyati .. 7.59.16 ..
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् । अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥ ७.५९.१७ ॥
तम् एवम् उक्त्वा राजर्षिः पूरुम् राज्य-विवर्धनम् । अभिषेकेण सम्पूज्य आश्रमम् प्रविवेश ह ॥ ७।५९।१७ ॥
tam evam uktvā rājarṣiḥ pūrum rājya-vivardhanam . abhiṣekeṇa sampūjya āśramam praviveśa ha .. 7.59.17 ..
ततः कालेन महता दिष्टान्तमुपजग्मिवान् । त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥ ७.५९.१८ ॥
ततस् कालेन महता दिष्टान्तम् उपजग्मिवान् । त्रिदिवम् सङ्गतः राजा ययातिः नहुष-आत्मजः ॥ ७।५९।१८ ॥
tatas kālena mahatā diṣṭāntam upajagmivān . tridivam saṅgataḥ rājā yayātiḥ nahuṣa-ātmajaḥ .. 7.59.18 ..
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ॥ ७.५९.१९ ॥
पूरुः चकार तत् राज्यम् धर्मेण महता वृतः । प्रतिष्ठाने पुर-वरे काशि-राज्ये महा-यशाः ॥ ७।५९।१९ ॥
pūruḥ cakāra tat rājyam dharmeṇa mahatā vṛtaḥ . pratiṣṭhāne pura-vare kāśi-rājye mahā-yaśāḥ .. 7.59.19 ..
यदुस्तु जनयामास यातुधानान्सहस्रशः । पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥ ७.५९.२० ॥
यदुः तु जनयामास यातुधानान् सहस्रशस् । पुरे क्रौञ्च-वने दुर्गे राज-वंश-बहिष्कृतः ॥ ७।५९।२० ॥
yaduḥ tu janayāmāsa yātudhānān sahasraśas . pure krauñca-vane durge rāja-vaṃśa-bahiṣkṛtaḥ .. 7.59.20 ..
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥ ७.५९.२१ ॥
एष तु उशनसा मुक्तः शाप-उत्सर्गः ययातिना । धारितः क्षत्र-धर्मेण यत् निमिः च न चक्षमे ॥ ७।५९।२१ ॥
eṣa tu uśanasā muktaḥ śāpa-utsargaḥ yayātinā . dhāritaḥ kṣatra-dharmeṇa yat nimiḥ ca na cakṣame .. 7.59.21 ..
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ ७.५९.२२ ॥
एतत् ते सर्वम् आख्यातम् दर्शनम् सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषः न स्यात् यथा नृगे ॥ ७।५९।२२ ॥
etat te sarvam ākhyātam darśanam sarvakāriṇām . anuvartāmahe saumya doṣaḥ na syāt yathā nṛge .. 7.59.22 ..
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ ७.५९.२३ ॥
इति कथयति रामे चन्द्र-तुल्य-आनने च प्रविरलतर-तारम् व्योम जज्ञे तदानीम् । अरुणकिरण-रक्ता दिश् बभौ च एव पूर्वा कुसुम-रस-विमुक्तम् वस्त्रम् आकुण्ठिता इव ॥ ७।५९।२३ ॥
iti kathayati rāme candra-tulya-ānane ca praviralatara-tāram vyoma jajñe tadānīm . aruṇakiraṇa-raktā diś babhau ca eva pūrvā kusuma-rasa-vimuktam vastram ākuṇṭhitā iva .. 7.59.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonaṣaṣṭitamaḥ sargaḥ .. 59 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In