This overlay will guide you through the buttons:

| |
|
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ ७.६.१ ॥
तैः वध्यमानाः देवाः च ऋषयः च तपोधनाः । भय-आर्ताः शरणम् जग्मुः देवदेवम् महेश्वरम् ॥ ७।६।१ ॥
taiḥ vadhyamānāḥ devāḥ ca ṛṣayaḥ ca tapodhanāḥ . bhaya-ārtāḥ śaraṇam jagmuḥ devadevam maheśvaram .. 7.6.1 ..
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ ७.६.२ ॥
जगत्-सृष्टि-अन्त-कर्तारम् अजम् अव्यक्त-रूपिणम् । आधारम् सर्व-लोकानाम् आराध्यम् परमम् गुरुम् ॥ ७।६।२ ॥
jagat-sṛṣṭi-anta-kartāram ajam avyakta-rūpiṇam . ādhāram sarva-lokānām ārādhyam paramam gurum .. 7.6.2 ..
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ ७.६.३ ॥
ते समेत्य तु कामारिम् त्रिपुरारिम् त्रिलोचनम् । ऊचुः प्राञ्जलयः देवाः भय-गद्गद-भाषिणः ॥ ७।६।३ ॥
te sametya tu kāmārim tripurārim trilocanam . ūcuḥ prāñjalayaḥ devāḥ bhaya-gadgada-bhāṣiṇaḥ .. 7.6.3 ..
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ ७.६.४ ॥
सुकेश-पुत्रैः भगवन् पितामह-वर-उद्धतैः । प्रजाध्यक्ष प्रजाः सर्वाः बाध्यन्ते रिपु-बाधनैः ॥ ७।६।४ ॥
sukeśa-putraiḥ bhagavan pitāmaha-vara-uddhataiḥ . prajādhyakṣa prajāḥ sarvāḥ bādhyante ripu-bādhanaiḥ .. 7.6.4 ..
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ ७.६.५ ॥
शरण्यानि अशरण्यानि हि आश्रमाणि कृतानि नः । स्वर्गात् च देवान् प्रच्याव्य स्वर्गे क्रीडन्ति देव-वत् ॥ ७।६।५ ॥
śaraṇyāni aśaraṇyāni hi āśramāṇi kṛtāni naḥ . svargāt ca devān pracyāvya svarge krīḍanti deva-vat .. 7.6.5 ..
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ॥ ७.६.६ ॥
अहम् विष्णुः अहम् रुद्रः ब्रह्मा अहम् देवराज् अहम् । अहम् यमः च वरुणः चन्द्रः अहम् रविः अपि अहम् ॥ ७।६।६ ॥
aham viṣṇuḥ aham rudraḥ brahmā aham devarāj aham . aham yamaḥ ca varuṇaḥ candraḥ aham raviḥ api aham .. 7.6.6 ..
इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः । तन्नो देव भयार्तानामभयं दातुमर्हसि ॥ ७.६.७ ॥
इति माली सुमाली च माल्यवान् च एव राक्षसाः । बाधन्ते समर-उद्धर्षाः ये च तेषाम् पुरःसराः । तत् नः देव भय-आर्तानाम् अभयम् दातुम् अर्हसि ॥ ७।६।७ ॥
iti mālī sumālī ca mālyavān ca eva rākṣasāḥ . bādhante samara-uddharṣāḥ ye ca teṣām puraḥsarāḥ . tat naḥ deva bhaya-ārtānām abhayam dātum arhasi .. 7.6.7 ..
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ ७.६.८ ॥
अशिवम् वपुः आस्थाय जहि वै देव-कण्टकान् ॥ ७।६।८ ॥
aśivam vapuḥ āsthāya jahi vai deva-kaṇṭakān .. 7.6.8 ..
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ७.६.९ ॥
धन्ते समर-उद्धर्षाः ये च तेषाम् पुरःसराः । इति उक्तः तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशम् प्रति स अपेक्षः प्राह देव-गणान् प्रभुः ॥ ७।६।९ ॥
dhante samara-uddharṣāḥ ye ca teṣām puraḥsarāḥ . iti uktaḥ tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ . sukeśam prati sa apekṣaḥ prāha deva-gaṇān prabhuḥ .. 7.6.9 ..
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ ७.६.१० ॥
अहम् तान् न हनिष्यामि मया अवध्याः हि ते सुराः । किम् तु मन्त्रम् प्रदास्यामि यः वै तान् निहनिष्यति ॥ ७।६।१० ॥
aham tān na haniṣyāmi mayā avadhyāḥ hi te surāḥ . kim tu mantram pradāsyāmi yaḥ vai tān nihaniṣyati .. 7.6.10 ..
एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ ७.६.११ ॥
एतम् एव समुद्योगम् पुरस्कृत्य महा-ऋषयः । गच्छध्वम् शरणम् विष्णुम् हनिष्यति स तान् प्रभुः ॥ ७।६।११ ॥
etam eva samudyogam puraskṛtya mahā-ṛṣayaḥ . gacchadhvam śaraṇam viṣṇum haniṣyati sa tān prabhuḥ .. 7.6.11 ..
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ ७.६.१२ ॥
ततस् तु जय-शब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपम् आजग्मुः निशाचर-भय-अर्दिताः ॥ ७।६।१२ ॥
tatas tu jaya-śabdena pratinandya maheśvaram . viṣṇoḥ samīpam ājagmuḥ niśācara-bhaya-arditāḥ .. 7.6.12 ..
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ ७.६.१३ ॥
शङ्ख-चक्र-धरम् देवम् प्रणम्य बहु-मान्य च । ऊचुः सम्भ्रान्त-वत् वाक्यम् सुकेश-तनयान् प्रति ॥ ७।६।१३ ॥
śaṅkha-cakra-dharam devam praṇamya bahu-mānya ca . ūcuḥ sambhrānta-vat vākyam sukeśa-tanayān prati .. 7.6.13 ..
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ ७.६.१४ ॥
सुकेश-तनयैः देव त्रिभिः त्रेताग्नि-सन्निभैः । आक्रम्य वर-दानेन स्थानानि अपहृतानि नः ॥ ७।६।१४ ॥
sukeśa-tanayaiḥ deva tribhiḥ tretāgni-sannibhaiḥ . ākramya vara-dānena sthānāni apahṛtāni naḥ .. 7.6.14 ..
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ ७.६.१५ ॥
लङ्का नाम पुरी दुर्गा त्रिकूट-शिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदा-चराः ॥ ७।६।१५ ॥
laṅkā nāma purī durgā trikūṭa-śikhare sthitā . tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadā-carāḥ .. 7.6.15 ..
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ ७.६.१६ ॥
स त्वम् अस्मद्-हित-अर्थाय जहि तान् मधुसूदन । शरणम् त्वाम् वयम् प्राप्ताः गतिः भव सुरेश्वर ॥ ७।६।१६ ॥
sa tvam asmad-hita-arthāya jahi tān madhusūdana . śaraṇam tvām vayam prāptāḥ gatiḥ bhava sureśvara .. 7.6.16 ..
चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ॥ ७.६.१७ ॥
चक्र-कृत्त-आस्य-कमलान् निवेदय यमाय वै । भयेषु अभय-दः अस्माकम् न अन्यः अस्ति भवता विना ॥ ७।६।१७ ॥
cakra-kṛtta-āsya-kamalān nivedaya yamāya vai . bhayeṣu abhaya-daḥ asmākam na anyaḥ asti bhavatā vinā .. 7.6.17 ..
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् । नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥ ७.६.१८ ॥
राक्षसान् समरे दुष्टान् स अनुबन्धान् मद-उद्धतान् । नुदम् त्वम् नः भयम् देव नीहारम् इव भास्करः ॥ ७।६।१८ ॥
rākṣasān samare duṣṭān sa anubandhān mada-uddhatān . nudam tvam naḥ bhayam deva nīhāram iva bhāskaraḥ .. 7.6.18 ..
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ॥ ७.६.१९ ॥
इति एवम् दैवतैः उक्तः देवदेवः जनार्दनः । अभयम् भय-दः अरीणाम् दत्त्वा देवान् उवाच ह ॥ ७।६।१९ ॥
iti evam daivataiḥ uktaḥ devadevaḥ janārdanaḥ . abhayam bhaya-daḥ arīṇām dattvā devān uvāca ha .. 7.6.19 ..
सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ ७.६.२० ॥
सुकेशम् राक्षसम् जाने ईशान-वर-दर्पितम् । तान् च अस्य तनयान् जाने येषाम् ज्येष्ठः स माल्यवान् ॥ ७।६।२० ॥
sukeśam rākṣasam jāne īśāna-vara-darpitam . tān ca asya tanayān jāne yeṣām jyeṣṭhaḥ sa mālyavān .. 7.6.20 ..
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥ ७.६.२१ ॥
तान् अहम् समतिक्रान्त-मर्यादान् राक्षस-अधमान् । निहनिष्यामि सङ्क्रुद्धः सुराः भवत विज्वराः ॥ ७।६।२१ ॥
tān aham samatikrānta-maryādān rākṣasa-adhamān . nihaniṣyāmi saṅkruddhaḥ surāḥ bhavata vijvarāḥ .. 7.6.21 ..
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ ७.६.२२ ॥
इति उक्ताः ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासम् ययुः हृष्टाः प्रशंसन्तः जनार्दनम् ॥ ७।६।२२ ॥
iti uktāḥ te surāḥ sarve viṣṇunā prabhaviṣṇunā . yathāvāsam yayuḥ hṛṣṭāḥ praśaṃsantaḥ janārdanam .. 7.6.22 ..
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ ७.६.२३ ॥
विबुधानाम् समुद्योगम् माल्यवान् तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीरौ इदम् वचनम् अब्रवीत् ॥ ७।६।२३ ॥
vibudhānām samudyogam mālyavān tu niśācaraḥ . śrutvā tau bhrātarau vīrau idam vacanam abravīt .. 7.6.23 ..
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ ७.६.२४ ॥
अमराः ऋषयः च एव सङ्गम्य किल शकरम् । अस्मद्-वधम् परीप्सन्तः इदम् वचनम् अब्रुवन् ॥ ७।६।२४ ॥
amarāḥ ṛṣayaḥ ca eva saṅgamya kila śakaram . asmad-vadham parīpsantaḥ idam vacanam abruvan .. 7.6.24 ..
सुकेशतनया देव वरदानबलोद्धताः । बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ ७.६.२५ ॥
सुकेश-तनयाः देव वर-दान-बल-उद्धताः । बाधन्ते अस्मान् समुद्दृप्ताः घोर-रूपाः पदे पदे ॥ ७।६।२५ ॥
sukeśa-tanayāḥ deva vara-dāna-bala-uddhatāḥ . bādhante asmān samuddṛptāḥ ghora-rūpāḥ pade pade .. 7.6.25 ..
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ ७.६.२६ ॥
राक्षसैः अभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुम् भयात् तेषाम् दुरात्मनाम् ॥ ७।६।२६ ॥
rākṣasaiḥ abhibhūtāḥ sma na śaktāḥ sma prajāpate . sveṣu sadmasu saṃsthātum bhayāt teṣām durātmanām .. 7.6.26 ..
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥ ७.६.२७ ॥
तत् अस्माकम् हित-अर्थाय जहि तान् च त्रिलोचन । राक्षसान् हुङ्कृतेन एव दह प्रदहताम् वर ॥ ७।६।२७ ॥
tat asmākam hita-arthāya jahi tān ca trilocana . rākṣasān huṅkṛtena eva daha pradahatām vara .. 7.6.27 ..
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ ७.६.२८ ॥
इति एवम् त्रिदशैः उक्तः निशम्य अन्धक-सूदनः । शिरः करम् च धुन्वानः इदम् वचनम् अब्रवीत् ॥ ७।६।२८ ॥
iti evam tridaśaiḥ uktaḥ niśamya andhaka-sūdanaḥ . śiraḥ karam ca dhunvānaḥ idam vacanam abravīt .. 7.6.28 ..
अवध्या मम ते देवाः सुकेशतनया रणे । मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ ७.६.२९ ॥
अवध्याः मम ते देवाः सुकेश-तनयाः रणे । मन्त्रम् तु वः प्रदास्यामि यः तान् वै निहनिष्यति ॥ ७।६।२९ ॥
avadhyāḥ mama te devāḥ sukeśa-tanayāḥ raṇe . mantram tu vaḥ pradāsyāmi yaḥ tān vai nihaniṣyati .. 7.6.29 ..
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥ ७.६.३० ॥
यः असौ चक्र-गदा-पाणिः पीत-वासाः जनार्दनः । हरिः नारायणः श्रीमान् शरणम् तम् प्रपद्यथ ॥ ७।६।३० ॥
yaḥ asau cakra-gadā-pāṇiḥ pīta-vāsāḥ janārdanaḥ . hariḥ nārāyaṇaḥ śrīmān śaraṇam tam prapadyatha .. 7.6.30 ..
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ७.६.३१ ॥
हरात् अवाप्य ते मन्त्रम् कामारिम् अभिवाद्य च । नारायण-आलयम् प्राप्य तस्मै सर्वम् न्यवेदयन् ॥ ७।६।३१ ॥
harāt avāpya te mantram kāmārim abhivādya ca . nārāyaṇa-ālayam prāpya tasmai sarvam nyavedayan .. 7.6.31 ..
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ ७.६.३२ ॥
ततस् नारायणेन उक्ताः देवाः इन्द्र-पुरोगमाः । सुरारीन् तान् हनिष्यामि सुराः भवत विज्वराः ॥ ७।६।३२ ॥
tatas nārāyaṇena uktāḥ devāḥ indra-purogamāḥ . surārīn tān haniṣyāmi surāḥ bhavata vijvarāḥ .. 7.6.32 ..
देवानां भयभीतानां हरिणा राक्षसर्षभौ । प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ॥ ७.६.३३ ॥
देवानाम् भय-भीतानाम् हरिणा राक्षस-ऋषभौ । प्रतिज्ञातः वधः अस्माकम् चिन्त्यताम् यत् इह क्षमम् ॥ ७।६।३३ ॥
devānām bhaya-bhītānām hariṇā rākṣasa-ṛṣabhau . pratijñātaḥ vadhaḥ asmākam cintyatām yat iha kṣamam .. 7.6.33 ..
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् । नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ ७.६.३४ ॥
हिरण्यकशिपोः मृत्युः अन्येषाम् च सुरद्विषाम् । नमुचिः कालनेमिः च संह्रादः वीर-सत्तमः ॥ ७।६।३४ ॥
hiraṇyakaśipoḥ mṛtyuḥ anyeṣām ca suradviṣām . namuciḥ kālanemiḥ ca saṃhrādaḥ vīra-sattamaḥ .. 7.6.34 ..
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः । यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ ७.६.३५ ॥
राधेयः बहु-मायी च लोकपालः अथ धार्मिकः । यमल-अर्जुनौ च हार्दिक्यः शुम्भः च एव निशुम्भकः ॥ ७।६।३५ ॥
rādheyaḥ bahu-māyī ca lokapālaḥ atha dhārmikaḥ . yamala-arjunau ca hārdikyaḥ śumbhaḥ ca eva niśumbhakaḥ .. 7.6.35 ..
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः । सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ॥ ७.६.३६ ॥
असुराः दानवाः च एव सत्त्ववन्तः महा-बलाः । सर्वे समरम् आसाद्य न श्रूयन्ते अपराजिताः ॥ ७।६।३६ ॥
asurāḥ dānavāḥ ca eva sattvavantaḥ mahā-balāḥ . sarve samaram āsādya na śrūyante aparājitāḥ .. 7.6.36 ..
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा । सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥ ७.६.३७ ॥
सर्वैः क्रतु-शतैः इष्टम् सर्वे माया-विदः तथा । सर्वे सर्व-अस्त्र-कुशलाः सर्वे शत्रु-भयङ्कराः ॥ ७।६।३७ ॥
sarvaiḥ kratu-śataiḥ iṣṭam sarve māyā-vidaḥ tathā . sarve sarva-astra-kuśalāḥ sarve śatru-bhayaṅkarāḥ .. 7.6.37 ..
नारायणेन निहताः शतशो ऽथ सहस्रशः । एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ ७.६.३८ ॥
नारायणेन निहताः शतशस् अथ सहस्रशस् । एतत् ज्ञात्वा तु सर्वेषाम् क्षमम् कर्तुम् इह अर्हथ ॥ ७।६।३८ ॥
nārāyaṇena nihatāḥ śataśas atha sahasraśas . etat jñātvā tu sarveṣām kṣamam kartum iha arhatha .. 7.6.38 ..
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः । ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ७.६.३९ ॥
ततस् सुमाली माली च श्रुत्वा माल्यवतः वचः । ऊचतुः भ्रातरम् ज्येष्ठम् भग-अंशौ इव वासवम् ॥ ७।६।३९ ॥
tatas sumālī mālī ca śrutvā mālyavataḥ vacaḥ . ūcatuḥ bhrātaram jyeṣṭham bhaga-aṃśau iva vāsavam .. 7.6.39 ..
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् । आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ ७.६.४० ॥
सु अधीतम् दत्तम् इष्टम् च अपि ऐश्वर्यम् परिपालितम् । आयुः निरामयम् प्राप्तम् सुधर्मः प्रापितः पथि ॥ ७।६।४० ॥
su adhītam dattam iṣṭam ca api aiśvaryam paripālitam . āyuḥ nirāmayam prāptam sudharmaḥ prāpitaḥ pathi .. 7.6.40 ..
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ ७.६.४१ ॥
देव-सागरम् अक्षोभ्यम् शस्त्रैः समवगाह्य च । जिताः द्विषः हि अप्रतिमाः तत् नः मृत्यु-कृतम् भयम् ॥ ७।६।४१ ॥
deva-sāgaram akṣobhyam śastraiḥ samavagāhya ca . jitāḥ dviṣaḥ hi apratimāḥ tat naḥ mṛtyu-kṛtam bhayam .. 7.6.41 ..
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ ७.६.४२ ॥
नारायणः च रुद्रः च शक्रः च अपि यमः तथा । अस्माकम् प्रमुखे स्थातुम् सर्वे बिभ्यति सर्वदा ॥ ७।६।४२ ॥
nārāyaṇaḥ ca rudraḥ ca śakraḥ ca api yamaḥ tathā . asmākam pramukhe sthātum sarve bibhyati sarvadā .. 7.6.42 ..
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ७.६.४३ ॥
विष्णोः देवस्य न अस्ति एव कारणम् राक्षस-ईश्वर । देवानाम् एव दोषेण विष्णोः प्रचलितम् मनः ॥ ७।६।४३ ॥
viṣṇoḥ devasya na asti eva kāraṇam rākṣasa-īśvara . devānām eva doṣeṇa viṣṇoḥ pracalitam manaḥ .. 7.6.43 ..
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ ७.६.४४ ॥
तस्मात् अद्य समुद्युक्ताः सर्व-सैन्य-समावृताः । देवान् एव जिघांसामः एभ्यः दोषः समुत्थितः ॥ ७।६।४४ ॥
tasmāt adya samudyuktāḥ sarva-sainya-samāvṛtāḥ . devān eva jighāṃsāmaḥ ebhyaḥ doṣaḥ samutthitaḥ .. 7.6.44 ..
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥ युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ ७.६.४५ ॥
एवम् सम्मन्त्र्य बलिनः सर्वे सैन्य-समावृताः । उद्योगम् घोषयित्वा तु सर्वे नैरृत-पुङ्गवाः ॥ युद्धाय निर्ययुः क्रुद्धाः जम्भ-वृत्र-बलाः इव ॥ ७।६।४५ ॥
evam sammantrya balinaḥ sarve sainya-samāvṛtāḥ . udyogam ghoṣayitvā tu sarve nairṛta-puṅgavāḥ .. yuddhāya niryayuḥ kruddhāḥ jambha-vṛtra-balāḥ iva .. 7.6.45 ..
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ७.६.४६ ॥
इति ते राम सम्मन्त्र्य सर्व-उद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महा-कायाः महा-बलाः ॥ ७।६।४६ ॥
iti te rāma sammantrya sarva-udyogena rākṣasāḥ . yuddhāya niryayuḥ sarve mahā-kāyāḥ mahā-balāḥ .. 7.6.46 ..
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः । खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ ७.६.४७ ॥
स्यन्दनैः वारणैः च एव हयैः च गिरि-सन्निभैः । खरैः गोभिः रथ-उष्ट्रैः च शिंशुमारैः भुजङ्गमैः ॥ ७।६।४७ ॥
syandanaiḥ vāraṇaiḥ ca eva hayaiḥ ca giri-sannibhaiḥ . kharaiḥ gobhiḥ ratha-uṣṭraiḥ ca śiṃśumāraiḥ bhujaṅgamaiḥ .. 7.6.47 ..
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः । सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ७.६.४८ ॥
मकरैः कच्छपैः मीनैः विहङ्गैः गरुड-उपमैः । सिंहैः व्याघ्रैः वराहैः च सृमरैः चमरैः अपि ॥ ७।६।४८ ॥
makaraiḥ kacchapaiḥ mīnaiḥ vihaṅgaiḥ garuḍa-upamaiḥ . siṃhaiḥ vyāghraiḥ varāhaiḥ ca sṛmaraiḥ camaraiḥ api .. 7.6.48 ..
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ ७.६.४९ ॥
त्यक्त्वा लङ्काम् गताः सर्वे राक्षसाः बल-गर्विताः । प्रयाता देव-लोकाय योद्धुम् दैवत-शत्रवः ॥ ७।६।४९ ॥
tyaktvā laṅkām gatāḥ sarve rākṣasāḥ bala-garvitāḥ . prayātā deva-lokāya yoddhum daivata-śatravaḥ .. 7.6.49 ..
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ । भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ७.६.५० ॥
लङ्का-विपर्ययम् दृष्ट्वा यानि लङ्का-आलयानि अथ । भूतानि भय-दर्शीनि विमनस्कानि सर्वशस् ॥ ७।६।५० ॥
laṅkā-viparyayam dṛṣṭvā yāni laṅkā-ālayāni atha . bhūtāni bhaya-darśīni vimanaskāni sarvaśas .. 7.6.50 ..
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ॥ ७.६.५१ ॥
रथ-उत्तमैः उह्यमानाः शतशस् अथ सहस्रशस् ॥ ७।६।५१ ॥
ratha-uttamaiḥ uhyamānāḥ śataśas atha sahasraśas .. 7.6.51 ..
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ ७.६.५२ ॥
प्रयाताः राक्षसाः तूर्णम् देव-लोकम् प्रयत्नतः । रक्षसाम् एव मार्गेण दैवतानि अपचक्रमुः ॥ ७।६।५२ ॥
prayātāḥ rākṣasāḥ tūrṇam deva-lokam prayatnataḥ . rakṣasām eva mārgeṇa daivatāni apacakramuḥ .. 7.6.52 ..
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः । उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ७.६.५३ ॥
भौमाः च एव आन्तरिक्षाः च काल-आज्ञप्ताः भय-आवहाः । उत्पाताः राक्षस-इन्द्राणाम् अभावाय समुत्थिताः ॥ ७।६।५३ ॥
bhaumāḥ ca eva āntarikṣāḥ ca kāla-ājñaptāḥ bhaya-āvahāḥ . utpātāḥ rākṣasa-indrāṇām abhāvāya samutthitāḥ .. 7.6.53 ..
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च । वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ ७.६.५४ ॥
अस्थीनि मेघाः ववृषुः उष्णम् शोणितम् एव च । वेलाम् समुद्राः च उत्क्रान्ताः चेलुः च अपि अथ भूधराः ॥ ७।६।५४ ॥
asthīni meghāḥ vavṛṣuḥ uṣṇam śoṇitam eva ca . velām samudrāḥ ca utkrāntāḥ celuḥ ca api atha bhūdharāḥ .. 7.6.54 ..
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ७.६.५५ ॥
अट्टहासान् विमुञ्चन्तः घन-नाद-सम-स्वनाः । वाश्यन्त्यः च शिवाः तत्र दारुणम् घोर-दर्शनाः ॥ ७।६।५५ ॥
aṭṭahāsān vimuñcantaḥ ghana-nāda-sama-svanāḥ . vāśyantyaḥ ca śivāḥ tatra dāruṇam ghora-darśanāḥ .. 7.6.55 ..
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥ ७.६.५६ ॥
सम्पतन्ति अथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्र-चक्रम् महत् च अत्र ज्वलन-उद्गारिभिः मुखैः ॥ ७।६।५६ ॥
sampatanti atha bhūtāni dṛśyante ca yathākramam . gṛdhra-cakram mahat ca atra jvalana-udgāribhiḥ mukhaiḥ .. 7.6.56 ..
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥ काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ ७.६.५७ ॥
राक्षसानाम् उपरि खे भ्रमते अलात-चक्र-वत् । कपोताः रक्तपादाः च शारिकाः विद्रुताः ययुः ॥ काकाः वाश्यन्ति तत्र एव बिडालाः वै द्विप-आदयः ॥ ७।६।५७ ॥
rākṣasānām upari khe bhramate alāta-cakra-vat . kapotāḥ raktapādāḥ ca śārikāḥ vidrutāḥ yayuḥ .. kākāḥ vāśyanti tatra eva biḍālāḥ vai dvipa-ādayaḥ .. 7.6.57 ..
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥ ७.६.५८ ॥
उत्पातान् तान् अन् आदृत्य राक्षसाः बल-गर्विताः । यान्ति एव न निवर्त्तन्ते मृत्यु-पाश-अवपाशिताः ॥ ७।६।५८ ॥
utpātān tān an ādṛtya rākṣasāḥ bala-garvitāḥ . yānti eva na nivarttante mṛtyu-pāśa-avapāśitāḥ .. 7.6.58 ..
माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ ७.६.५९ ॥
माल्यवान् च सुमाली च माली च सु महा-बलाः । आसन् पुरःसराः तेषाम् क्रतूनाम् इव पावकाः ॥ ७।६।५९ ॥
mālyavān ca sumālī ca mālī ca su mahā-balāḥ . āsan puraḥsarāḥ teṣām kratūnām iva pāvakāḥ .. 7.6.59 ..
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ ७.६.६० ॥
माल्यवन्तम् च ते सर्वे माल्यवन्तम् इव अचलम् । निशाचराः हि आश्रयन्ति धातारम् इव देवताः ॥ ७।६।६० ॥
mālyavantam ca te sarve mālyavantam iva acalam . niśācarāḥ hi āśrayanti dhātāram iva devatāḥ .. 7.6.60 ..
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ ७.६.६१ ॥
तत् बलम् राक्षस-इन्द्राणाम् महा-अभ्र-घन-नादितम् । जय-ईप्सया देव-लोकम् ययौ मालि-वशे स्थितम् ॥ ७।६।६१ ॥
tat balam rākṣasa-indrāṇām mahā-abhra-ghana-nāditam . jaya-īpsayā deva-lokam yayau māli-vaśe sthitam .. 7.6.61 ..
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ ७.६.६२ ॥
राक्षसानाम् समुद्योगम् तम् तु नारायणः प्रभुः । देव-दूतात् उपश्रुत्य चक्रे युद्धे तदा मनः ॥ ७।६।६२ ॥
rākṣasānām samudyogam tam tu nārāyaṇaḥ prabhuḥ . deva-dūtāt upaśrutya cakre yuddhe tadā manaḥ .. 7.6.62 ..
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ७.६.६३ ॥
स सज्ज-आयुध-तूणीरः वैनतेय-उपरि स्थितः । आसज्ज्य कवचम् दिव्यम् सहस्र-अर्क-सम-द्युति ॥ ७।६।६३ ॥
sa sajja-āyudha-tūṇīraḥ vainateya-upari sthitaḥ . āsajjya kavacam divyam sahasra-arka-sama-dyuti .. 7.6.63 ..
आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥ शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ ७.६.६४ ॥
आबध्य शर-सम्पूर्णे इषुधी विमले तदा । श्रोणि-सूत्रम् च खड्गम् च विमलम् कमल-ईक्षणः ॥ शङ्ख-चक्र-गदा-शार्ङ्ग-खड्ग-आख्य-प्रवर-आयुधान् ॥ ७।६।६४ ॥
ābadhya śara-sampūrṇe iṣudhī vimale tadā . śroṇi-sūtram ca khaḍgam ca vimalam kamala-īkṣaṇaḥ .. śaṅkha-cakra-gadā-śārṅga-khaḍga-ākhya-pravara-āyudhān .. 7.6.64 ..
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ७.६.६५ ॥
सुपर्णम् गिरि-सङ्काशम् वैनतेयम् अथ आस्थितः । राक्षसानाम् अभावाय ययौ तूर्णतरम् प्रभुः ॥ ७।६।६५ ॥
suparṇam giri-saṅkāśam vainateyam atha āsthitaḥ . rākṣasānām abhāvāya yayau tūrṇataram prabhuḥ .. 7.6.65 ..
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ ७.६.६६ ॥
सुपर्ण-पृष्ठे स बभौ श्यामः पीत-अम्बरः हरिः । काञ्चनस्य गिरेः शृङ्गे स तडित् तोयदः यथा ॥ ७।६।६६ ॥
suparṇa-pṛṣṭhe sa babhau śyāmaḥ pīta-ambaraḥ hariḥ . kāñcanasya gireḥ śṛṅge sa taḍit toyadaḥ yathā .. 7.6.66 ..
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ ७.६.६७ ॥
स सिद्ध-देव-ऋषि-महा-उरगैः च गन्धर्व-यक्षैः उपगीयमानः । समाससाद असुर-सैन्य-शत्रून् चक्र-असि-शार्ङ्ग-आयुध-शङ्ख-पाणिः ॥ ७।६।६७ ॥
sa siddha-deva-ṛṣi-mahā-uragaiḥ ca gandharva-yakṣaiḥ upagīyamānaḥ . samāsasāda asura-sainya-śatrūn cakra-asi-śārṅga-āyudha-śaṅkha-pāṇiḥ .. 7.6.67 ..
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ७.६.६८ ॥
सुपर्ण-पक्ष-अनिल-नुन्न-पक्षम् भ्रमत्-पताकम् प्रविकीर्ण-शस्त्रम् । चचाल तत् राक्षस-राज-सैन्यम् चल-उपलम् नीलः इव अचल-इन्द्रः ॥ ७।६।६८ ॥
suparṇa-pakṣa-anila-nunna-pakṣam bhramat-patākam pravikīrṇa-śastram . cacāla tat rākṣasa-rāja-sainyam cala-upalam nīlaḥ iva acala-indraḥ .. 7.6.68 ..
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ७.६.६९ ॥
ततस् शरैः शोणित-मांस-रूषितैः युगान्त-वैश्वानर-तुल्य-विग्रहैः । निशाचराः सम्परिवार्य माधवम् वर-आयुधैः निर्बिभिदुः सहस्रशस् ॥ ७।६।६९ ॥
tatas śaraiḥ śoṇita-māṃsa-rūṣitaiḥ yugānta-vaiśvānara-tulya-vigrahaiḥ . niśācarāḥ samparivārya mādhavam vara-āyudhaiḥ nirbibhiduḥ sahasraśas .. 7.6.69 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्ठः सर्गः ॥ ६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षष्ठः सर्गः ॥ ६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṣṭhaḥ sargaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In