This overlay will guide you through the buttons:

| |
|
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ ७.६१.१ ॥
एवम् ब्रुवद्भिः ऋषिभिः काकुत्स्थः वाक्यम् अब्रवीत् । किम् कार्यम् ब्रूत मुनयः भयम् तावत् अपैतु वः ॥ ७।६१।१ ॥
evam bruvadbhiḥ ṛṣibhiḥ kākutsthaḥ vākyam abravīt . kim kāryam brūta munayaḥ bhayam tāvat apaitu vaḥ .. 7.61.1 ..
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ ७.६१.२ ॥
तथा ब्रुवति काकुत्स्थे भार्गवः वाक्यम् अब्रवीत् । भयानाम् शृणु यत् मूलम् देशस्य च नरेश्वर ॥ ७।६१।२ ॥
tathā bruvati kākutsthe bhārgavaḥ vākyam abravīt . bhayānām śṛṇu yat mūlam deśasya ca nareśvara .. 7.61.2 ..
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ७.६१.३ ॥
पूर्वम् कृत-युगे राजन् दैतेयः सु महा-बलः । लोला-पुत्रः अभवत् ज्येष्ठः मधुः नाम महा-असुरः ॥ ७।६१।३ ॥
pūrvam kṛta-yuge rājan daiteyaḥ su mahā-balaḥ . lolā-putraḥ abhavat jyeṣṭhaḥ madhuḥ nāma mahā-asuraḥ .. 7.61.3 ..
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ॥ ७.६१.४ ॥
ब्रह्मण्यः च शरण्यः च बुद्ध्या च परिनिष्ठितः । सुरैः च परम-उदारैः प्रीतिः तस्य अतुला अभवत् ॥ ७।६१।४ ॥
brahmaṇyaḥ ca śaraṇyaḥ ca buddhyā ca pariniṣṭhitaḥ . suraiḥ ca parama-udāraiḥ prītiḥ tasya atulā abhavat .. 7.61.4 ..
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ॥ ७.६१.५ ॥
स मधुः वीर्य-सम्पन्नः धर्मे च सु समाहितः । बहु-वर्ष-सहस्राणि रुद्र-प्रीत्या अकरोत् तपः ॥ ७।६१।५ ॥
sa madhuḥ vīrya-sampannaḥ dharme ca su samāhitaḥ . bahu-varṣa-sahasrāṇi rudra-prītyā akarot tapaḥ .. 7.61.5 ..
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ७.६१.६ ॥
रुद्रः प्रीतः अभवत् तस्मै वरम् दातुम् ययौ च सः । बहु-मानात् च रुद्रेण दत्तः तस्य अद्भुतः वरः ॥ ७।६१।६ ॥
rudraḥ prītaḥ abhavat tasmai varam dātum yayau ca saḥ . bahu-mānāt ca rudreṇa dattaḥ tasya adbhutaḥ varaḥ .. 7.61.6 ..
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७.६१.७ ॥
शूलम् शूलात् विनिष्कृष्य महा-वीर्यम् महा-प्रभम् । ददौ महात्मा सु प्रीतः वाक्यम् च एतत् उवाच ह ॥ ७।६१।७ ॥
śūlam śūlāt viniṣkṛṣya mahā-vīryam mahā-prabham . dadau mahātmā su prītaḥ vākyam ca etat uvāca ha .. 7.61.7 ..
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७.६१.८ ॥
त्वया अयम् अतुलः धर्मः मद्-प्रसाद-करः कृतः । प्रीत्या परमया युक्तः ददामि आयुधम् उत्तमम् ॥ ७।६१।८ ॥
tvayā ayam atulaḥ dharmaḥ mad-prasāda-karaḥ kṛtaḥ . prītyā paramayā yuktaḥ dadāmi āyudham uttamam .. 7.61.8 ..
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥ ७.६१.९ ॥
यावत् सुरैः च विप्रैः च न विरुध्येः महा-असुर । तावत् शूलम् तव इदम् स्यात् अन्यथा नाशम् एप्यति ॥ ७।६१।९ ॥
yāvat suraiḥ ca vipraiḥ ca na virudhyeḥ mahā-asura . tāvat śūlam tava idam syāt anyathā nāśam epyati .. 7.61.9 ..
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ७.६१.१० ॥
यः च त्वाम् अभियुञ्जीत युद्धाय विगत-ज्वरः । तम् शूलः भस्मसात्कृत्वा पुनर् एष्यति ते करम् ॥ ७।६१।१० ॥
yaḥ ca tvām abhiyuñjīta yuddhāya vigata-jvaraḥ . tam śūlaḥ bhasmasātkṛtvā punar eṣyati te karam .. 7.61.10 ..
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ७.६१.११ ॥
एवम् रुद्रात् वरम् लब्ध्वा भूयस् एव महा-असुरः । प्रणिपत्य महादेवम् वाक्यम् एतत् उवाच ह ॥ ७।६१।११ ॥
evam rudrāt varam labdhvā bhūyas eva mahā-asuraḥ . praṇipatya mahādevam vākyam etat uvāca ha .. 7.61.11 ..
भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ ७.६१.१२ ॥
भगवत् मम वंशस्य शूलम् एतत् अनुत्तमम् । भवेत् तु सततम् देव सुराणाम् ईश्वरः हि असि ॥ ७।६१।१२ ॥
bhagavat mama vaṃśasya śūlam etat anuttamam . bhavet tu satatam deva surāṇām īśvaraḥ hi asi .. 7.61.12 ..
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ ७.६१.१३ ॥
तम् ब्रुवाणम् मधुम् देवः सर्व-भूत-पतिः शिवः । प्रत्युवाच महा-तेजाः न एतत् एवम् भविष्यति ॥ ७।६१।१३ ॥
tam bruvāṇam madhum devaḥ sarva-bhūta-patiḥ śivaḥ . pratyuvāca mahā-tejāḥ na etat evam bhaviṣyati .. 7.61.13 ..
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ ७.६१.१४ ॥
मा भूत् ते विफला वाणी मद्-प्रसाद-कृता शुभा । भवतः पुत्रम् एकम् तु शूलम् एतत् भजिष्यते ॥ ७।६१।१४ ॥
mā bhūt te viphalā vāṇī mad-prasāda-kṛtā śubhā . bhavataḥ putram ekam tu śūlam etat bhajiṣyate .. 7.61.14 ..
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ ७.६१.१५ ॥
यावत् कर-स्थः शूलः अयम् भविष्यति सुतस्य ते । अवध्यः सर्व-भूतानाम् शूल-हस्तः भविष्यति ॥ ७।६१।१५ ॥
yāvat kara-sthaḥ śūlaḥ ayam bhaviṣyati sutasya te . avadhyaḥ sarva-bhūtānām śūla-hastaḥ bhaviṣyati .. 7.61.15 ..
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ ७.६१.१६ ॥
एवम् मधुः वरम् लब्ध्वा देवात् सु महत् अद्भुतम् । भवनम् सः असुर-श्रेष्ठः कारयामास सु प्रभम् ॥ ७।६१।१६ ॥
evam madhuḥ varam labdhvā devāt su mahat adbhutam . bhavanam saḥ asura-śreṣṭhaḥ kārayāmāsa su prabham .. 7.61.16 ..
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ ७.६१.१७ ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसी इति या । विश्वावसोः अपत्यम् सा हि अनलायाम् महा-प्रभा ॥ ७।६१।१७ ॥
tasya patnī mahābhāgā priyā kumbhīnasī iti yā . viśvāvasoḥ apatyam sā hi analāyām mahā-prabhā .. 7.61.17 ..
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ ७.६१.१८ ॥
तस्याः पुत्रः महा-वीर्यः लवणः नाम दारुणः । बाल्यात् प्रभृति दुष्ट-आत्मा पापानि एव समाचरत् ॥ ७।६१।१८ ॥
tasyāḥ putraḥ mahā-vīryaḥ lavaṇaḥ nāma dāruṇaḥ . bālyāt prabhṛti duṣṭa-ātmā pāpāni eva samācarat .. 7.61.18 ..
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ ७.६१.१९ ॥
तम् पुत्रम् दुर्विनीतम् तु दृष्ट्वा क्रोध-समन्वितः । मधुः स शोकम् आपेदे न च एनम् किञ्चिद् अब्रवीत् ॥ ७।६१।१९ ॥
tam putram durvinītam tu dṛṣṭvā krodha-samanvitaḥ . madhuḥ sa śokam āpede na ca enam kiñcid abravīt .. 7.61.19 ..
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ ७.६१.२० ॥
स विहाय तु इमम् लोकम् प्रविष्टः वरुणालयम् । शूलम् निवेश्य लवणे वरम् तस्मै न्यवेदयत् ॥ ७।६१।२० ॥
sa vihāya tu imam lokam praviṣṭaḥ varuṇālayam . śūlam niveśya lavaṇe varam tasmai nyavedayat .. 7.61.20 ..
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ ७.६१.२१ ॥
स प्रभावेण शूलस्य दौरात्म्येन आत्मनः तथा । सन्तापयति लोकान् त्रीन् विशेषेण च तापसान् ॥ ७।६१।२१ ॥
sa prabhāveṇa śūlasya daurātmyena ātmanaḥ tathā . santāpayati lokān trīn viśeṣeṇa ca tāpasān .. 7.61.21 ..
एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ ७.६१.२२ ॥
एवंप्रभावः लवणः शूलम् च एव तथाविधम् । श्रुत्वा प्रमाणम् काकुत्स्थ त्वम् हि नः परमा गतिः ॥ ७।६१।२२ ॥
evaṃprabhāvaḥ lavaṇaḥ śūlam ca eva tathāvidham . śrutvā pramāṇam kākutstha tvam hi naḥ paramā gatiḥ .. 7.61.22 ..
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ॥ ७.६१.२३ ॥
बहवः पार्थिवाः राम भय-आर्तैः ऋषिभिः पुरा । अभयम् याचिताः वीर त्रातारम् न च विद्महे ॥ ७।६१।२३ ॥
bahavaḥ pārthivāḥ rāma bhaya-ārtaiḥ ṛṣibhiḥ purā . abhayam yācitāḥ vīra trātāram na ca vidmahe .. 7.61.23 ..
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ ७.६१.२४ ॥
ते वयम् रावणम् श्रुत्वा हतम् स बल-वाहनम् । त्रातारम् विद्महे तात न अन्यम् भुवि नराधिपम् । तत् परित्रातुम् इच्छामः लवणात् भय-पीडितान् ॥ ७।६१।२४ ॥
te vayam rāvaṇam śrutvā hatam sa bala-vāhanam . trātāram vidmahe tāta na anyam bhuvi narādhipam . tat paritrātum icchāmaḥ lavaṇāt bhaya-pīḍitān .. 7.61.24 ..
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ ७.६१.२५ ॥
इति राम निवेदितम् तु ते भय-जम् कारणम् उत्थितम् च यत् । विनिवारयितुम् भवान् क्षमः कुरु तम् कामम् अहीन-विक्रम ॥ ७।६१।२५ ॥
iti rāma niveditam tu te bhaya-jam kāraṇam utthitam ca yat . vinivārayitum bhavān kṣamaḥ kuru tam kāmam ahīna-vikrama .. 7.61.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekaṣaṣṭitamaḥ sargaḥ .. 61 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In