This overlay will guide you through the buttons:

| |
|
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् । शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥ ७.६३.१ ॥
एवम् उक्तः तु रामेण पराम् व्रीडाम् उपागमत् । शत्रुघ्नः वीर्य-सम्पन्नः मन्दम् मन्दम् उवाच ह ॥ ७।६३।१ ॥
evam uktaḥ tu rāmeṇa parām vrīḍām upāgamat . śatrughnaḥ vīrya-sampannaḥ mandam mandam uvāca ha .. 7.63.1 ..
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ ७.६३.२ ॥
अधर्मम् विद्म काकुत्स्थ हि अस्मिन् अर्थे नरेश्वर । कथम् तिष्ठत्सु ज्येष्ठेषु कनीयान् अभिषिच्यते ॥ ७।६३।२ ॥
adharmam vidma kākutstha hi asmin arthe nareśvara . katham tiṣṭhatsu jyeṣṭheṣu kanīyān abhiṣicyate .. 7.63.2 ..
अवश्यं करणीयं च शासनं पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ७.६३.३ ॥
अवश्यम् करणीयम् च शासनम् पुरुष-ऋषभ । तव च एव महाभाग शासनम् दुरतिक्रमम् ॥ ७।६३।३ ॥
avaśyam karaṇīyam ca śāsanam puruṣa-ṛṣabha . tava ca eva mahābhāga śāsanam duratikramam .. 7.63.3 ..
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ७.६३.४ ॥
त्वत्तः मया श्रुतम् वीर श्रुतिभ्यः च मया श्रुतम् । न उत्तरम् हि मया वाच्यम् मध्यमे प्रतिजानति ॥ ७।६३।४ ॥
tvattaḥ mayā śrutam vīra śrutibhyaḥ ca mayā śrutam . na uttaram hi mayā vācyam madhyame pratijānati .. 7.63.4 ..
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे । तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ७.६३.५ ॥
व्याहृतम् दुर्वचः घोरम् हन्तास्मि लवणम् मृधे । तस्य एवम् मे दुरुक्तस्य दुर्गतिः पुरुष-ऋषभ ॥ ७।६३।५ ॥
vyāhṛtam durvacaḥ ghoram hantāsmi lavaṇam mṛdhe . tasya evam me duruktasya durgatiḥ puruṣa-ṛṣabha .. 7.63.5 ..
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् ॥ ७.६३.६ ॥
उत्तरम् नहि वक्तव्यम् ज्येष्ठेन अभिहिते पुनर् । अधर्म-सहितम् च एव पर-लोक-विवर्जितम् ॥ ७।६३।६ ॥
uttaram nahi vaktavyam jyeṣṭhena abhihite punar . adharma-sahitam ca eva para-loka-vivarjitam .. 7.63.6 ..
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७.६३.७ ॥
सः अहम् द्वितीयम् काकुत्स्थ न वक्ष्यामि तव उत्तरम् । मा द्वितीयेन दण्डः वै निपतेत् मयि मानद ॥ ७।६३।७ ॥
saḥ aham dvitīyam kākutstha na vakṣyāmi tava uttaram . mā dvitīyena daṇḍaḥ vai nipatet mayi mānada .. 7.63.7 ..
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ । अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ७.६३.८ ॥
कामकारः हि अहम् राजन् तव अस्मि पुरुष-ऋषभ । अधर्मम् जहि काकुत्स्थ मद्-कृते रघुनन्दन ॥ ७।६३।८ ॥
kāmakāraḥ hi aham rājan tava asmi puruṣa-ṛṣabha . adharmam jahi kākutstha mad-kṛte raghunandana .. 7.63.8 ..
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ७.६३.९ ॥
एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टः भरतम् लक्ष्मणम् तथा ॥ ७।६३।९ ॥
evam ukte tu śūreṇa śatrughnena mahātmanā . uvāca rāmaḥ saṃhṛṣṭaḥ bharatam lakṣmaṇam tathā .. 7.63.9 ..
सम्भारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ ७.६३.१० ॥
सम्भारान् अभिषेकस्य आनयध्वम् समाहिताः । अद्या एव पुरुष-व्याघ्रम् अभिषेक्ष्यामि राघवम् ॥ ७।६३।१० ॥
sambhārān abhiṣekasya ānayadhvam samāhitāḥ . adyā eva puruṣa-vyāghram abhiṣekṣyāmi rāghavam .. 7.63.10 ..
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा । मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ७.६३.११ ॥
पुरोहितम् च काकुत्स्थम् नैगमान् ऋत्विजः तथा । मन्त्रिणः च एव तान् सर्वान् आनयध्वम् मम आज्ञया ॥ ७।६३।११ ॥
purohitam ca kākutstham naigamān ṛtvijaḥ tathā . mantriṇaḥ ca eva tān sarvān ānayadhvam mama ājñayā .. 7.63.11 ..
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः । अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् । प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ ७.६३.१२ ॥
राज्ञः शासनम् आज्ञाय तथा अकुर्वन् महा-रथाः । अभिषेक-समारम्भम् पुरस्कृत्य पुरोधसम् । प्रविष्टाः राज-भवनम् राजानः ब्राह्मणाः तथा ॥ ७।६३।१२ ॥
rājñaḥ śāsanam ājñāya tathā akurvan mahā-rathāḥ . abhiṣeka-samārambham puraskṛtya purodhasam . praviṣṭāḥ rāja-bhavanam rājānaḥ brāhmaṇāḥ tathā .. 7.63.12 ..
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ ७.६३.१३ ॥
तथा उ अभिषेकः ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्ष-करः श्रीमान् राघवस्य पुरस्य च ॥ ७।६३।१३ ॥
tathā u abhiṣekaḥ vavṛdhe śatrughnasya mahātmanaḥ . sampraharṣa-karaḥ śrīmān rāghavasya purasya ca .. 7.63.13 ..
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः । अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥ ७.६३.१४ ॥
अभिषिक्तः तु शत्रुघ्नः बभौ च आदित्य-सन्निभः । अभिषिक्तः पुरा स्कन्दः स इन्द्रैः इव मरुत्-गणैः ॥ ७।६३।१४ ॥
abhiṣiktaḥ tu śatrughnaḥ babhau ca āditya-sannibhaḥ . abhiṣiktaḥ purā skandaḥ sa indraiḥ iva marut-gaṇaiḥ .. 7.63.14 ..
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा । पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥ ७.६३.१५ ॥
अभिषिक्ते तु शत्रुघ्ने रामेण अक्लिष्ट-कर्मणा । पौराः प्रमुदिताः च आसन् ब्राह्मणाः च बहु-श्रुताः ॥ ७।६३।१५ ॥
abhiṣikte tu śatrughne rāmeṇa akliṣṭa-karmaṇā . paurāḥ pramuditāḥ ca āsan brāhmaṇāḥ ca bahu-śrutāḥ .. 7.63.15 ..
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा । चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ ७.६३.१६ ॥
कौसल्या च सुमित्रा च मङ्गलम् केकयी तथा । चक्रुः ताः राज-भवने याः च अन्याः राज-योषितः ॥ ७।६३।१६ ॥
kausalyā ca sumitrā ca maṅgalam kekayī tathā . cakruḥ tāḥ rāja-bhavane yāḥ ca anyāḥ rāja-yoṣitaḥ .. 7.63.16 ..
ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ ७.६३.१७ ॥
ऋषयः च महात्मानः यमुना-तीर-वासिनः । हतम् लवणम् आशंसुः शत्रुघ्नस्य अभिषेचनात् ॥ ७।६३।१७ ॥
ṛṣayaḥ ca mahātmānaḥ yamunā-tīra-vāsinaḥ . hatam lavaṇam āśaṃsuḥ śatrughnasya abhiṣecanāt .. 7.63.17 ..
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ ७.६३.१८ ॥
ततस् अभिषिक्तम् शत्रुघ्नम् अङ्कम् आरोप्य राघवः । उवाच मधुराम् वाणीम् तेजः तस्य अभिपूरयन् ॥ ७।६३।१८ ॥
tatas abhiṣiktam śatrughnam aṅkam āropya rāghavaḥ . uvāca madhurām vāṇīm tejaḥ tasya abhipūrayan .. 7.63.18 ..
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ॥ ७.६३.१९ ॥
अयम् शरः तु अमोघः ते दिव्यः परपुरञ्जयः । अनेन लवणम् सौम्य हन्ता असि रघुनन्दन ॥ ७।६३।१९ ॥
ayam śaraḥ tu amoghaḥ te divyaḥ parapurañjayaḥ . anena lavaṇam saumya hantā asi raghunandana .. 7.63.19 ..
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ॥ ७.६३.२० ॥
सृष्टः शरः अयम् काकुत्स्थ यदा शेते महा-अर्णवे ॥ ७।६३।२० ॥
sṛṣṭaḥ śaraḥ ayam kākutstha yadā śete mahā-arṇave .. 7.63.20 ..
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ ७.६३.२१ ॥
स्वयम्भूः अजितः देवः यत् न अपश्यन् सुर-असुराः । अदृश्यः सर्व-भूतानाम् तेन अयम् तु शर-उत्तमः ॥ ७।६३।२१ ॥
svayambhūḥ ajitaḥ devaḥ yat na apaśyan sura-asurāḥ . adṛśyaḥ sarva-bhūtānām tena ayam tu śara-uttamaḥ .. 7.63.21 ..
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥ ७.६३.२२ ॥
सृष्टः क्रोध-अभिभूतेन विनाश-अर्थम् दुरात्मनोः । मधु-कैटभयोः वीर विघाते वर्तमानयोः । स्रष्टु-कामेन लोकान् त्रीन् तौ च अनेन हतौ युधि ॥ ७।६३।२२ ॥
sṛṣṭaḥ krodha-abhibhūtena vināśa-artham durātmanoḥ . madhu-kaiṭabhayoḥ vīra vighāte vartamānayoḥ . sraṣṭu-kāmena lokān trīn tau ca anena hatau yudhi .. 7.63.22 ..
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ ७.६३.२३ ॥
तौ हत्वा जन-भोग-अर्थम् कैटभम् तु मधुम् तथा । अनेन शर-मुख्येन ततस् लोकान् चकार सः ॥ ७।६३।२३ ॥
tau hatvā jana-bhoga-artham kaiṭabham tu madhum tathā . anena śara-mukhyena tatas lokān cakāra saḥ .. 7.63.23 ..
नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ ७.६३.२४ ॥
न अयम् मया शरः पूर्वम् रावणस्य वध-अर्थिना । मुक्तः शत्रुघ्न भूतानाम् महान् त्रासः भवेत् इति ॥ ७।६३।२४ ॥
na ayam mayā śaraḥ pūrvam rāvaṇasya vadha-arthinā . muktaḥ śatrughna bhūtānām mahān trāsaḥ bhavet iti .. 7.63.24 ..
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ ७.६३.२५ ॥
यत् च तस्य महत् शूलम् त्र्यम्बकेण महात्मना । दत्तम् शत्रु-विनाशाय मधोः आयुधम् उत्तमम् ॥ ७।६३।२५ ॥
yat ca tasya mahat śūlam tryambakeṇa mahātmanā . dattam śatru-vināśāya madhoḥ āyudham uttamam .. 7.63.25 ..
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ ७.६३.२६ ॥
स तम् निक्षिप्य भवने पूज्यमान पुनर् पुनर् । दिशः सर्वाः समासाद्य प्राप्नोति आहारम् उत्तमम् ॥ ७।६३।२६ ॥
sa tam nikṣipya bhavane pūjyamāna punar punar . diśaḥ sarvāḥ samāsādya prāpnoti āhāram uttamam .. 7.63.26 ..
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥ ७.६३.२७ ॥
यदा तु युद्धम् आकाङ्क्षन् कश्चिद् एनम् समाह्वयेत् । तदा शूलम् गहीत्वा तम् भस्म रक्षः करोति हि ॥ ७।६३।२७ ॥
yadā tu yuddham ākāṅkṣan kaścid enam samāhvayet . tadā śūlam gahītvā tam bhasma rakṣaḥ karoti hi .. 7.63.27 ..
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ ७.६३.२८ ॥
स त्वम् पुरुष-शार्दूल तम् आयुध-विनाकृतम् । अप्रविष्टम् पुरम् पूर्वम् द्वारि तिष्ठ धृत-आयुधः ॥ ७।६३।२८ ॥
sa tvam puruṣa-śārdūla tam āyudha-vinākṛtam . apraviṣṭam puram pūrvam dvāri tiṣṭha dhṛta-āyudhaḥ .. 7.63.28 ..
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ ७.६३.२९ ॥
अप्रविष्टम् च भवनम् युद्धाय पुरुष-ऋषभ । आह्वयेथाः महा-बाहो ततस् हन्तासि राक्षसम् ॥ ७।६३।२९ ॥
apraviṣṭam ca bhavanam yuddhāya puruṣa-ṛṣabha . āhvayethāḥ mahā-bāho tatas hantāsi rākṣasam .. 7.63.29 ..
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥ ७.६३.३० ॥
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि तु एवम् कृते वीर विनाशम् उपयास्यति ॥ ७।६३।३० ॥
anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati . yadi tu evam kṛte vīra vināśam upayāsyati .. 7.63.30 ..
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ७.६३.३१ ॥
एतत् ते सर्वम् आख्यातम् शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यम् हि दुरतिक्रमम् ॥ ७।६३।३१ ॥
etat te sarvam ākhyātam śūlasya ca viparyayaḥ . śrīmataḥ śitikaṇṭhasya kṛtyam hi duratikramam .. 7.63.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe triṣaṣṭitamaḥ sargaḥ .. 63 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In