This overlay will guide you through the buttons:

| |
|
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ ७.६४.१ ॥
एवम् उक्त्वा च काकुत्स्थम् प्रशस्य च पुनर् पुनर् । पुनर् एव अपरम् वाक्यम् उवाच रघुनन्दनः ॥ ७।६४।१ ॥
evam uktvā ca kākutstham praśasya ca punar punar . punar eva aparam vākyam uvāca raghunandanaḥ .. 7.64.1 ..
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ ७.६४.२ ॥
इमानि अश्व-सहस्राणि चत्वारि पुरुष-ऋषभ । रथानाम् द्वे सहस्रे च गजानाम् शतम् उत्तमम् ॥ ७।६४।२ ॥
imāni aśva-sahasrāṇi catvāri puruṣa-ṛṣabha . rathānām dve sahasre ca gajānām śatam uttamam .. 7.64.2 ..
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ७.६४.३ ॥
अन्तरा पण-वीथ्यः च नाना पण्य-उपशोभिताः । अनुगच्छन्तु काकुत्स्थम् तथा एव नट-नर्तकाः ॥ ७।६४।३ ॥
antarā paṇa-vīthyaḥ ca nānā paṇya-upaśobhitāḥ . anugacchantu kākutstham tathā eva naṭa-nartakāḥ .. 7.64.3 ..
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ७.६४.४ ॥
हिरण्यस्य सुवर्णस्य नियुतम् पुरुष-ऋषभ । आदाय गच्छ शत्रुघ्न पर्याप्त-धन-वाहनः ॥ ७।६४।४ ॥
hiraṇyasya suvarṇasya niyutam puruṣa-ṛṣabha . ādāya gaccha śatrughna paryāpta-dhana-vāhanaḥ .. 7.64.4 ..
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ॥ ७.६४.५ ॥
बलम् च सुभृतम् वीर हृष्ट-पुष्टम् अनुद्धतम् । सम्भाषा-सम्प्रदानेन रञ्जयस्व नग-इत्तम ॥ ७।६४।५ ॥
balam ca subhṛtam vīra hṛṣṭa-puṣṭam anuddhatam . sambhāṣā-sampradānena rañjayasva naga-ittama .. 7.64.5 ..
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ॥ ७.६४.६ ॥
न हि अर्थाः तत्र तिष्ठन्ति न दाराः न च बान्धवाः । सु प्रीतः भृत्य-वर्गः च यत्र तिष्ठसि राघव ॥ ७।६४।६ ॥
na hi arthāḥ tatra tiṣṭhanti na dārāḥ na ca bāndhavāḥ . su prītaḥ bhṛtya-vargaḥ ca yatra tiṣṭhasi rāghava .. 7.64.6 ..
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७.६४.७ ॥
ततस् हृष्ट-जन-आकीर्णाम् प्रस्थाप्य महतीम् चमूम् । एकः एव धनुष्पाणिः गच्छ त्वम् मधुनः वनम् ॥ ७।६४।७ ॥
tatas hṛṣṭa-jana-ākīrṇām prasthāpya mahatīm camūm . ekaḥ eva dhanuṣpāṇiḥ gaccha tvam madhunaḥ vanam .. 7.64.7 ..
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥ ७.६४.८ ॥
यथा त्वाम् न प्रजानाति गच्छन्तम् युद्ध-काङ्क्षिणम् । लवणः तु मधोः पुत्रः तथा गच्छेः अशङ्कितम् ॥ ७।६४।८ ॥
yathā tvām na prajānāti gacchantam yuddha-kāṅkṣiṇam . lavaṇaḥ tu madhoḥ putraḥ tathā gaccheḥ aśaṅkitam .. 7.64.8 ..
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ॥ ७.६४.९ ॥
न तस्य मूत्युः अन्यः अस्ति कश्चिद् हि पुरुष-ऋषभ । दर्शनम् यः अभिगच्छेत स वध्यः लवणेन हि ॥ ७।६४।९ ॥
na tasya mūtyuḥ anyaḥ asti kaścid hi puruṣa-ṛṣabha . darśanam yaḥ abhigaccheta sa vadhyaḥ lavaṇena hi .. 7.64.9 ..
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ॥ ७.६४.१० ॥
स हि ग्रीष्मः अपयाते तु वर्षारात्रे उपागते । हन्याः त्वम् लवणम् सौम्य सहि कालः अस्य दुर्मतेः ॥ ७।६४।१० ॥
sa hi grīṣmaḥ apayāte tu varṣārātre upāgate . hanyāḥ tvam lavaṇam saumya sahi kālaḥ asya durmateḥ .. 7.64.10 ..
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ७.६४.११ ॥
महा-ऋषीन् तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्म-अवशेषेण तरेयुः जाह्नवी-जलम् ॥ ७।६४।११ ॥
mahā-ṛṣīn tu puratkṛtya prayāntu tava saunikāḥ . yathā grīṣma-avaśeṣeṇa tareyuḥ jāhnavī-jalam .. 7.64.11 ..
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥ ७.६४.१२ ॥
तत्र स्थाप्य बलम् सर्वम् नदी-तीरे समाहितः । अग्रतस् धनुषा सार्धम् गच्छ त्वम् लघु-विक्रमः ॥ ७।६४।१२ ॥
tatra sthāpya balam sarvam nadī-tīre samāhitaḥ . agratas dhanuṣā sārdham gaccha tvam laghu-vikramaḥ .. 7.64.12 ..
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥ ७.६४.१३ ॥
एवम् उक्तः तु रामेण शत्रुघ्नः तान् महा-बलान् । सेना-मुख्यान् समानीय ततस् वाक्यम् उवाच ह ॥ ७।६४।१३ ॥
evam uktaḥ tu rāmeṇa śatrughnaḥ tān mahā-balān . senā-mukhyān samānīya tatas vākyam uvāca ha .. 7.64.13 ..
एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ ७.६४.१४ ॥
एते वः गणिताः वासाः यत्र तत्र निवत्स्यथ । स्थातव्यम् च अविरोधेन यथा बाधा न कस्यचिद् ॥ ७।६४।१४ ॥
ete vaḥ gaṇitāḥ vāsāḥ yatra tatra nivatsyatha . sthātavyam ca avirodhena yathā bādhā na kasyacid .. 7.64.14 ..
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ ७.६४.१५ ॥
तथा तान् तु समाज्ञाप्य प्रस्थाप्य च महत् बलम् । कौसल्याम् च सुमित्राम् च कैकेयीम् च अभ्यवादयत् ॥ ७।६४।१५ ॥
tathā tān tu samājñāpya prasthāpya ca mahat balam . kausalyām ca sumitrām ca kaikeyīm ca abhyavādayat .. 7.64.15 ..
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ ७.६४.१६ ॥
रामम् प्रदक्षिणीकृत्य शिरसा अभिप्रणम्य च । रामेण च अभ्यनुज्ञातः शत्रुघ्नः शत्रु-तापनः ॥ ७।६४।१६ ॥
rāmam pradakṣiṇīkṛtya śirasā abhipraṇamya ca . rāmeṇa ca abhyanujñātaḥ śatrughnaḥ śatru-tāpanaḥ .. 7.64.16 ..
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ ७.६४.१७ ॥
लक्ष्मणम् भरतम् च एव प्रणिपत्य कृताञ्जलिः । पुरोहितम् वसिष्ठम् च शत्रुघ्नः प्रयत-आत्मवान् । प्रदक्षिणम् अथो कृत्वा निर्जगाम महा-बलः ॥ ७।६४।१७ ॥
lakṣmaṇam bharatam ca eva praṇipatya kṛtāñjaliḥ . purohitam vasiṣṭham ca śatrughnaḥ prayata-ātmavān . pradakṣiṇam atho kṛtvā nirjagāma mahā-balaḥ .. 7.64.17 ..
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ ७.६४.१८ ॥
प्रस्थाप्य सेनाम् अथ सः अग्रतस् तदा गज-इन्द्र-वाजि-प्रवर-ओघ-सङ्कुलाम् । उपास मासम् तु नरेन्द्र-पार्श्वतस् तु अथ प्रयातः रघु-वंश-वर्धनः ॥ ७।६४।१८ ॥
prasthāpya senām atha saḥ agratas tadā gaja-indra-vāji-pravara-ogha-saṅkulām . upāsa māsam tu narendra-pārśvatas tu atha prayātaḥ raghu-vaṃśa-vardhanaḥ .. 7.64.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुष्षष्टितमः सर्गः ॥ ६४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catuṣṣaṣṭitamaḥ sargaḥ .. 64 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In