This overlay will guide you through the buttons:

| |
|
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ ७.६५.१ ॥
प्रस्थाप्य च बलम् सर्वम् मास-मात्र-उषितः पथि । एकः एव आशु शत्रुघ्नः जगाम त्वरितम् तदा ॥ ७।६५।१ ॥
prasthāpya ca balam sarvam māsa-mātra-uṣitaḥ pathi . ekaḥ eva āśu śatrughnaḥ jagāma tvaritam tadā .. 7.65.1 ..
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ ७.६५.२ ॥
द्वि-रात्रम् अन्तरे शूरः उष्य राघव-नन्दनः । वाल्मीकेः आश्रमम् पुण्यम् अगच्छत् वासम् उत्तमम् ॥ ७।६५।२ ॥
dvi-rātram antare śūraḥ uṣya rāghava-nandanaḥ . vālmīkeḥ āśramam puṇyam agacchat vāsam uttamam .. 7.65.2 ..
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ७.६५.३ ॥
सः अभिवाद्य महात्मानम् वाल्मीकिम् मुनि-सत्तमम् । कृताञ्जलिः अथो भूत्वा वाक्यम् एतत् उवाच ह ॥ ७।६५।३ ॥
saḥ abhivādya mahātmānam vālmīkim muni-sattamam . kṛtāñjaliḥ atho bhūtvā vākyam etat uvāca ha .. 7.65.3 ..
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ७.६५.४ ॥
भगवन् वस्तुम् इच्छामि गुरोः कृत्यात् इह आगतः । श्वस् प्रभाते गमिष्यामि प्रतीचीम् वारुणीम् दिशम् ॥ ७।६५।४ ॥
bhagavan vastum icchāmi guroḥ kṛtyāt iha āgataḥ . śvas prabhāte gamiṣyāmi pratīcīm vāruṇīm diśam .. 7.65.4 ..
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ७.६५.५ ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनि-पुङ्गवः । प्रत्युवाच महात्मानम् स्वागतम् ते महा-यशः ॥ ७।६५।५ ॥
śatrughnasya vacaḥ śrutvā prahasya muni-puṅgavaḥ . pratyuvāca mahātmānam svāgatam te mahā-yaśaḥ .. 7.65.5 ..
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ७.६५.६ ॥
स्वम् आश्रमम् इदम् सौम्य राघवाणाम् कुलस्य हि । आसनम् पाद्यम् अर्ध्यम् च निर्विशङ्कः प्रतीच्छ मे ॥ ७।६५।६ ॥
svam āśramam idam saumya rāghavāṇām kulasya hi . āsanam pādyam ardhyam ca nirviśaṅkaḥ pratīccha me .. 7.65.6 ..
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७.६५.७ ॥
प्रतिगृह्य तदा पूजाम् फल-मूलम् च भोजनम् । भक्षयामास काकुत्स्थः तृप्तिम् च परमाम् गतः ॥ ७।६५।७ ॥
pratigṛhya tadā pūjām phala-mūlam ca bhojanam . bhakṣayāmāsa kākutsthaḥ tṛptim ca paramām gataḥ .. 7.65.7 ..
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ७.६५.८ ॥
स भुक्त्वा फल-मूलम् च महा-ऋषिम् तम् उवाच ह । इयम् यज्ञ-विभूतिः ते कस्य आश्रम-समीपतः ॥ ७।६५।८ ॥
sa bhuktvā phala-mūlam ca mahā-ṛṣim tam uvāca ha . iyam yajña-vibhūtiḥ te kasya āśrama-samīpataḥ .. 7.65.8 ..
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ७.६५.९ ॥
तत् तस्य भाषितम् श्रुत्वा वाल्मीकिः वाक्यम् अब्रवीत् । शत्रुघ्न शृणु यस्य इदम् बभूव आयतनम् पुरा ॥ ७।६५।९ ॥
tat tasya bhāṣitam śrutvā vālmīkiḥ vākyam abravīt . śatrughna śṛṇu yasya idam babhūva āyatanam purā .. 7.65.9 ..
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ ७.६५.१० ॥
युष्माकम् पूर्वकः राजा सौदासः तस्य भूपतेः । पुत्रः वीरसहः नाम वीर्यवान् अति धार्मिकः ॥ ७।६५।१० ॥
yuṣmākam pūrvakaḥ rājā saudāsaḥ tasya bhūpateḥ . putraḥ vīrasahaḥ nāma vīryavān ati dhārmikaḥ .. 7.65.10 ..
स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ७.६५.११ ॥
स बालः एव सौदासः मृगयाम् उपचक्रमे । चञ्चूर्यमाणम् ददृशे स शूरः राक्षस-द्वयम् ॥ ७।६५।११ ॥
sa bālaḥ eva saudāsaḥ mṛgayām upacakrame . cañcūryamāṇam dadṛśe sa śūraḥ rākṣasa-dvayam .. 7.65.11 ..
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ ७.६५.१२ ॥
शार्दूल-रूपिणौ घोरौ मृगान् बहु-सहस्रशस् । भक्षमाणौ असन्तुष्टौ पर्याप्तिम् ना एव जग्मतुः ॥ ७।६५।१२ ॥
śārdūla-rūpiṇau ghorau mṛgān bahu-sahasraśas . bhakṣamāṇau asantuṣṭau paryāptim nā eva jagmatuḥ .. 7.65.12 ..
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ॥ ७.६५.१३ ॥
स तु तौ राक्षसौ दृष्ट्वा निर्मृगम् च वनम् कृतम् । क्रोधेन महता जघान एकम् महा-इषुणा ॥ ७।६५।१३ ॥
sa tu tau rākṣasau dṛṣṭvā nirmṛgam ca vanam kṛtam . krodhena mahatā jaghāna ekam mahā-iṣuṇā .. 7.65.13 ..
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ॥ ७.६५.१४ ॥
विनिपात्य तम् एकम् तु सौदासः पुरुष-ऋषभः । विज्वरः विगत-अमार्षः हतम् रक्षः हि उदैक्षत ॥ ७।६५।१४ ॥
vinipātya tam ekam tu saudāsaḥ puruṣa-ṛṣabhaḥ . vijvaraḥ vigata-amārṣaḥ hatam rakṣaḥ hi udaikṣata .. 7.65.14 ..
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ ७.६५.१५ ॥
निरीक्षमाणम् तम् दृष्ट्वा सहायम् तस्य रक्षसः । सन्तापम् अकरोत् घोरम् सौदासम् च इदम् अब्रवीत् ॥ ७।६५।१५ ॥
nirīkṣamāṇam tam dṛṣṭvā sahāyam tasya rakṣasaḥ . santāpam akarot ghoram saudāsam ca idam abravīt .. 7.65.15 ..
यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ ७.६५.१६ ॥
यस्मात् अनपराधम् त्वम् सहायम् मम जघ्निवान् । तस्मात् तव अपि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ ७।६५।१६ ॥
yasmāt anaparādham tvam sahāyam mama jaghnivān . tasmāt tava api pāpiṣṭha pradāsyāmi pratikriyām .. 7.65.16 ..
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ॥ ७.६५.१७ ॥
एवम् उक्त्वा तु तत् राक्षः तत्र एव अन्तरधीयत । काल-पर्याय-योगेन राजा मित्रसहः अभवत् ॥ ७।६५।१७ ॥
evam uktvā tu tat rākṣaḥ tatra eva antaradhīyata . kāla-paryāya-yogena rājā mitrasahaḥ abhavat .. 7.65.17 ..
राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ॥ ७.६५.१८ ॥
राजा अपि यजते यज्ञम् अस्य आश्रम-समीपतः । अश्वमेधम् महा-यज्ञम् तम् वसिष्ठः अभ्यपालयत् ॥ ७।६५।१८ ॥
rājā api yajate yajñam asya āśrama-samīpataḥ . aśvamedham mahā-yajñam tam vasiṣṭhaḥ abhyapālayat .. 7.65.18 ..
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ॥ ७.६५.१९ ॥
तत्र यज्ञः महान् आसीत् बहु-वर्ष-गण-अयुतः । समृद्धः परया लक्ष्म्या देव-यज्ञ-समः अभवत् ॥ ७।६५।१९ ॥
tatra yajñaḥ mahān āsīt bahu-varṣa-gaṇa-ayutaḥ . samṛddhaḥ parayā lakṣmyā deva-yajña-samaḥ abhavat .. 7.65.19 ..
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ ७.६५.२० ॥
अथ अवसाने यज्ञस्य पूर्व-वैरम् अनुस्मरन् । वसिष्ठ-रूपी राजानम् इति ह उवाच राक्षसः ॥ ७।६५।२० ॥
atha avasāne yajñasya pūrva-vairam anusmaran . vasiṣṭha-rūpī rājānam iti ha uvāca rākṣasaḥ .. 7.65.20 ..
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ ७.६५.२१ ॥
अस्य यज्ञस्य जातः अन्तः स आमिषम् भोजनम् मम । दीयताम् इह शीघ्रम् वै न अत्र कार्या विचारणा ॥ ७।६५।२१ ॥
asya yajñasya jātaḥ antaḥ sa āmiṣam bhojanam mama . dīyatām iha śīghram vai na atra kāryā vicāraṇā .. 7.65.21 ..
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ ७.६५.२२ ॥
तत् श्रुत्वा व्याहृतम् वाक्यम् रक्षसा ब्रह्म-रूपिणा । भक्ष्य-संस्कार-कुशलम् उवाच पृथिवीपतिः ॥ ७।६५।२२ ॥
tat śrutvā vyāhṛtam vākyam rakṣasā brahma-rūpiṇā . bhakṣya-saṃskāra-kuśalam uvāca pṛthivīpatiḥ .. 7.65.22 ..
हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ ७.६५.२३ ॥
हविष्यम् स आमिषम् स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रम् वै परितुष्येत् यथा गुरुः ॥ ७।६५।२३ ॥
haviṣyam sa āmiṣam svādu yathā bhavati bhojanam . tathā kuruṣva śīghram vai parituṣyet yathā guruḥ .. 7.65.23 ..
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥ ७.६५.२४ ॥
शासनात् पार्थिव-इन्द्रस्य सूदः सम्भ्रान्त-मानसः । स राक्षसः पुनर् तत्र सूद-वेषम् अथ अकरोत् ॥ ७।६५।२४ ॥
śāsanāt pārthiva-indrasya sūdaḥ sambhrānta-mānasaḥ . sa rākṣasaḥ punar tatra sūda-veṣam atha akarot .. 7.65.24 ..
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ ७.६५.२५ ॥
स मानुषम् अथो मांसम् पार्थिवाय न्यवेदयत् । इदम् स्वादु हविष्यम् च स आमिषम् च अन्नम् आहृतम् ॥ ७।६५।२५ ॥
sa mānuṣam atho māṃsam pārthivāya nyavedayat . idam svādu haviṣyam ca sa āmiṣam ca annam āhṛtam .. 7.65.25 ..
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ ७.६५.२६ ॥
स भोजनम् वसिष्ठाय पत्न्या सार्धम् उपाहरत् । मदयन्त्या नर-व्याघ्र स आमिषम् रक्षसा हृतम् ॥ ७।६५।२६ ॥
sa bhojanam vasiṣṭhāya patnyā sārdham upāharat . madayantyā nara-vyāghra sa āmiṣam rakṣasā hṛtam .. 7.65.26 ..
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ॥ ७.६५.२७ ॥
ज्ञात्वा तत् आमिषम् विप्रः मानुषम् भाजनम् गतम् । क्रोधेन महता व्याहर्तुम् उपचक्रमे ॥ ७।६५।२७ ॥
jñātvā tat āmiṣam vipraḥ mānuṣam bhājanam gatam . krodhena mahatā vyāhartum upacakrame .. 7.65.27 ..
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ ७.६५.२८ ॥
यस्मात् त्वम् भोजनम् राजन् मम एतत् दातुम् इच्छसि । तस्मात् भोजनम् एतत् ते भविष्यति न संशयः ॥ ७।६५।२८ ॥
yasmāt tvam bhojanam rājan mama etat dātum icchasi . tasmāt bhojanam etat te bhaviṣyati na saṃśayaḥ .. 7.65.28 ..
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ ७.६५.२९ ॥
ततस् क्रुद्धः तु सौदासः तोयम् जग्राह पाणिना । वसिष्ठम् शप्तुम् आरेभे भार्या च एनम् अवारयत् ॥ ७।६५।२९ ॥
tatas kruddhaḥ tu saudāsaḥ toyam jagrāha pāṇinā . vasiṣṭham śaptum ārebhe bhāryā ca enam avārayat .. 7.65.29 ..
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ७.६५.३० ॥
राजन् प्रभुः यतस् अस्माकम् वसिष्ठः भगवान् ऋषिः । प्रतिशप्तुम् न शक्तः त्वम् देव-तुल्यम् पुरोधसम् ॥ ७।६५।३० ॥
rājan prabhuḥ yatas asmākam vasiṣṭhaḥ bhagavān ṛṣiḥ . pratiśaptum na śaktaḥ tvam deva-tulyam purodhasam .. 7.65.30 ..
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ७.६५.३१ ॥
ततस् क्रोध-मयम् तोयम् तेजः-बल-समन्वितम् । व्यसर्जयत धर्म-आत्मा ततस् पादौ सिषेच च ॥ ७।६५।३१ ॥
tatas krodha-mayam toyam tejaḥ-bala-samanvitam . vyasarjayata dharma-ātmā tatas pādau siṣeca ca .. 7.65.31 ..
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ७.६५.३२ ॥
तेन अस्य राज्ञः तौ पादौ तदा कल्माष-ताम् गतौ । तदा प्रभृति राजा असौ सौदासः सु महा-यशाः । कल्माषपादः संवृत्तः ख्यातः च एव तथा नृपः ॥ ७।६५।३२ ॥
tena asya rājñaḥ tau pādau tadā kalmāṣa-tām gatau . tadā prabhṛti rājā asau saudāsaḥ su mahā-yaśāḥ . kalmāṣapādaḥ saṃvṛttaḥ khyātaḥ ca eva tathā nṛpaḥ .. 7.65.32 ..
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ७.६५.३३ ॥
स राजा सह पत्न्या वै प्रणिपत्य मुहुर् मुहुर् । पुनर् वसिष्ठम् प्रोवाच यत् उक्तम् ब्रह्म-रूपिणा ॥ ७।६५।३३ ॥
sa rājā saha patnyā vai praṇipatya muhur muhur . punar vasiṣṭham provāca yat uktam brahma-rūpiṇā .. 7.65.33 ..
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ७.६५.३४ ॥
तत् श्रुत्वा पार्थिव-इन्द्रस्य रक्षसा विकृतम् च तत् । पुनर् प्रोवाच राजानम् वसिष्ठः पुरुष-ऋषभम् ॥ ७।६५।३४ ॥
tat śrutvā pārthiva-indrasya rakṣasā vikṛtam ca tat . punar provāca rājānam vasiṣṭhaḥ puruṣa-ṛṣabham .. 7.65.34 ..
मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ७.६५.३५ ॥
मया रोष-परीतेन यत् इदम् व्याहृतम् वचः । न एतत् शक्यम् वृथा कर्तुम् प्रदास्यामि च ते वरम् ॥ ७।६५।३५ ॥
mayā roṣa-parītena yat idam vyāhṛtam vacaḥ . na etat śakyam vṛthā kartum pradāsyāmi ca te varam .. 7.65.35 ..
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ ७.६५.३६ ॥
कालः द्वादश वर्षाणि शापस्य अन्तः भविष्यति । मद्-प्रासादात् च राज-इन्द्र व्यतीतम् न स्मरिष्यसि ॥ ७।६५।३६ ॥
kālaḥ dvādaśa varṣāṇi śāpasya antaḥ bhaviṣyati . mad-prāsādāt ca rāja-indra vyatītam na smariṣyasi .. 7.65.36 ..
एवं स राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ७.६५.३७ ॥
एवम् स राजा तम् शापम् उपभुज्य अरि-सूदनः । प्रतिलेभे पुनर् राज्यम् प्रजाः च एव अन्वपालयत् ॥ ७।६५।३७ ॥
evam sa rājā tam śāpam upabhujya ari-sūdanaḥ . pratilebhe punar rājyam prajāḥ ca eva anvapālayat .. 7.65.37 ..
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ॥ ७.६५.३८ ॥
तस्य कल्माषपादस्य यज्ञस्य आयतनम् शुभम् । आश्रमस्य समीपे अस्य यत् माम् पृच्छसि राघव ॥ ७।६५।३८ ॥
tasya kalmāṣapādasya yajñasya āyatanam śubham . āśramasya samīpe asya yat mām pṛcchasi rāghava .. 7.65.38 ..
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ७.६५.३९ ॥
तस्य ताम् पार्थिव-इन्द्रस्य कथाम् श्रुत्वा सु दारुणाम् । विवेश पर्ण-शालायाम् महा-ऋषिम् अभिवाद्य च ॥ ७।६५।३९ ॥
tasya tām pārthiva-indrasya kathām śrutvā su dāruṇām . viveśa parṇa-śālāyām mahā-ṛṣim abhivādya ca .. 7.65.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcaṣaṣṭitamaḥ sargaḥ .. 65 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In