This overlay will guide you through the buttons:

| |
|
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ ७.६६.१ ॥
याम् एव रात्रिम् शत्रुघ्नः पर्ण-शालाम् उपाविशत् । ताम् एव रात्रिम् सीता अपि प्रसूता दारक-द्वयम् ॥ ७।६६।१ ॥
yām eva rātrim śatrughnaḥ parṇa-śālām upāviśat . tām eva rātrim sītā api prasūtā dāraka-dvayam .. 7.66.1 ..
ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ ७.६६.२ ॥
ततस् अर्ध-रात्र-समये बालकाः मुनि-दारकाः । वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवम् शुभम् ॥ ७।६६।२ ॥
tatas ardha-rātra-samaye bālakāḥ muni-dārakāḥ . vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavam śubham .. 7.66.2 ..
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ७.६६.३ ॥
भगवन् राम-पत्नी सा प्रसूता दारक-द्वयम् । ततस् रक्षाम् महा-तेजः कुरु भूत-विनाशिनीम् ॥ ७।६६।३ ॥
bhagavan rāma-patnī sā prasūtā dāraka-dvayam . tatas rakṣām mahā-tejaḥ kuru bhūta-vināśinīm .. 7.66.3 ..
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ७.६६.४ ॥
तेषाम् तत् वचनम् श्रुत्वा महा-ऋषिः समुपागमत् । बाल-चन्द्र-प्रतीकाशौ देव-पुत्रौ महा-ओजसौ ॥ ७।६६।४ ॥
teṣām tat vacanam śrutvā mahā-ṛṣiḥ samupāgamat . bāla-candra-pratīkāśau deva-putrau mahā-ojasau .. 7.66.4 ..
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ७.६६.५ ॥
जगाम तत्र हृष्ट-आत्मा ददर्श च कुमारकौ । भूत-घ्नीम् च अकरोत् ताभ्याम् रक्षाम् रक्षः-विनाशिनीम् ॥ ७।६६।५ ॥
jagāma tatra hṛṣṭa-ātmā dadarśa ca kumārakau . bhūta-ghnīm ca akarot tābhyām rakṣām rakṣaḥ-vināśinīm .. 7.66.5 ..
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ७.६६.६ ॥
कुश-मुष्टिम् उपादाय लवम् च एव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्याम् रक्षाम् भूत-विनाशिनीम् ॥ ७।६६।६ ॥
kuśa-muṣṭim upādāya lavam ca eva tu sa dvijaḥ . vālmīkiḥ pradadau tābhyām rakṣām bhūta-vināśinīm .. 7.66.6 ..
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७.६६.७ ॥
यः तयोः पूर्वजः जातः स कुशैः मन्त्र-सत्कृतैः । निर्मार्जनीयः तु तदा कुशः इति अस्य नाम तत् ॥ ७।६६।७ ॥
yaḥ tayoḥ pūrvajaḥ jātaḥ sa kuśaiḥ mantra-satkṛtaiḥ . nirmārjanīyaḥ tu tadā kuśaḥ iti asya nāma tat .. 7.66.7 ..
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ७.६६.८ ॥
यः च अवरः भवेत् ताभ्याम् लवेन स समाहितः । निर्मार्जनीयः वृद्धाभिः लवः इति एव नामतः ॥ ७।६६।८ ॥
yaḥ ca avaraḥ bhavet tābhyām lavena sa samāhitaḥ . nirmārjanīyaḥ vṛddhābhiḥ lavaḥ iti eva nāmataḥ .. 7.66.8 ..
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ७.६६.९ ॥
एवम् कुश-लवौ नाम्ना तौ उभौ यम-जातकौ । मद्-कृताभ्याम् च नामभ्याम् ख्याति-युक्तौ भविष्यतः ॥ ७।६६।९ ॥
evam kuśa-lavau nāmnā tau ubhau yama-jātakau . mad-kṛtābhyām ca nāmabhyām khyāti-yuktau bhaviṣyataḥ .. 7.66.9 ..
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ ७.६६.१० ॥
ताम् रक्षाम् जगृहुः ताः च मुनि-हस्तात् समाहिताः । अकुर्वन् च ततस् रक्षाम् तयोः विगत-कल्मषाः ॥ ७।६६।१० ॥
tām rakṣām jagṛhuḥ tāḥ ca muni-hastāt samāhitāḥ . akurvan ca tatas rakṣām tayoḥ vigata-kalmaṣāḥ .. 7.66.10 ..
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ७.६६.११ ॥
तथा ताम् क्रियमाणाम् च वृद्धाभिः जन्म नाम च । सङ्कीर्तनम् च रामस्य सीतायाः प्रसवौ शुभौ ॥ ७।६६।११ ॥
tathā tām kriyamāṇām ca vṛddhābhiḥ janma nāma ca . saṅkīrtanam ca rāmasya sītāyāḥ prasavau śubhau .. 7.66.11 ..
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ ७.६६.१२ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सु महत् प्रियम् । पर्ण-शालाम् ततस् गत्वा मातर् दिष्ट्या इति च अब्रवीत् ॥ ७।६६।१२ ॥
ardharātre tu śatrughnaḥ śuśrāva su mahat priyam . parṇa-śālām tatas gatvā mātar diṣṭyā iti ca abravīt .. 7.66.12 ..
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥ ७.६६.१३ ॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघु-विक्रमः ॥ ७।६६।१३ ॥
tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ . vyatītā vārṣikī rātriḥ śrāvaṇī laghu-vikramaḥ .. 7.66.13 ..
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ ७.६६.१४ ॥
प्रभाते सु महा-वीर्यः कृत्वा पौर्वाह्णिकीम् क्रियाम् । मुनिम् प्राञ्जलिः आमन्त्र्य ययौ पश्चात् मुखः पुनर् ॥ ७।६६।१४ ॥
prabhāte su mahā-vīryaḥ kṛtvā paurvāhṇikīm kriyām . munim prāñjaliḥ āmantrya yayau paścāt mukhaḥ punar .. 7.66.14 ..
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ ७.६६.१५ ॥
स गत्वा यमुना-तीरम् सप्त-रात्र-उषितः पथि । ऋषीणाम् पुण्य-कीर्तीनाम् आश्रमे वासम् अभ्ययात् ॥ ७।६६।१५ ॥
sa gatvā yamunā-tīram sapta-rātra-uṣitaḥ pathi . ṛṣīṇām puṇya-kīrtīnām āśrame vāsam abhyayāt .. 7.66.15 ..
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ ७.६६.१६ ॥
स तत्र मुनिभिः सार्धम् भार्गव-प्रमुखैः नृपः । कथाभिः अभिरूपाभिः वासम् चक्रे महा-यशाः ॥ ७।६६।१६ ॥
sa tatra munibhiḥ sārdham bhārgava-pramukhaiḥ nṛpaḥ . kathābhiḥ abhirūpābhiḥ vāsam cakre mahā-yaśāḥ .. 7.66.16 ..
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ ७.६६.१७ ॥
स काञ्चन-आद्यैः मुनिभिः समेतः रघु-प्रवीरः रजनीम् तदानीम् । कथा-प्रकारैः बहुभिः महात्मा विरामयामास नरेन्द्र-सूनुः ॥ ७।६६।१७ ॥
sa kāñcana-ādyaiḥ munibhiḥ sametaḥ raghu-pravīraḥ rajanīm tadānīm . kathā-prakāraiḥ bahubhiḥ mahātmā virāmayāmāsa narendra-sūnuḥ .. 7.66.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṭṣaṣṭitamaḥ sargaḥ .. 66 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In