This overlay will guide you through the buttons:

| |
|
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ ७.६६.१ ॥
yāmeva rātriṃ śatrughnaḥ parṇaśālāmupāviśat . tāmeva rātriṃ sītāpi prasūtā dārakadvayam .. 7.66.1 ..
ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ ७.६६.२ ॥
tato 'rdharātrasamaye bālakā munidārakāḥ . vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham .. 7.66.2 ..
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ७.६६.३ ॥
bhagavanrāmapatnī sā prasūtā dārakadvayam . tato rakṣāṃ mahātejaḥ kuru bhūtavināśinīm .. 7.66.3 ..
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ७.६६.४ ॥
teṣāṃ tadvacanaṃ śrutvā maharṣiḥ samupāgamat . bālacandrapratīkāśau devaputrau mahaujasau .. 7.66.4 ..
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ७.६६.५ ॥
jagāma tatra hṛṣṭātmā dadarśa ca kumārakau . bhūtaghnīṃ cākarottābhyāṃ rakṣāṃ rakṣovināśinīm .. 7.66.5 ..
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ७.६६.६ ॥
kuśamuṣṭimupādāya lavaṃ caiva tu sa dvijaḥ . vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm .. 7.66.6 ..
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७.६६.७ ॥
yastayoḥ pūrvajo jātaḥ sa kuśairmantrasatkṛtaiḥ . nirmārjanīyastu tadā kuśa ityasya nāma tat .. 7.66.7 ..
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ७.६६.८ ॥
yaścāvaro bhavettābhyāṃ lavena sa samāhitaḥ . nirmārjanīyo vṛddhābhirlava ityeva nāmataḥ .. 7.66.8 ..
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ७.६६.९ ॥
evaṃ kuśalavau nāmnā tāvubhau yamajātakau . matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ .. 7.66.9 ..
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ ७.६६.१० ॥
tāṃ rakṣāṃ jagṛhustāśca munihastātsamāhitāḥ . akurvaṃśca tato rakṣāṃ tayorvigatakalmaṣāḥ .. 7.66.10 ..
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ७.६६.११ ॥
tathā tāṃ kriyamāṇāṃ ca vṛddhābhirjanma nāma ca . saṅkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau .. 7.66.11 ..
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ ७.६६.१२ ॥
ardharātre tu śatrughnaḥ śuśrāva sumahatpriyam . parṇaśālāṃ tato gatvā mātardiṣṭyeti cābravīt .. 7.66.12 ..
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥ ७.६६.१३ ॥
tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ . vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramaḥ .. 7.66.13 ..
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ ७.६६.१४ ॥
prabhāte sumahāvīryaḥ kṛtvā paurvāhṇikīṃ kriyām . muniṃ prāñjalirāmantrya yayau paścānmukhaḥ punaḥ .. 7.66.14 ..
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ ७.६६.१५ ॥
sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi . ṛṣīṇāṃ puṇyakīrtīnāmāśrame vāsamabhyayāt .. 7.66.15 ..
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ ७.६६.१६ ॥
sa tatra munibhiḥ sārdhaṃ bhārgavapramukhairnṛpaḥ . kathābhirabhirūpābhirvāsaṃ cakre mahāyaśāḥ .. 7.66.16 ..
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ ७.६६.१७ ॥
sa kāñcanādyairmunibhiḥ sameto raghupravīro rajanīṃ tadānīm . kathāprakārairbahubhirmahātmā virāmayāmāsa narendrasūnuḥ .. 7.66.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭṣaṣṭitamaḥ sargaḥ .. 66 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In