This overlay will guide you through the buttons:

| |
|
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ ७.६७.१ ॥
अथ रात्र्याम् प्रवृत्तायाम् शत्रुघ्नः भृगु-नन्दनम् । पप्रच्छ च्यवनम् विप्रम् लवणस्य यथा बलम् ॥ ७।६७।१ ॥
atha rātryām pravṛttāyām śatrughnaḥ bhṛgu-nandanam . papraccha cyavanam vipram lavaṇasya yathā balam .. 7.67.1 ..
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः । अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ ७.६७.२ ॥
शूलस्य च बलम् ब्रह्मन् के च पूर्वम् विनाशिताः । अनेन शूल-मुख्येन द्वन्द्व-युद्धम् उपागताः ॥ ७।६७।२ ॥
śūlasya ca balam brahman ke ca pūrvam vināśitāḥ . anena śūla-mukhyena dvandva-yuddham upāgatāḥ .. 7.67.2 ..
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ७.६७.३ ॥
तस्य तत् वचनम् श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महा-तेजाः च्यवनः रघुनन्दनम् ॥ ७।६७।३ ॥
tasya tat vacanam śrutvā śatrughnasya mahātmanaḥ . pratyuvāca mahā-tejāḥ cyavanaḥ raghunandanam .. 7.67.3 ..
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन । इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ॥ ७.६७.४ ॥
असङ्ख्येयानि कर्माणि यानि अस्य रघुनन्दन । इक्ष्वाकु-वंश-प्रभवे यत् वृत्तम् तत् शृणष्व मे ॥ ७।६७।४ ॥
asaṅkhyeyāni karmāṇi yāni asya raghunandana . ikṣvāku-vaṃśa-prabhave yat vṛttam tat śṛṇaṣva me .. 7.67.4 ..
अयोध्यायां पुरा राजा युवनाश्वसुतो बली । मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.६७.५ ॥
अयोध्यायाम् पुरा राजा युवनाश्व-सुतः बली । मान्धाता इति स विख्यातः त्रिषु लोकेषु वीर्यवान् ॥ ७।६७।५ ॥
ayodhyāyām purā rājā yuvanāśva-sutaḥ balī . māndhātā iti sa vikhyātaḥ triṣu lokeṣu vīryavān .. 7.67.5 ..
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः । सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ७.६७.६ ॥
स कृत्वा पृथिवीम् कृत्स्नाम् शासने पृथिवीपतिः । सुर-लोकम् इतस् जेतुम् उद्योगम् अकरोत् नृपः ॥ ७।६७।६ ॥
sa kṛtvā pṛthivīm kṛtsnām śāsane pṛthivīpatiḥ . sura-lokam itas jetum udyogam akarot nṛpaḥ .. 7.67.6 ..
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् । मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७.६७.७ ॥
इन्द्रस्य च भयम् तीव्रम् सुराणाम् च महात्मनाम् । मान्धातरि कृत-उद्योगे देव-लोक-जिगीषया ॥ ७।६७।७ ॥
indrasya ca bhayam tīvram surāṇām ca mahātmanām . māndhātari kṛta-udyoge deva-loka-jigīṣayā .. 7.67.7 ..
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ७.६७.८ ॥
अर्धासनेन शक्रस्य राज्य-अर्धेन च पार्थिवः । वन्द्यमानः सुर-गणैः प्रतिज्ञाम् अध्यरोहत ॥ ७।६७।८ ॥
ardhāsanena śakrasya rājya-ardhena ca pārthivaḥ . vandyamānaḥ sura-gaṇaiḥ pratijñām adhyarohata .. 7.67.8 ..
तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ७.६७.९ ॥
तस्य पापम् अभिप्रायम् विदित्वा पाकशासनः । सान्त्व-पूर्वम् इदम् वाक्यम् उवाच युवनाश्वजम् ॥ ७।६७।९ ॥
tasya pāpam abhiprāyam viditvā pākaśāsanaḥ . sāntva-pūrvam idam vākyam uvāca yuvanāśvajam .. 7.67.9 ..
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ ७.६७.१० ॥
राजा त्वम् मानुषे लोके न तावत् पुरुष-ऋषभ । अ कृत्वा पृथिवीम् वश्याम् देव-राज्यम् इह इच्छसि ॥ ७।६७।१० ॥
rājā tvam mānuṣe loke na tāvat puruṣa-ṛṣabha . a kṛtvā pṛthivīm vaśyām deva-rājyam iha icchasi .. 7.67.10 ..
यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ७.६७.११ ॥
यदि वीर समग्रा ते मेदिनी निखिला वशे । देव-राज्यम् कुरुष्व इह स भृत्य-बल-वाहनः ॥ ७।६७।११ ॥
yadi vīra samagrā te medinī nikhilā vaśe . deva-rājyam kuruṣva iha sa bhṛtya-bala-vāhanaḥ .. 7.67.11 ..
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ ७.६७.१२ ॥
इन्द्रम् एवम् ब्रुवाणम् तम् मान्धाता वाक्यम् अब्रवीत् । क्व मे शक्र प्रतिहतम् शासनम् पृथिवी-तले ॥ ७।६७।१२ ॥
indram evam bruvāṇam tam māndhātā vākyam abravīt . kva me śakra pratihatam śāsanam pṛthivī-tale .. 7.67.12 ..
तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ॥ ७.६७.१३ ॥
तम् उवाच सहस्राक्षः लवणः नाम राक्षसः । मधु-पुत्रः मधुवने न ते आज्ञाम् कुरुते अनघ ॥ ७।६७।१३ ॥
tam uvāca sahasrākṣaḥ lavaṇaḥ nāma rākṣasaḥ . madhu-putraḥ madhuvane na te ājñām kurute anagha .. 7.67.13 ..
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ ७.६७.१४ ॥
तत् श्रुत्वा विप्रियम् घोरम् सहस्राक्षेण भाषितम् । व्रीडितः अवाङ्मुखः राजा व्याहर्तुम् न शशाक ह ॥ ७।६७।१४ ॥
tat śrutvā vipriyam ghoram sahasrākṣeṇa bhāṣitam . vrīḍitaḥ avāṅmukhaḥ rājā vyāhartum na śaśāka ha .. 7.67.14 ..
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ ७.६७.१५ ॥
आमन्त्र्य तु सहस्राक्षम् ह्रिया किञ्चिद् अवाङ्मुखः । पुनर् एव अगमत् श्रीमान् इमम् लोकम् नरेश्वरः ॥ ७।६७।१५ ॥
āmantrya tu sahasrākṣam hriyā kiñcid avāṅmukhaḥ . punar eva agamat śrīmān imam lokam nareśvaraḥ .. 7.67.15 ..
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ ७.६७.१६ ॥
स कृत्वा हृदये अमर्षम् स भृत्य-बल-वाहनः । आजगाम मधोः पुत्रम् वशे कर्तुम् अरिन्दमः ॥ ७।६७।१६ ॥
sa kṛtvā hṛdaye amarṣam sa bhṛtya-bala-vāhanaḥ . ājagāma madhoḥ putram vaśe kartum arindamaḥ .. 7.67.16 ..
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ॥ ७.६७.१७ ॥
स काङ्क्षमाणः लवणम् युद्धाय पुरुष-ऋषभः । दूतम् सम्प्रेषयामास सकाशम् लवणस्य हि ॥ ७।६७।१७ ॥
sa kāṅkṣamāṇaḥ lavaṇam yuddhāya puruṣa-ṛṣabhaḥ . dūtam sampreṣayāmāsa sakāśam lavaṇasya hi .. 7.67.17 ..
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ ७.६७.१८ ॥
स गत्वा विप्रियाणि आह बहूनि मधुनः सुतम् । वदन्तम् एवम् तम् दूतम् भक्षयामास राक्षसः ॥ ७।६७।१८ ॥
sa gatvā vipriyāṇi āha bahūni madhunaḥ sutam . vadantam evam tam dūtam bhakṣayāmāsa rākṣasaḥ .. 7.67.18 ..
चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ ७.६७.१९ ॥
चिरायमाणे दूते तु राजा क्रोध-समन्वितः । अर्दयामास तत् रक्षः शर-वृष्ट्या समन्ततः ॥ ७।६७।१९ ॥
cirāyamāṇe dūte tu rājā krodha-samanvitaḥ . ardayāmāsa tat rakṣaḥ śara-vṛṣṭyā samantataḥ .. 7.67.19 ..
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ ७.६७.२० ॥
ततस् प्रहस्य तत् रक्षः शूलम् जग्राह पाणिना । वधाय स अनुबन्धस्य मुमोच आयुधम् उत्तमम् ॥ ७।६७।२० ॥
tatas prahasya tat rakṣaḥ śūlam jagrāha pāṇinā . vadhāya sa anubandhasya mumoca āyudham uttamam .. 7.67.20 ..
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ ७.६७.२१ ॥
तत् शूलम् दीप्यमानम् तु स भृत्य-बल-वाहनम् । भस्मीकृत्वा नृपम् भूयस् लवणस्य अगमत् करम् ॥ ७।६७।२१ ॥
tat śūlam dīpyamānam tu sa bhṛtya-bala-vāhanam . bhasmīkṛtvā nṛpam bhūyas lavaṇasya agamat karam .. 7.67.21 ..
एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ ७.६७.२२ ॥
एवम् स राजा सु महान् हतः स बल-वाहनः । शूलस्य तु बलम् सौम्य अप्रमेयम् अनुत्तमम् ॥ ७।६७।२२ ॥
evam sa rājā su mahān hataḥ sa bala-vāhanaḥ . śūlasya tu balam saumya aprameyam anuttamam .. 7.67.22 ..
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ ७.६७.२३ ॥
श्वस् प्रभाते तु लवणम् वधिष्यसि न संशयः । अगृहीत-आयुधम् क्षिप्रम् ध्रुवः हि विजयः तव ॥ ७।६७।२३ ॥
śvas prabhāte tu lavaṇam vadhiṣyasi na saṃśayaḥ . agṛhīta-āyudham kṣipram dhruvaḥ hi vijayaḥ tava .. 7.67.23 ..
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ ७.६७.२४ ॥
लोकानाम् स्वस्ति च एव स्यात् कृते कर्मणि च त्वया । एतत् ते सर्वम् आख्यातम् लवणस्य दुरात्मनः ॥ ७।६७।२४ ॥
lokānām svasti ca eva syāt kṛte karmaṇi ca tvayā . etat te sarvam ākhyātam lavaṇasya durātmanaḥ .. 7.67.24 ..
शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ ७.६७.२५ ॥
शूलस्य च बलम् घोरम् अप्रमेयम् नर-ऋषभ । विनाशः च एव मान्धातुः यत् तेन अभूत् च पार्थिव ॥ ७।६७।२५ ॥
śūlasya ca balam ghoram aprameyam nara-ṛṣabha . vināśaḥ ca eva māndhātuḥ yat tena abhūt ca pārthiva .. 7.67.25 ..
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ ७.६७.२६ ॥
त्वम् श्वस् प्रभाते लवणम् महात्मन् वधिष्यसे न अत्र तु संशयः मे । शूलम् विना निर्गतम् आमिष-अर्थे ध्रुवः जयः ते भविता नरेन्द्र ॥ ७।६७।२६ ॥
tvam śvas prabhāte lavaṇam mahātman vadhiṣyase na atra tu saṃśayaḥ me . śūlam vinā nirgatam āmiṣa-arthe dhruvaḥ jayaḥ te bhavitā narendra .. 7.67.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptaṣaṣṭitamaḥ sargaḥ .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In