This overlay will guide you through the buttons:

| |
|
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ ७.६८.१ ॥
कथाम् कथयताम् तेषाम् जयम् च आकाङ्क्षताम् शुभम् । व्यतीता रजनी शीघ्रम् शत्रुघ्नस्य महात्मनः ॥ ७।६८।१ ॥
kathām kathayatām teṣām jayam ca ākāṅkṣatām śubham . vyatītā rajanī śīghram śatrughnasya mahātmanaḥ .. 7.68.1 ..
ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ ७.६८.२ ॥
ततस् प्रभाते विमले तस्मिन् काले स राक्षसः । निर्गतः तु पुरात् धीरः भक्ष्य-आहार-प्रचोदितः ॥ ७।६८।२ ॥
tatas prabhāte vimale tasmin kāle sa rākṣasaḥ . nirgataḥ tu purāt dhīraḥ bhakṣya-āhāra-pracoditaḥ .. 7.68.2 ..
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ७.६८.३ ॥
एतस्मिन् अन्तरे वीरः शत्रुघ्नः यमुनाम् नदीम् । तीर्त्वा मधु-पुर-द्वारि धनुष्पाणिः अतिष्ठत ॥ ७।६८।३ ॥
etasmin antare vīraḥ śatrughnaḥ yamunām nadīm . tīrtvā madhu-pura-dvāri dhanuṣpāṇiḥ atiṣṭhata .. 7.68.3 ..
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ७.६८.४ ॥
ततस् अर्धदिवसे प्राप्ते क्रूर-कर्मा स राक्षसः । आगच्छत् बहु-साहस्रम् प्राणिनाम् भारम् उद्वहन् ॥ ७।६८।४ ॥
tatas ardhadivase prāpte krūra-karmā sa rākṣasaḥ . āgacchat bahu-sāhasram prāṇinām bhāram udvahan .. 7.68.4 ..
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ७.६८.५ ॥
ततस् ददर्श शत्रुघ्नम् स्थितम् द्वारि धृत-आयुधम् । तम् उवाच ततस् रक्षः किम् अनेन करिष्यसि ॥ ७।६८।५ ॥
tatas dadarśa śatrughnam sthitam dvāri dhṛta-āyudham . tam uvāca tatas rakṣaḥ kim anena kariṣyasi .. 7.68.5 ..
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ७.६८.६ ॥
ईदृशानाम् सहस्राणि स आयुधानाम् नर-अधम । भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम् ॥ ७।६८।६ ॥
īdṛśānām sahasrāṇi sa āyudhānām nara-adhama . bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim .. 7.68.6 ..
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ॥ ७.६८.७ ॥
आहारः च अस्य सम्पूर्णः मम अयम् पुरुष-अधम । स्वयम् प्रविष्टः अद्य मुखम् कथम् आसाद्य दुर्मते ॥ ७।६८।७ ॥
āhāraḥ ca asya sampūrṇaḥ mama ayam puruṣa-adhama . svayam praviṣṭaḥ adya mukham katham āsādya durmate .. 7.68.7 ..
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ ७.६८.८ ॥
तस्य एवम् भाषमाणस्य हसतः च मुहुर् मुहुर् । शत्रुघ्नः वीर्य-सम्पन्नः रोषात् अश्रूणि अवासृजत् ॥ ७।६८।८ ॥
tasya evam bhāṣamāṇasya hasataḥ ca muhur muhur . śatrughnaḥ vīrya-sampannaḥ roṣāt aśrūṇi avāsṛjat .. 7.68.8 ..
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ७.६८.९ ॥
तस्य रोष-अभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजः-मयाः मरीच्यः तु सर्व-गात्रैः विनिष्पतन् ॥ ७।६८।९ ॥
tasya roṣa-abhibhūtasya śatrughnasya mahātmanaḥ . tejaḥ-mayāḥ marīcyaḥ tu sarva-gātraiḥ viniṣpatan .. 7.68.9 ..
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ ७.६८.१० ॥
उवाच च सु सङ्क्रुद्धः शत्रुघ्नः तम् निशाचरम् । योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्व-युद्धम् त्वया सह ॥ ७।६८।१० ॥
uvāca ca su saṅkruddhaḥ śatrughnaḥ tam niśācaram . yoddhum icchāmi durbuddhe dvandva-yuddham tvayā saha .. 7.68.10 ..
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ७.६८.११ ॥
पुत्रः दशरथस्य अहम् भ्राता रामस्य धीमतः । शत्रुघ्नः नित्य-शत्रु-घ्नः वध-आकाङ्क्षी तव आगतः ॥ ७।६८।११ ॥
putraḥ daśarathasya aham bhrātā rāmasya dhīmataḥ . śatrughnaḥ nitya-śatru-ghnaḥ vadha-ākāṅkṣī tava āgataḥ .. 7.68.11 ..
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥ ७.६८.१२ ॥
तस्य मे युद्ध-कामस्य द्वन्द्व-युद्धम् प्रदीयताम् । शत्रुः त्वम् सर्व-भूतानाम् न मे जीवन् गमिष्यसि ॥ ७।६८।१२ ॥
tasya me yuddha-kāmasya dvandva-yuddham pradīyatām . śatruḥ tvam sarva-bhūtānām na me jīvan gamiṣyasi .. 7.68.12 ..
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ॥ ७.६८.१३ ॥
तस्मिन् तथा ब्रुवाणे तु राक्षसः प्रहसन् इव । प्रत्युवाच नर-श्रेष्ठम् दिष्ट्या प्राप्तः असि दुर्मते ॥ ७।६८।१३ ॥
tasmin tathā bruvāṇe tu rākṣasaḥ prahasan iva . pratyuvāca nara-śreṣṭham diṣṭyā prāptaḥ asi durmate .. 7.68.13 ..
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ ७.६८.१४ ॥
मम मातृष्वसुः भ्राता रावणः राक्षस-अधिपः । हतः रामेण दुर्बुद्धे स्त्री-हेतोः पुरुष-अधम ॥ ७।६८।१४ ॥
mama mātṛṣvasuḥ bhrātā rāvaṇaḥ rākṣasa-adhipaḥ . hataḥ rāmeṇa durbuddhe strī-hetoḥ puruṣa-adhama .. 7.68.14 ..
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ ७.६८.१५ ॥
तत् च सर्वम् मया क्षान्तम् रावणस्य कुल-क्षयम् । अवज्ञाम् पुरतस् कृत्वा मया यूयम् विशेषतः ॥ ७।६८।१५ ॥
tat ca sarvam mayā kṣāntam rāvaṇasya kula-kṣayam . avajñām puratas kṛtvā mayā yūyam viśeṣataḥ .. 7.68.15 ..
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ ७.६८.१६ ॥
निहताः च हि मे सर्वे परिभूताः तृणम् यथा । भूताः च एव भविष्याः च यूयम् च पुरुष-अधमाः ॥ ७।६८।१६ ॥
nihatāḥ ca hi me sarve paribhūtāḥ tṛṇam yathā . bhūtāḥ ca eva bhaviṣyāḥ ca yūyam ca puruṣa-adhamāḥ .. 7.68.16 ..
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ ७.६८.१७ ॥
तस्य ते युद्ध-कामस्य युद्धम् दास्यामि दुर्मते । तिष्ठम् त्वम् च मुहूर्तम् तु यावत् आयुधम् आनये । ईप्सितम् यादृशम् तुभ्यम् सज्जये यावत् आयुधम् ॥ ७।६८।१७ ॥
tasya te yuddha-kāmasya yuddham dāsyāmi durmate . tiṣṭham tvam ca muhūrtam tu yāvat āyudham ānaye . īpsitam yādṛśam tubhyam sajjaye yāvat āyudham .. 7.68.17 ..
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ ७.६८.१८ ॥
तम् उवाच आशु शत्रुघ्नः क्व मे जीवन् गमिष्यसि । शत्रुः यदृच्छया दृष्टः न मोक्तव्यः कृतात्मना ॥ ७।६८।१८ ॥
tam uvāca āśu śatrughnaḥ kva me jīvan gamiṣyasi . śatruḥ yadṛcchayā dṛṣṭaḥ na moktavyaḥ kṛtātmanā .. 7.68.18 ..
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ ७.६८.१९ ॥
यः हि विक्लवया बुद्ध्या प्रसरम् शत्रवे ददौ । स हतः मन्द-बुद्धि-त्वात् यथा कापुरुषः तथा ॥ ७।६८।१९ ॥
yaḥ hi viklavayā buddhyā prasaram śatrave dadau . sa hataḥ manda-buddhi-tvāt yathā kāpuruṣaḥ tathā .. 7.68.19 ..
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ ७.६८.२० ॥
तस्मात् सु दृष्टम् कुरु जीव-लोकम् शरैः शितैः त्वाम् विविधैः नयामि । यमस्य गेह-अभिमुखम् हि पापम् रिपुम् त्रिलोकस्य च राघवस्य ॥ ७।६८।२० ॥
tasmāt su dṛṣṭam kuru jīva-lokam śaraiḥ śitaiḥ tvām vividhaiḥ nayāmi . yamasya geha-abhimukham hi pāpam ripum trilokasya ca rāghavasya .. 7.68.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः ॥ ६८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭaṣaṣṭitamaḥ sargaḥ .. 68 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In