This overlay will guide you through the buttons:

| |
|
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ ७.७.१ ॥
नारायण-गिरिम् ते तु गर्जन्तः राक्षस-अम्बुदाः । ववर्षुः शर-वर्षेण वर्षेण इव अद्रिम् अम्बुदाः ॥ ७।७।१ ॥
nārāyaṇa-girim te tu garjantaḥ rākṣasa-ambudāḥ . vavarṣuḥ śara-varṣeṇa varṣeṇa iva adrim ambudāḥ .. 7.7.1 ..
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥ ७.७.२ ॥
श्याम-अवदातः तैः विष्णुः नीलैः नक्तञ्चर-उत्तमैः । वृतः अञ्जन-गिरि-इव आसीत् वर्षमाणैः पयोधरैः ॥ ७।७।२ ॥
śyāma-avadātaḥ taiḥ viṣṇuḥ nīlaiḥ naktañcara-uttamaiḥ . vṛtaḥ añjana-giri-iva āsīt varṣamāṇaiḥ payodharaiḥ .. 7.7.2 ..
शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ॥ ७.७.३ ॥
शलभाः इव केदारम् मशकाः इव पर्वतम् । यथा अमृत-घटम् दंशाः मकराः इव च अर्णवम् ॥ ७।७।३ ॥
śalabhāḥ iva kedāram maśakāḥ iva parvatam . yathā amṛta-ghaṭam daṃśāḥ makarāḥ iva ca arṇavam .. 7.7.3 ..
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ७.७.४ ॥
तथा रक्षः-धनुः-मुक्ताः वज्र-अनिल-मनोजवाः । हरिम् विशन्ति स्म शराः लोकाः इव विपर्यये ॥ ७।७।४ ॥
tathā rakṣaḥ-dhanuḥ-muktāḥ vajra-anila-manojavāḥ . harim viśanti sma śarāḥ lokāḥ iva viparyaye .. 7.7.4 ..
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ ७.७.५ ॥
स्यन्दनैः स्यन्दन-गताः गजैः च गज-पृष्ठ-गाः । अश्व-आरोहाः तथा अश्वैः च पादाताः च अम्बरे स्थिताः ॥ ७।७।५ ॥
syandanaiḥ syandana-gatāḥ gajaiḥ ca gaja-pṛṣṭha-gāḥ . aśva-ārohāḥ tathā aśvaiḥ ca pādātāḥ ca ambare sthitāḥ .. 7.7.5 ..
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ ७.७.६ ॥
राक्षस-इन्द्राः गिरि-निभाः शरैः शक्ति-ऋष्टि-तोमरैः । निरुछ्वासम् हरिम् चक्रुः प्राणायामाः इव द्विजम् ॥ ७।७।६ ॥
rākṣasa-indrāḥ giri-nibhāḥ śaraiḥ śakti-ṛṣṭi-tomaraiḥ . niruchvāsam harim cakruḥ prāṇāyāmāḥ iva dvijam .. 7.7.6 ..
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ॥ ७.७.७ ॥
निशाचरैः ताड्यमानः मीनैः इव महा-उदधिः । शार्ङ्गम् आयम्य दुर्धर्षः राक्षसेभ्यः असृजत् शरान् ॥ ७।७।७ ॥
niśācaraiḥ tāḍyamānaḥ mīnaiḥ iva mahā-udadhiḥ . śārṅgam āyamya durdharṣaḥ rākṣasebhyaḥ asṛjat śarān .. 7.7.7 ..
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ॥ ७.७.८ ॥
शरैः पूर्ण-आयत-उत्सृष्टैः वज्र-वक्त्रैः मनोजवैः । चिच्छेद विष्णुः निशितैः शतशस् अथ सहस्रशस् ॥ ७।७।८ ॥
śaraiḥ pūrṇa-āyata-utsṛṣṭaiḥ vajra-vaktraiḥ manojavaiḥ . ciccheda viṣṇuḥ niśitaiḥ śataśas atha sahasraśas .. 7.7.8 ..
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ७.७.९ ॥
विद्राव्य शर-वर्षेण वर्षाः वायुः इव उत्थितम् । पाञ्चजन्यम् महा-शङ्खम् प्रदध्मौ पुरुषोत्तमः ॥ ७।७।९ ॥
vidrāvya śara-varṣeṇa varṣāḥ vāyuḥ iva utthitam . pāñcajanyam mahā-śaṅkham pradadhmau puruṣottamaḥ .. 7.7.9 ..
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥ ७.७.१० ॥
सः अम्बुजः हरिणा ध्मातः सर्व-प्राणेन शङ्ख-राज् । ररास भीम-निर्हादः त्रैलोक्यम् व्यथयन् इव ॥ ७।७।१० ॥
saḥ ambujaḥ hariṇā dhmātaḥ sarva-prāṇena śaṅkha-rāj . rarāsa bhīma-nirhādaḥ trailokyam vyathayan iva .. 7.7.10 ..
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ७.७.११ ॥
शङ्ख-राज-रवः सः अथ त्रासयामास राक्षसान् । मृगराजः इव अरण्ये समदान् इव कुञ्जरान् ॥ ७।७।११ ॥
śaṅkha-rāja-ravaḥ saḥ atha trāsayāmāsa rākṣasān . mṛgarājaḥ iva araṇye samadān iva kuñjarān .. 7.7.11 ..
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ ७.७.१२ ॥
न शेकुः अश्वाः संस्थातुम् विमदाः कुञ्जराः अभवन् । स्यन्दनेभ्यः च्युताः वीराः शङ्ख-रावित-दुर्बलाः ॥ ७।७।१२ ॥
na śekuḥ aśvāḥ saṃsthātum vimadāḥ kuñjarāḥ abhavan . syandanebhyaḥ cyutāḥ vīrāḥ śaṅkha-rāvita-durbalāḥ .. 7.7.12 ..
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ ७.७.१३ ॥
शार्ङ्ग-चाप-विनिर्मुक्ताः वज्र-तुल्य-आननाः शराः । विदार्य तानि रक्षांसि सु पुङ्खाः विविशुः क्षितिम् ॥ ७।७।१३ ॥
śārṅga-cāpa-vinirmuktāḥ vajra-tulya-ānanāḥ śarāḥ . vidārya tāni rakṣāṃsi su puṅkhāḥ viviśuḥ kṣitim .. 7.7.13 ..
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ ७.७.१४ ॥
भिद्यमानाः शरैः सङ्ख्ये नारायण-कर-च्युतैः । निपेतुः राक्षसाः भूमौ शैलाः वज्र-हताः इव ॥ ७।७।१४ ॥
bhidyamānāḥ śaraiḥ saṅkhye nārāyaṇa-kara-cyutaiḥ . nipetuḥ rākṣasāḥ bhūmau śailāḥ vajra-hatāḥ iva .. 7.7.14 ..
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥ ७.७.१५ ॥
व्रणानि पर-गात्रेभ्यः विष्णु-चक्र-कृतानि वै । असृज् क्षरन्ति धाराभिः स्वर्ण-धाराः इव अचलाः ॥ ७।७।१५ ॥
vraṇāni para-gātrebhyaḥ viṣṇu-cakra-kṛtāni vai . asṛj kṣaranti dhārābhiḥ svarṇa-dhārāḥ iva acalāḥ .. 7.7.15 ..
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा । राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ ७.७.१६ ॥
शङ्ख-राज-रवः च अपि शार्ङ्ग-चाप-रस्वः तथा । राक्षसानाम् रवान् च अपि ग्रसते वैष्णवः रवः ॥ ७।७।१६ ॥
śaṅkha-rāja-ravaḥ ca api śārṅga-cāpa-rasvaḥ tathā . rākṣasānām ravān ca api grasate vaiṣṇavaḥ ravaḥ .. 7.7.16 ..
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च । रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ ७.७.१७ ॥
तेषाम् शिरोधरान् धूतान् शर-ध्वज-धनूंषि च । रथान् पताकाः तूणीरान् चिच्छेद स हरिः शरैः ॥ ७।७।१७ ॥
teṣām śirodharān dhūtān śara-dhvaja-dhanūṃṣi ca . rathān patākāḥ tūṇīrān ciccheda sa hariḥ śaraiḥ .. 7.7.17 ..
सूर्यादिव करा घोरा ऊर्मयः सागरादिव । पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ ७.७.१८ ॥
सूर्यात् इव कराः घोराः ऊर्मयः सागरात् इव । पर्वतात् इव नाग-इन्द्राः धारा-ओघाः इव च अम्बुदात् ॥ ७।७।१८ ॥
sūryāt iva karāḥ ghorāḥ ūrmayaḥ sāgarāt iva . parvatāt iva nāga-indrāḥ dhārā-oghāḥ iva ca ambudāt .. 7.7.18 ..
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः । निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ ७.७.१९ ॥
तथा शार्ङ्ग-विनिर्मुक्ताः शराः नारायण-ईरिताः । निर्धावन्ति इषवः तूर्णम् शतशस् थ सहस्रशस् ॥ ७।७।१९ ॥
tathā śārṅga-vinirmuktāḥ śarāḥ nārāyaṇa-īritāḥ . nirdhāvanti iṣavaḥ tūrṇam śataśas tha sahasraśas .. 7.7.19 ..
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ ७.७.२० ॥
शरभेण यथा सिंहाः सिंहेन द्विरदाः यथा । द्विरदेन यथा व्याघ्राः व्याघ्रेण द्वीपिनः यथा ॥ ७।७।२० ॥
śarabheṇa yathā siṃhāḥ siṃhena dviradāḥ yathā . dviradena yathā vyāghrāḥ vyāghreṇa dvīpinaḥ yathā .. 7.7.20 ..
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ॥ ७.७.२१ ॥
द्वीपिना इव यथा श्वानः शुना मार्जारकाः यथा । मार्जारेण यथा सर्पाः सर्पेण च यथा आ आखवः ॥ ७।७।२१ ॥
dvīpinā iva yathā śvānaḥ śunā mārjārakāḥ yathā . mārjāreṇa yathā sarpāḥ sarpeṇa ca yathā ā ākhavaḥ .. 7.7.21 ..
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥ ७.७.२२ ॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताः च न्ये शायिताः च मही-तले ॥ ७।७।२२ ॥
tathā te rākṣasāḥ sarve viṣṇunā prabhaviṣṇunā . dravanti drāvitāḥ ca nye śāyitāḥ ca mahī-tale .. 7.7.22 ..
राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ॥ ७.७.२३ ॥
राक्षसानाम् सहस्राणि निहत्य मधुसूदनः । वारिजम् पूरयामास तोयदम् सुरराज् इव ॥ ७।७।२३ ॥
rākṣasānām sahasrāṇi nihatya madhusūdanaḥ . vārijam pūrayāmāsa toyadam surarāj iva .. 7.7.23 ..
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् । ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ ७.७.२४ ॥
नारायण-शर-त्रस्तम् शङ्ख-नाद-सु विह्वलम् । ययौ लङ्काम् अभिमुखम् प्रभग्नम् राक्षसम् बलम् ॥ ७।७।२४ ॥
nārāyaṇa-śara-trastam śaṅkha-nāda-su vihvalam . yayau laṅkām abhimukham prabhagnam rākṣasam balam .. 7.7.24 ..
प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ॥ ७.७.२५ ॥
प्रभग्ने राक्षस-बले नारायण-शर-आहते । सुमाली शर-वर्षेण निववार रणे हरिम् ॥ ७।७।२५ ॥
prabhagne rākṣasa-bale nārāyaṇa-śara-āhate . sumālī śara-varṣeṇa nivavāra raṇe harim .. 7.7.25 ..
स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥ ७.७.२६ ॥
स तु तम् छादयामास नीहारः इव भास्करम् । राक्षसाः सत्त्व-सम्पन्नाः पुनर् धैर्यम् समादधुः ॥ ७।७।२६ ॥
sa tu tam chādayāmāsa nīhāraḥ iva bhāskaram . rākṣasāḥ sattva-sampannāḥ punar dhairyam samādadhuḥ .. 7.7.26 ..
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ ७.७.२७ ॥
अथ सः अभ्यपतत् रोषात् राक्षसः बल-दर्पितः । महा-नादम् प्रकुर्वाणः राक्षसान् जीवयन् इव ॥ ७।७।२७ ॥
atha saḥ abhyapatat roṣāt rākṣasaḥ bala-darpitaḥ . mahā-nādam prakurvāṇaḥ rākṣasān jīvayan iva .. 7.7.27 ..
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः । ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ ७.७.२८ ॥
उत्क्षिप्य लम्ब-आभरणम् धुन्वन् करम् इव द्विपः । ररास राक्षसः हर्षात् स तडित् तोयदः यथा ॥ ७।७।२८ ॥
utkṣipya lamba-ābharaṇam dhunvan karam iva dvipaḥ . rarāsa rākṣasaḥ harṣāt sa taḍit toyadaḥ yathā .. 7.7.28 ..
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ ७.७.२९ ॥
सुमालेः नर्दतः तस्य शिरः ज्वलित-कुण्डलम् । चिच्छेद यन्तुः अश्वाः च भ्रान्ताः तस्य तु रक्षसः ॥ ७।७।२९ ॥
sumāleḥ nardataḥ tasya śiraḥ jvalita-kuṇḍalam . ciccheda yantuḥ aśvāḥ ca bhrāntāḥ tasya tu rakṣasaḥ .. 7.7.29 ..
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ ७.७.३० ॥
तैः अश्वैः भ्राम्यते भ्रान्तैः सुमाली राक्षस-ईश्वरः । इन्द्रिय-अश्वैः परिभ्रान्तैः धृति-हीनः यथा नरः ॥ ७।७।३० ॥
taiḥ aśvaiḥ bhrāmyate bhrāntaiḥ sumālī rākṣasa-īśvaraḥ . indriya-aśvaiḥ paribhrāntaiḥ dhṛti-hīnaḥ yathā naraḥ .. 7.7.30 ..
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥ ७.७.३१ ॥
ततस् विष्णुम् महा-बाहुम् प्रपतन्तम् रण-अजिरे । हृते सुमालेः अश्वैः च रथे विष्णु-रथम् प्रति ॥ ७।७।३१ ॥
tatas viṣṇum mahā-bāhum prapatantam raṇa-ajire . hṛte sumāleḥ aśvaiḥ ca rathe viṣṇu-ratham prati .. 7.7.31 ..
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः । विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ ७.७.३२ ॥
माली च अभ्यद्रवत् युक्तः प्रगृह्य स शरम् धनुः । मालेः धनुः-च्युताः बाणाः कार्तस्वर-विभूषिताः । विविशुः हरिम् आसाद्य क्रौञ्चम् पत्ररथाः इव ॥ ७।७।३२ ॥
mālī ca abhyadravat yuktaḥ pragṛhya sa śaram dhanuḥ . māleḥ dhanuḥ-cyutāḥ bāṇāḥ kārtasvara-vibhūṣitāḥ . viviśuḥ harim āsādya krauñcam patrarathāḥ iva .. 7.7.32 ..
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः । चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ ७.७.३३ ॥
अर्द्यमानः शरैः सः अथ मालि-मुक्तैः सहस्रशस् । चुक्षुभे न रणे विष्णुः जित-इन्द्रियः इव आधिभिः ॥ ७।७।३३ ॥
ardyamānaḥ śaraiḥ saḥ atha māli-muktaiḥ sahasraśas . cukṣubhe na raṇe viṣṇuḥ jita-indriyaḥ iva ādhibhiḥ .. 7.7.33 ..
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः । मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ ७.७.३४ ॥
अथ मौर्वी-स्वनम् कृत्वा भगवान् भूतभावनः । मालिनम् प्रति बाण-ओघान् ससर्ज अरि-निषूदनः ॥ ७।७।३४ ॥
atha maurvī-svanam kṛtvā bhagavān bhūtabhāvanaḥ . mālinam prati bāṇa-oghān sasarja ari-niṣūdanaḥ .. 7.7.34 ..
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः । पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ ७.७.३५ ॥
ते मालि-देहम् आसाद्य वज्र-विद्युत्-प्रभाः शराः । पिबन्ति रुधिरम् तस्य नागाः इव सुधा-रसम् ॥ ७।७।३५ ॥
te māli-deham āsādya vajra-vidyut-prabhāḥ śarāḥ . pibanti rudhiram tasya nāgāḥ iva sudhā-rasam .. 7.7.35 ..
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः । मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥ ७.७.३६ ॥
मालिनम् विमुखम् कृत्वा शङ्ख-चक्र-गदा-धरः । मालि-मौलिम् ध्वजम् चापम् वाजिनः च अपि अपातयत् ॥ ७।७।३६ ॥
mālinam vimukham kṛtvā śaṅkha-cakra-gadā-dharaḥ . māli-maulim dhvajam cāpam vājinaḥ ca api apātayat .. 7.7.36 ..
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः । आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥ ७.७.३७ ॥
विरथः तु गदाम् गृह्य माली नक्तञ्चर-उत्तमः । आपुप्लुवे गदा-पाणिः गिरि-अग्रात् इव केसरी ॥ ७।७।३७ ॥
virathaḥ tu gadām gṛhya mālī naktañcara-uttamaḥ . āpupluve gadā-pāṇiḥ giri-agrāt iva kesarī .. 7.7.37 ..
गदया गरुडेशानमीशानमिव चान्तकः । ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ॥ ७.७.३८ ॥
गदया गरुड-ईशानम् ईशानम् इव च अन्तकः । ललाट-देशे अभ्यहनत् वज्रेण इन्द्रः यथा अचलम् ॥ ७।७।३८ ॥
gadayā garuḍa-īśānam īśānam iva ca antakaḥ . lalāṭa-deśe abhyahanat vajreṇa indraḥ yathā acalam .. 7.7.38 ..
गदयाभिहतस्तेन मालिना गरुडो भृशम् । रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ७.७.३९ ॥
गदया अभिहतः तेन मालिना गरुडः भृशम् । रणात् पराङ्मुखम् देवम् कृतवान् वेदना-आतुरः ॥ ७।७।३९ ॥
gadayā abhihataḥ tena mālinā garuḍaḥ bhṛśam . raṇāt parāṅmukham devam kṛtavān vedanā-āturaḥ .. 7.7.39 ..
पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥ ७.७.४० ॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठत् महान् शब्दः रक्षसाम् अभिनर्दताम् ॥ ७।७।४० ॥
parāṅmukhe kṛte deve mālinā garuḍena vai . udatiṣṭhat mahān śabdaḥ rakṣasām abhinardatām .. 7.7.40 ..
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥ ७.७.४१ ॥
रक्षसाम् रवताम् रावम् श्रुत्वा हरि-हय-अनुजः ॥ ७।७।४१ ॥
rakṣasām ravatām rāvam śrutvā hari-haya-anujaḥ .. 7.7.41 ..
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः । पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ ७.७.४२ ॥
तिर्यक् आस्थाय सङ्क्रुद्धः पक्षि-ईशे भगवान् हरिः । पराङ्मुखः अपि उत्ससर्ज मालेः चक्रम् जिघांसया ॥ ७।७।४२ ॥
tiryak āsthāya saṅkruddhaḥ pakṣi-īśe bhagavān hariḥ . parāṅmukhaḥ api utsasarja māleḥ cakram jighāṃsayā .. 7.7.42 ..
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ ७.७.४३ ॥
तत् सूर्य-मण्डल-आभासम् स्व-भासा भासयन् नभः । काल-चक्र-निभम् चक्रम् मालेः शीर्षम् अपातयत् ॥ ७।७।४३ ॥
tat sūrya-maṇḍala-ābhāsam sva-bhāsā bhāsayan nabhaḥ . kāla-cakra-nibham cakram māleḥ śīrṣam apātayat .. 7.7.43 ..
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ७.७.४४ ॥
तत् शिरः राक्षस-इन्द्रस्य चक्र-उत्कृत्तम् बिभीषणम् । पपात रुधिर-उद्गारि पुरा राहु-शिरः यथा ॥ ७।७।४४ ॥
tat śiraḥ rākṣasa-indrasya cakra-utkṛttam bibhīṣaṇam . papāta rudhira-udgāri purā rāhu-śiraḥ yathā .. 7.7.44 ..
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥ ७.७.४५ ॥
ततस् सुरैः संसहृष्टैः सर्व-प्राण-समीरितः । सिंहनाद-रव-उन्मुक्तः साधु देव इति वादिभिः ॥ ७।७।४५ ॥
tatas suraiḥ saṃsahṛṣṭaiḥ sarva-prāṇa-samīritaḥ . siṃhanāda-rava-unmuktaḥ sādhu deva iti vādibhiḥ .. 7.7.45 ..
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥ ७.७.४६ ॥
मालिनम् निहतम् दृष्ट्वा सुमाली माल्यवान् अपि । स बलौ शोक-सन्तप्तौ लङ्काम् एव प्रधावितौ ॥ ७।७।४६ ॥
mālinam nihatam dṛṣṭvā sumālī mālyavān api . sa balau śoka-santaptau laṅkām eva pradhāvitau .. 7.7.46 ..
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा । राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ७.७.४७ ॥
गरुडः तु समाश्वस्तः सन् निवृत्य यथा पुरा । राक्षसान् द्रावयामास पक्ष-वातेन कोपितः ॥ ७।७।४७ ॥
garuḍaḥ tu samāśvastaḥ san nivṛtya yathā purā . rākṣasān drāvayāmāsa pakṣa-vātena kopitaḥ .. 7.7.47 ..
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः । लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ७.७.४८ ॥
चक्र-कृत्त-आस्य-कमलाः गदा-सञ्चूर्णित-उरसः । लाङ्गल-ग्लपित-ग्रीवाः मुसलैः भिन्न-मस्तकाः ॥ ७।७।४८ ॥
cakra-kṛtta-āsya-kamalāḥ gadā-sañcūrṇita-urasaḥ . lāṅgala-glapita-grīvāḥ musalaiḥ bhinna-mastakāḥ .. 7.7.48 ..
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः । निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ७.७.४९ ॥
केचिद् च एव असिना छिन्नाः तथा अन्ये शर-पीडिताः । निपेतुः अम्बरात् तूर्णम् राक्षसाः सागर-अम्भसि ॥ ७।७।४९ ॥
kecid ca eva asinā chinnāḥ tathā anye śara-pīḍitāḥ . nipetuḥ ambarāt tūrṇam rākṣasāḥ sāgara-ambhasi .. 7.7.49 ..
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः । नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ॥ ७.७.५० ॥
नारायणः बाण-वर-अशनीभिः विदारयामास धनुः-विमुक्तैः । नक्तञ्चरान् मुक्त-विधूत-केशान् यथा अशनीभिः स तडित्-महा-अभ्राः ॥ ७।७।५० ॥
nārāyaṇaḥ bāṇa-vara-aśanībhiḥ vidārayāmāsa dhanuḥ-vimuktaiḥ . naktañcarān mukta-vidhūta-keśān yathā aśanībhiḥ sa taḍit-mahā-abhrāḥ .. 7.7.50 ..
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् । विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ ७.७.५१ ॥
भिन्न-आतपत्रम् पतमानम् अस्त्रम् शरैः अपध्वस्त-विनीत-वेषम् । विनिस्सृत-अन्त्रम् भय-लोल-नेत्रम् बलम् तत् उन्मत्ततरम् बभूव ॥ ७।७।५१ ॥
bhinna-ātapatram patamānam astram śaraiḥ apadhvasta-vinīta-veṣam . vinissṛta-antram bhaya-lola-netram balam tat unmattataram babhūva .. 7.7.51 ..
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् । रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ७.७.५२ ॥
सिंह-अर्दितानाम् इव कुञ्जराणाम् निशाचराणाम् सह कुञ्जराणाम् । रवाः च वेगाः च समम् बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ७।७।५२ ॥
siṃha-arditānām iva kuñjarāṇām niśācarāṇām saha kuñjarāṇām . ravāḥ ca vegāḥ ca samam babhūvuḥ purāṇasiṃhena vimarditānām .. 7.7.52 ..
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः । धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ ७.७.५३ ॥
ते वार्यमाणाः हरि-बाण-जालैः स बाण-जालानि समुत्सृजन्तः । धावन्ति नक्तञ्चर-काल-मेघाः वायु-प्रभिन्नाः इव काल-मेघाः ॥ ७।७।५३ ॥
te vāryamāṇāḥ hari-bāṇa-jālaiḥ sa bāṇa-jālāni samutsṛjantaḥ . dhāvanti naktañcara-kāla-meghāḥ vāyu-prabhinnāḥ iva kāla-meghāḥ .. 7.7.53 ..
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः । अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ ७.७.५४ ॥
चक्र-अपहारैः विनिकृत्त-शीर्षाः सञ्चूर्णित-अङ्गाः च गदा-प्रहारैः । अभिप्रहारैः द्विविधाः विभिन्नाः पतन्ति शैलाः इव राक्षस-इन्द्राः ॥ ७।७।५४ ॥
cakra-apahāraiḥ vinikṛtta-śīrṣāḥ sañcūrṇita-aṅgāḥ ca gadā-prahāraiḥ . abhiprahāraiḥ dvividhāḥ vibhinnāḥ patanti śailāḥ iva rākṣasa-indrāḥ .. 7.7.54 ..
विलम्बमानैर्मणिहारकुण्डलै - र्निशाचरैर्नीलबलाहकोपमैः । निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ ७.७.५५ ॥
विलम्बमानैः मणि-हार-कुण्डलैः निशाचरैः नील-बलाहक-उपमैः । निपात्यमानैः ददृशे निरन्तरम् निपात्यमानैः इव नील-पर्वतैः ॥ ७।७।५५ ॥
vilambamānaiḥ maṇi-hāra-kuṇḍalaiḥ niśācaraiḥ nīla-balāhaka-upamaiḥ . nipātyamānaiḥ dadṛśe nirantaram nipātyamānaiḥ iva nīla-parvataiḥ .. 7.7.55 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तमः सर्गः ॥ ७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तमः सर्गः ॥ ७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptamaḥ sargaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In