This overlay will guide you through the buttons:

| |
|
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ ७.७०.१ ॥
हते तु लवणे देवाः स इन्द्राः स अग्नि-पुरोगमाः । ऊचुः सु मधुराम् वाणीम् शत्रुघ्नम् शत्रु-तापनम् ॥ ७।७०।१ ॥
hate tu lavaṇe devāḥ sa indrāḥ sa agni-purogamāḥ . ūcuḥ su madhurām vāṇīm śatrughnam śatru-tāpanam .. 7.70.1 ..
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ ७.७०.२ ॥
दिष्ट्या ते विजयः वत्स दिष्ट्या लवण-राक्षसः । हतः पुरुष-शार्दूल वरम् वरय सुव्रत ॥ ७।७०।२ ॥
diṣṭyā te vijayaḥ vatsa diṣṭyā lavaṇa-rākṣasaḥ . hataḥ puruṣa-śārdūla varam varaya suvrata .. 7.70.2 ..
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ७.७०.३ ॥
वर-दाः तु महा-बाहो सर्वे एव समागताः । विजय-आकाङ्क्षिणः तुभ्यम् अमोघम् दर्शनम् हि नः ॥ ७।७०।३ ॥
vara-dāḥ tu mahā-bāho sarve eva samāgatāḥ . vijaya-ākāṅkṣiṇaḥ tubhyam amogham darśanam hi naḥ .. 7.70.3 ..
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥ ७.७०.४ ॥
देवानाम् भाषितम् श्रुत्वा शूरः मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महा-बाहुः शत्रुघ्नः प्रयत-आत्मवान् ॥ ७।७०।४ ॥
devānām bhāṣitam śrutvā śūraḥ mūrdhni kṛtāñjaliḥ . pratyuvāca mahā-bāhuḥ śatrughnaḥ prayata-ātmavān .. 7.70.4 ..
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ॥ ७.७०.५ ॥
इयम् मधुपुरी रस्या मधुरा देव-निर्मिता । निवेशम् प्राप्नुयात् शीघ्रम् एष मे अस्तु वरः परः ॥ ७।७०।५ ॥
iyam madhupurī rasyā madhurā deva-nirmitā . niveśam prāpnuyāt śīghram eṣa me astu varaḥ paraḥ .. 7.70.5 ..
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ७.७०.६ ॥
तम् देवाः प्रीत-मनसः बाढम् इति एव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ७।७०।६ ॥
tam devāḥ prīta-manasaḥ bāḍham iti eva rāghavam . bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ .. 7.70.6 ..
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ॥ ७.७०.७ ॥
ते तथा उक्त्वा महात्मानः दिवम् आरुरुहुः तदा । शत्रुघ्नः अपि महा-तेजाः ताम् सेनाम् समुपानयत् ॥ ७।७०।७ ॥
te tathā uktvā mahātmānaḥ divam āruruhuḥ tadā . śatrughnaḥ api mahā-tejāḥ tām senām samupānayat .. 7.70.7 ..
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ७.७०.८ ॥
सा सेना शीघ्रम् आगच्छत् श्रुत्वा शत्रुघ्न-शासनम् । निवेशनम् च शत्रुघ्नः श्रावणेन समारभत् ॥ ७।७०।८ ॥
sā senā śīghram āgacchat śrutvā śatrughna-śāsanam . niveśanam ca śatrughnaḥ śrāvaṇena samārabhat .. 7.70.8 ..
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ७.७०.९ ॥
सा पुरा दिव्य-सङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानाम् विषयः च अकुतोभयः ॥ ७।७०।९ ॥
sā purā divya-saṅkāśā varṣe dvādaśame śubhe . niviṣṭā śūrasenānām viṣayaḥ ca akutobhayaḥ .. 7.70.9 ..
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ ७.७०.१० ॥
क्षेत्राणि सस्य-युक्तानि काले वर्षति वासवः । अरोग-वीर-पुरुषा शत्रुघ्न-भुज-पालिता ॥ ७।७०।१० ॥
kṣetrāṇi sasya-yuktāni kāle varṣati vāsavaḥ . aroga-vīra-puruṣā śatrughna-bhuja-pālitā .. 7.70.10 ..
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ ७.७०.११ ॥
अर्धचन्द्र-प्रतीकाशा यमुना-तीर-शोभिता । शोभिताः गृह-मुख्यैः च चत्वर-आपण-वीथिकैः । चातुर्वर्ण्य-समायुक्ता नाना वाणिज्य-शोभिता ॥ ७।७०।११ ॥
ardhacandra-pratīkāśā yamunā-tīra-śobhitā . śobhitāḥ gṛha-mukhyaiḥ ca catvara-āpaṇa-vīthikaiḥ . cāturvarṇya-samāyuktā nānā vāṇijya-śobhitā .. 7.70.11 ..
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥ ७.७०.१२ ॥
यत् च तेन पुरा शुभ्रम् लवणेन कृतम् महत् । तत् शोभयति शत्रुघ्नः नाना वर्ण-उपशोभिताम् ॥ ७।७०।१२ ॥
yat ca tena purā śubhram lavaṇena kṛtam mahat . tat śobhayati śatrughnaḥ nānā varṇa-upaśobhitām .. 7.70.12 ..
आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ॥ ७.७०.१३ ॥
आरामैः च विहारैः च शोभमानम् समन्ततः । शोभिताम् शोभनीयैः च तथा अन्यैः दैव-मानुषैः ॥ ७।७०।१३ ॥
ārāmaiḥ ca vihāraiḥ ca śobhamānam samantataḥ . śobhitām śobhanīyaiḥ ca tathā anyaiḥ daiva-mānuṣaiḥ .. 7.70.13 ..
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥ ७.७०.१४ ॥
ताम् पुरीम् दिव्य-सङ्काशाम् नाना पण्य-उपशोभिताम् । नाना देश-आगतैः च अपि वणिग्भिः उपशोभिताम् ॥ ७।७०।१४ ॥
tām purīm divya-saṅkāśām nānā paṇya-upaśobhitām . nānā deśa-āgataiḥ ca api vaṇigbhiḥ upaśobhitām .. 7.70.14 ..
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ ७.७०.१५ ॥
ताम् समृद्धाम् समृद्ध-अर्थः शत्रुघ्नः भरत-अनुजः । निरीक्ष्य परम-प्रीतः परम् हर्षम् उपागमत् ॥ ७।७०।१५ ॥
tām samṛddhām samṛddha-arthaḥ śatrughnaḥ bharata-anujaḥ . nirīkṣya parama-prītaḥ param harṣam upāgamat .. 7.70.15 ..
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ॥ ७.७०.१६ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुराम् पुरीम् । राम-पादौ निरीक्षे अहम् वर्षे द्वादशे आगते ॥ ७।७०।१६ ॥
tasya buddhiḥ samutpannā niveśya madhurām purīm . rāma-pādau nirīkṣe aham varṣe dvādaśe āgate .. 7.70.16 ..
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ ७.७०.१७ ॥
ततस् स ताम् अमर-पुर-उपमाम् पुरीम् निवेश्य वै विविध-जन-अभिसंवृताम् । नराधिपः रघु-पति-पाद-दर्शने दधे मतिम् रघु-कुल-वंश-वर्धनः ॥ ७।७०।१७ ॥
tatas sa tām amara-pura-upamām purīm niveśya vai vividha-jana-abhisaṃvṛtām . narādhipaḥ raghu-pati-pāda-darśane dadhe matim raghu-kula-vaṃśa-vardhanaḥ .. 7.70.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्ततितमः सर्गः ॥ ७० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptatitamaḥ sargaḥ .. 70 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In