This overlay will guide you through the buttons:

| |
|
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ ७.७१.१ ॥
ततस् द्वादशमे वर्षे शत्रघ्नः राम-पालिताम् । अयोध्याम् चकमे गन्तुम् अल्प-भृत्य-बल-अनुगः ॥ ७।७१।१ ॥
tatas dvādaśame varṣe śatraghnaḥ rāma-pālitām . ayodhyām cakame gantum alpa-bhṛtya-bala-anugaḥ .. 7.71.1 ..
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ ७.७१.२ ॥
ततस् मन्त्रि-पुरोगान् च बल-मुख्यान् निवर्त्य च । जगाम हय-मुख्यैः च रथानाम् च शतेन सः ॥ ७।७१।२ ॥
tatas mantri-purogān ca bala-mukhyān nivartya ca . jagāma haya-mukhyaiḥ ca rathānām ca śatena saḥ .. 7.71.2 ..
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ७.७१.३ ॥
स गत्वा गणितान् वासान् सप्त अष्टौ रघुनन्दनः । वाल्मीकि-आश्रमम् आगत्य वासम् चक्रे महा-यशाः ॥ ७।७१।३ ॥
sa gatvā gaṇitān vāsān sapta aṣṭau raghunandanaḥ . vālmīki-āśramam āgatya vāsam cakre mahā-yaśāḥ .. 7.71.3 ..
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ ७.७१.४ ॥
सः अभिवाद्य ततस् पादौ वाल्मीकेः पुरुष-ऋषभः । पाद्यम् अर्ध्यम् तथा आतिथ्यम् जग्राह मुनि-हस्ततः ॥ ७।७१।४ ॥
saḥ abhivādya tatas pādau vālmīkeḥ puruṣa-ṛṣabhaḥ . pādyam ardhyam tathā ātithyam jagrāha muni-hastataḥ .. 7.71.4 ..
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ७.७१.५ ॥
बहु-रूपाः सु मधुराः कथाः तत्र सहस्रशस् । कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ७।७१।५ ॥
bahu-rūpāḥ su madhurāḥ kathāḥ tatra sahasraśas . kathayāmāsa sa muniḥ śatrughnāya mahātmane .. 7.71.5 ..
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ७.७१.६ ॥
उवाच च मुनिः वाक्यम् लवणस्य वध-आश्रितम् । सु दुष्करम् कृतम् कर्म लवणम् निघ्नता त्वया ॥ ७।७१।६ ॥
uvāca ca muniḥ vākyam lavaṇasya vadha-āśritam . su duṣkaram kṛtam karma lavaṇam nighnatā tvayā .. 7.71.6 ..
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७.७१.७ ॥
बहवः पार्थिवाः सौम्य हताः स बल-वाहनाः । लवणेन महा-बाहो युध्यमानाः महा-बलाः ॥ ७।७१।७ ॥
bahavaḥ pārthivāḥ saumya hatāḥ sa bala-vāhanāḥ . lavaṇena mahā-bāho yudhyamānāḥ mahā-balāḥ .. 7.71.7 ..
स त्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ ७.७१.८ ॥
स त्वया निहतः पापः लीलया पुरुष-ऋषभ । जगतः च भयम् तत्र प्रशान्तम् तव तेजसा ॥ ७।७१।८ ॥
sa tvayā nihataḥ pāpaḥ līlayā puruṣa-ṛṣabha . jagataḥ ca bhayam tatra praśāntam tava tejasā .. 7.71.8 ..
रावणस्य वधो घोरो यत्नेन महता कृतः । इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ७.७१.९ ॥
रावणस्य वधः घोरः यत्नेन महता कृतः । इदम् तु सु महत् कर्म त्वया कृतम् अयत्नतः ॥ ७।७१।९ ॥
rāvaṇasya vadhaḥ ghoraḥ yatnena mahatā kṛtaḥ . idam tu su mahat karma tvayā kṛtam ayatnataḥ .. 7.71.9 ..
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ ७.७१.१० ॥
प्रीतिः च अस्मिन् परा जाता देवानाम् लवणे हते । भूतानाम् च एव सर्वेषाम् जगतः च प्रियम् कृतम् ॥ ७।७१।१० ॥
prītiḥ ca asmin parā jātā devānām lavaṇe hate . bhūtānām ca eva sarveṣām jagataḥ ca priyam kṛtam .. 7.71.10 ..
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ । सभायां वासवस्याथ उपविष्टेन राघव ॥ ७.७१.११ ॥
तत् च युद्धम् मया दृष्टम् यथावत् पुरुष-ऋषभ । सभायाम् वासवस्य अथ उपविष्टेन राघव ॥ ७।७१।११ ॥
tat ca yuddham mayā dṛṣṭam yathāvat puruṣa-ṛṣabha . sabhāyām vāsavasya atha upaviṣṭena rāghava .. 7.71.11 ..
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ ७.७१.१२ ॥
मम अपि परमा प्रीतिः हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्य एषा परा गतिः ॥ ७।७१।१२ ॥
mama api paramā prītiḥ hṛdi śatrughna vartate . upāghrāsyāmi te mūrdhni snehasya eṣā parā gatiḥ .. 7.71.12 ..
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ ७.७१.१३ ॥
इति उक्त्वा मूर्ध्नि शत्रुघ्नम् उपाघ्राय महा-मुनिः । आतिथ्यम् अकरोत् तस्य ये च तस्य पदानुगाः ॥ ७।७१।१३ ॥
iti uktvā mūrdhni śatrughnam upāghrāya mahā-muniḥ . ātithyam akarot tasya ye ca tasya padānugāḥ .. 7.71.13 ..
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥ ७.७१.१४ ॥
स भुक्तवान् नर-श्रेष्ठः गीत-माधुर्यम् उत्तमम् । शुश्राव राम-चरितम् तस्मिन् काले ॥ ७।७१।१४ ॥
sa bhuktavān nara-śreṣṭhaḥ gīta-mādhuryam uttamam . śuśrāva rāma-caritam tasmin kāle .. 7.71.14 ..
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् । शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ ७.७१.१५ ॥
तन्त्री-लय-समायुक्तम् त्रि-स्थान-करण-अन्वितम् । संस्कृतम् लक्षण-उपेतम् सम-ताल-समन्वितम् । शुश्राव राम-चरितम् तस्मिन् काले पुरा कृतम् ॥ ७।७१।१५ ॥
tantrī-laya-samāyuktam tri-sthāna-karaṇa-anvitam . saṃskṛtam lakṣaṇa-upetam sama-tāla-samanvitam . śuśrāva rāma-caritam tasmin kāle purā kṛtam .. 7.71.15 ..
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः । श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥ ७.७१.१६ ॥
तानि अक्षराणि सत्यानि यथावृत्तानि पूर्वशस् । श्रुत्वा पुरुष-शार्दूलः विसञ्ज्ञः बाष्प-लोचनः ॥ ७।७१।१६ ॥
tāni akṣarāṇi satyāni yathāvṛttāni pūrvaśas . śrutvā puruṣa-śārdūlaḥ visañjñaḥ bāṣpa-locanaḥ .. 7.71.16 ..
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः । तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ ७.७१.१७ ॥
स मुहूर्तम् इव असञ्ज्ञः विनिःश्वस्य मुहुर् मुहुर् । तस्मिन् गीते यथावृत्तम् वर्तमानम् इव अशृणोत् ॥ ७।७१।१७ ॥
sa muhūrtam iva asañjñaḥ viniḥśvasya muhur muhur . tasmin gīte yathāvṛttam vartamānam iva aśṛṇot .. 7.71.17 ..
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् । अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥ ७.७१.१८ ॥
पदानुगाः च ये राज्ञः ताम् श्रुत्वा गीति-सम्पदम् । अवाङ्मुखाः च दीनाः च हि आश्चर्यम् इति च अब्रुवन् ॥ ७।७१।१८ ॥
padānugāḥ ca ye rājñaḥ tām śrutvā gīti-sampadam . avāṅmukhāḥ ca dīnāḥ ca hi āścaryam iti ca abruvan .. 7.71.18 ..
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे । किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ ७.७१.१९ ॥
परस्परम् च ये तत्र सैनिकाः सम्बभाषिरे । किम् इदम् क्व च वर्तामः किम् एतत् स्वप्न-दर्शनम् ॥ ७।७१।१९ ॥
parasparam ca ye tatra sainikāḥ sambabhāṣire . kim idam kva ca vartāmaḥ kim etat svapna-darśanam .. 7.71.19 ..
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः । शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥ ७.७१.२० ॥
अर्थः यः नः पुरा दृष्टः तम् आश्रम-पदे पुनर् । शृणुमः किम् इदम् स्वप्नः गीत-बन्धम् श्रियः भवेत् ॥ ७।७१।२० ॥
arthaḥ yaḥ naḥ purā dṛṣṭaḥ tam āśrama-pade punar . śṛṇumaḥ kim idam svapnaḥ gīta-bandham śriyaḥ bhavet .. 7.71.20 ..
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् । साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ ७.७१.२१ ॥
विस्मयम् ते परम् गत्वा शत्रुघ्नम् इदम् अब्रुवन् । साधु पृच्छ नर-श्रेष्ठ वाल्मीकिम् मुनि-पुङ्गवम् ॥ ७।७१।२१ ॥
vismayam te param gatvā śatrughnam idam abruvan . sādhu pṛccha nara-śreṣṭha vālmīkim muni-puṅgavam .. 7.71.21 ..
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् । सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ॥ ७.७१.२२ ॥
शत्रुघ्नः तु अब्रवीत् सर्वान् कौतूहल-समन्वितान् । सैनिकाः न क्षमः अस्माकम् परिप्रष्टुम् इह ईदृशः ॥ ७।७१।२२ ॥
śatrughnaḥ tu abravīt sarvān kautūhala-samanvitān . sainikāḥ na kṣamaḥ asmākam paripraṣṭum iha īdṛśaḥ .. 7.71.22 ..
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः । न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ ७.७१.२३ ॥
आश्चर्याणि बहूनि इह भवन्ति अस्य आश्रमे मुनेः । न तु कौतूहल-आदि-उक्तम् अन्वेष्टुम् तम् महा-मुनिम् ॥ ७।७१।२३ ॥
āścaryāṇi bahūni iha bhavanti asya āśrame muneḥ . na tu kautūhala-ādi-uktam anveṣṭum tam mahā-munim .. 7.71.23 ..
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः । अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ ७.७१.२४ ॥
एवम् तद्-वाक्यम् उक्त्वा च सैनिकान् रघुनन्दनः । अभिवाद्य महा-ऋषिम् तम् स्वम् निवेशम् ययौ तदा ॥ ७।७१।२४ ॥
evam tad-vākyam uktvā ca sainikān raghunandanaḥ . abhivādya mahā-ṛṣim tam svam niveśam yayau tadā .. 7.71.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकसप्ततिमः सर्गः ॥ ७१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकसप्ततिमः सर्गः ॥ ७१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekasaptatimaḥ sargaḥ .. 71 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In