This overlay will guide you through the buttons:

| |
|
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा । चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ ७.७२.१ ॥
तम् शयानम् नर-व्याघ्रम् निद्रा न अभ्यागमत् तदा । चिन्तयन्तम् अनेक-अर्थम् राम-गीतम् अनुत्तमम् ॥ ७।७२।१ ॥
tam śayānam nara-vyāghram nidrā na abhyāgamat tadā . cintayantam aneka-artham rāma-gītam anuttamam .. 7.72.1 ..
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् । श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ ७.७२.२ ॥
तस्य शब्दम् सु मधुरम् तन्त्री-लय-समन्वितम् । श्रुत्वा रात्रिः जगाम आशु शत्रुघ्नस्य महात्मनः ॥ ७।७२।२ ॥
tasya śabdam su madhuram tantrī-laya-samanvitam . śrutvā rātriḥ jagāma āśu śatrughnasya mahātmanaḥ .. 7.72.2 ..
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् । उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ७.७२.३ ॥
तस्याम् निशायाम् व्युष्टायाम् कृत्वा पौर्वाह्णिकम् क्रमम् । उवाच प्राञ्जलिः वाक्यम् शत्रुघ्नः मुनि-पुङ्गवम् ॥ ७।७२।३ ॥
tasyām niśāyām vyuṣṭāyām kṛtvā paurvāhṇikam kramam . uvāca prāñjaliḥ vākyam śatrughnaḥ muni-puṅgavam .. 7.72.3 ..
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् । त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ७.७२.४ ॥
भगवन् द्रष्टुम् इच्छामि राघवम् रघुनन्दनम् । त्वया अनुज्ञातुम् इच्छामि सह एभिः संशित-व्रतैः ॥ ७।७२।४ ॥
bhagavan draṣṭum icchāmi rāghavam raghunandanam . tvayā anujñātum icchāmi saha ebhiḥ saṃśita-vrataiḥ .. 7.72.4 ..
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् । वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥ ७.७२.५ ॥
इति एवम् वादिनम् तम् तु शत्रुघ्नम् शत्रु-तापनम् । वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥ ७।७२।५ ॥
iti evam vādinam tam tu śatrughnam śatru-tāpanam . vālmīkiḥ sampariṣvajya visasarja ca rāghavam .. 7.72.5 ..
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् । अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ७.७२.६ ॥
सः अभिवाद्य मुनि-श्रेष्ठम् रथम् आरुह्य सु प्रभम् । अयोध्याम् अगमत् तूर्णम् राघव-उत्सुक-दर्शनः ॥ ७।७२।६ ॥
saḥ abhivādya muni-śreṣṭham ratham āruhya su prabham . ayodhyām agamat tūrṇam rāghava-utsuka-darśanaḥ .. 7.72.6 ..
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः । प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७.७२.७ ॥
स प्रविष्टः पुरीम् रम्याम् श्रीमान् इक्ष्वाकु-नन्दनः । प्रविवेश महा-बाहुः यत्र रामः महा-द्युतिः ॥ ७।७२।७ ॥
sa praviṣṭaḥ purīm ramyām śrīmān ikṣvāku-nandanaḥ . praviveśa mahā-bāhuḥ yatra rāmaḥ mahā-dyutiḥ .. 7.72.7 ..
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् । पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ७.७२.८ ॥
स रामम् मन्त्रि-मध्य-स्थम् पूर्ण-चन्द्र-निभ-आननम् । पश्यन् अमर-मध्य-स्थम् सहस्रनयनम् यथा ॥ ७।७२।८ ॥
sa rāmam mantri-madhya-stham pūrṇa-candra-nibha-ānanam . paśyan amara-madhya-stham sahasranayanam yathā .. 7.72.8 ..
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ७.७२.९ ॥
सः अभिवाद्य महात्मानम् ज्वलन्तम् इव तेजसा । उवाच प्राञ्जलिः वाक्यम् रामम् सत्य-पराक्रमम् ॥ ७।७२।९ ॥
saḥ abhivādya mahātmānam jvalantam iva tejasā . uvāca prāñjaliḥ vākyam rāmam satya-parākramam .. 7.72.9 ..
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् । हतः स लवणः पापः पुरी चास्य निवेशिता ॥ ७.७२.१० ॥
यत् आज्ञप्तम् महा-राज सर्वम् तत् कृतवान् अहम् । हतः स लवणः पापः पुरी च अस्य निवेशिता ॥ ७।७२।१० ॥
yat ājñaptam mahā-rāja sarvam tat kṛtavān aham . hataḥ sa lavaṇaḥ pāpaḥ purī ca asya niveśitā .. 7.72.10 ..
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन । नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ७.७२.११ ॥
द्वादश एते गताः वर्षाः त्वाम् विना रघुनन्दन । न उत्सहेयम् अहम् वस्तुम् त्वया विरहितः नृप ॥ ७।७२।११ ॥
dvādaśa ete gatāḥ varṣāḥ tvām vinā raghunandana . na utsaheyam aham vastum tvayā virahitaḥ nṛpa .. 7.72.11 ..
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम । मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ ७.७२.१२ ॥
स मे प्रसादम् काकुत्स्थ कुरुष्व अमित-विक्रम । मातृ-हीनः यथा वत्सः न चिरम् प्रवसामि अहम् ॥ ७।७२।१२ ॥
sa me prasādam kākutstha kuruṣva amita-vikrama . mātṛ-hīnaḥ yathā vatsaḥ na ciram pravasāmi aham .. 7.72.12 ..
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् । मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ ७.७२.१३ ॥
एवम् ब्रुवाणम् शत्रुघ्नम् परिष्वज्य इदम् अब्रवीत् । मा विषादम् कृथाः शूर न एतत् क्षत्रिय-चेष्टितम् ॥ ७।७२।१३ ॥
evam bruvāṇam śatrughnam pariṣvajya idam abravīt . mā viṣādam kṛthāḥ śūra na etat kṣatriya-ceṣṭitam .. 7.72.13 ..
नावसीदन्ति राजानो विप्रवासेषु राघव । प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ ७.७२.१४ ॥
न अवसीदन्ति राजानः विप्रवासेषु राघव । प्रजाः नः परिपाल्याः हि क्षत्र-धर्मेण राघव ॥ ७।७२।१४ ॥
na avasīdanti rājānaḥ vipravāseṣu rāghava . prajāḥ naḥ paripālyāḥ hi kṣatra-dharmeṇa rāghava .. 7.72.14 ..
काले काले तु मां वीर अयोध्यामवलोकितुम् । आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ ७.७२.१५ ॥
काले काले तु माम् वीर अयोध्याम् अवलोकितुम् । आगच्छ त्वम् नर-श्रेष्ठ गन्तासि च पुरम् तव ॥ ७।७२।१५ ॥
kāle kāle tu mām vīra ayodhyām avalokitum . āgaccha tvam nara-śreṣṭha gantāsi ca puram tava .. 7.72.15 ..
ममापि त्वं सुदयितः प्राणैरपि न संशयः । अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ ७.७२.१६ ॥
मम अपि त्वम् सु दयितः प्राणैः अपि न संशयः । अवश्यम् करणीयम् च राज्यस्य परिपालनम् ॥ ७।७२।१६ ॥
mama api tvam su dayitaḥ prāṇaiḥ api na saṃśayaḥ . avaśyam karaṇīyam ca rājyasya paripālanam .. 7.72.16 ..
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ ७.७२.१७ ॥
तस्मात् त्वम् वस काकुत्स्थ सप्त-रात्रम् इह आवस । ऊर्ध्वम् गन्तासि मधुराम् स भृत्य-बल-वाहनः ॥ ७।७२।१७ ॥
tasmāt tvam vasa kākutstha sapta-rātram iha āvasa . ūrdhvam gantāsi madhurām sa bhṛtya-bala-vāhanaḥ .. 7.72.17 ..
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् । शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ ७.७२.१८ ॥
रामस्य एतत् वचः श्रुत्वा धर्म-युक्तम् मनोगतम् । शत्रुघ्नः दीनया वाचा बाढम् इति एव च अब्रवीत् ॥ ७।७२।१८ ॥
rāmasya etat vacaḥ śrutvā dharma-yuktam manogatam . śatrughnaḥ dīnayā vācā bāḍham iti eva ca abravīt .. 7.72.18 ..
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया । उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ ७.७२.१९ ॥
सप्त-रात्रम् च काकुत्स्थः राघवस्य यथा आज्ञया । उष्य तत्र महा-इष्वासः गमनाय उपचक्रमे ॥ ७।७२।१९ ॥
sapta-rātram ca kākutsthaḥ rāghavasya yathā ājñayā . uṣya tatra mahā-iṣvāsaḥ gamanāya upacakrame .. 7.72.19 ..
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ ७.७२.२० ॥
आमन्त्र्य तु महात्मानम् रामम् सत्य-पराक्रमम् । भरतम् लक्ष्मणम् च एव महा-रथम् उपारुहत् ॥ ७।७२।२० ॥
āmantrya tu mahātmānam rāmam satya-parākramam . bharatam lakṣmaṇam ca eva mahā-ratham upāruhat .. 7.72.20 ..
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ ७.७२.२१ ॥
दूरम् आभ्याम् अनुगतः लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नः जगाम आशु पुरम् ततस् ॥ ७।७२।२१ ॥
dūram ābhyām anugataḥ lakṣmaṇena mahātmanā . bharatena ca śatrughnaḥ jagāma āśu puram tatas .. 7.72.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvisaptatitamaḥ sargaḥ .. 72 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In