This overlay will guide you through the buttons:

| |
|
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ ७.७३.१ ॥
प्रस्थाप्य तु स शत्रुघ्नम् भ्रातृभ्याम् सह राघवः । प्रमुमोद सुखी राज्यम् धर्मेण परिपालयन् ॥ ७।७३।१ ॥
prasthāpya tu sa śatrughnam bhrātṛbhyām saha rāghavaḥ . pramumoda sukhī rājyam dharmeṇa paripālayan .. 7.73.1 ..
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः । मृतं बालमुपादाय राजद्वारमुपागमत् ॥ ७.७३.२ ॥
ततस् कतिपय-अहःसु वृद्धः जानपदः द्विजः । मृतम् बालम् उपादाय राज-द्वारम् उपागमत् ॥ ७।७३।२ ॥
tatas katipaya-ahaḥsu vṛddhaḥ jānapadaḥ dvijaḥ . mṛtam bālam upādāya rāja-dvāram upāgamat .. 7.73.2 ..
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः । असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ७.७३.३ ॥
रुदन् बहुविधाः वाचः स्नेह-दुःख-समन्विताः । असकृत् पुत्र पुत्र इति वाक्यम् एतत् उवाच ह ॥ ७।७३।३ ॥
rudan bahuvidhāḥ vācaḥ sneha-duḥkha-samanvitāḥ . asakṛt putra putra iti vākyam etat uvāca ha .. 7.73.3 ..
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ७.७३.४ ॥
किम् नु मे दुष्कृतम् कर्म पुरा देह-अन्तरे कृतम् । यत् अहम् पुत्रम् एकम् त्वाम् पश्यामि निधनम् गतम् ॥ ७।७३।४ ॥
kim nu me duṣkṛtam karma purā deha-antare kṛtam . yat aham putram ekam tvām paśyāmi nidhanam gatam .. 7.73.4 ..
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् । अकाले कालमापन्नं मम दुःखाय पुत्रक ॥ ७.७३.५ ॥
अप्राप्त-यौवनम् बालम् पञ्च-वर्ष-सहस्रकम् । अकाले कालम् आपन्नम् मम दुःखाय पुत्रक ॥ ७।७३।५ ॥
aprāpta-yauvanam bālam pañca-varṣa-sahasrakam . akāle kālam āpannam mama duḥkhāya putraka .. 7.73.5 ..
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः । अहं च जननी चैव तव शोकेन पुत्रक ॥ ७.७३.६ ॥
अल्पैः अहोभिः निधनम् गमिष्यामि न संशयः । अहम् च जननी च एव तव शोकेन पुत्रक ॥ ७।७३।६ ॥
alpaiḥ ahobhiḥ nidhanam gamiṣyāmi na saṃśayaḥ . aham ca jananī ca eva tava śokena putraka .. 7.73.6 ..
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ ७.७३.७ ॥
न स्मरामि अनृतम् हि उक्तम् न च हिंसाम् स्मरामि अहम् । सर्वेषाम् प्राणिनाम् पापम् कृतम् ना एव स्मरामि अहम् ॥ ७।७३।७ ॥
na smarāmi anṛtam hi uktam na ca hiṃsām smarāmi aham . sarveṣām prāṇinām pāpam kṛtam nā eva smarāmi aham .. 7.73.7 ..
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ७.७३.८ ॥
केन अद्य दुष्कृतेन अयम् बालः एव मम आत्मजः । अ कृत्वा पितृकार्याणि गतः वैवस्वत-क्षयम् ॥ ७।७३।८ ॥
kena adya duṣkṛtena ayam bālaḥ eva mama ātmajaḥ . a kṛtvā pitṛkāryāṇi gataḥ vaivasvata-kṣayam .. 7.73.8 ..
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् । मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ७.७३.९ ॥
न ईदृशम् दृष्ट-पूर्वम् मे श्रुतम् वा घोर-दर्शनम् । मृत्युः अप्राप्त-कालानाम् रामस्य विषये यथा ॥ ७।७३।९ ॥
na īdṛśam dṛṣṭa-pūrvam me śrutam vā ghora-darśanam . mṛtyuḥ aprāpta-kālānām rāmasya viṣaye yathā .. 7.73.9 ..
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः । यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ ७.७३.१० ॥
रामस्य दुष्कृतम् किञ्चिद् महत् अस्ति न संशयः । यथा हि विषय-स्थानाम् बालानाम् मृत्युः आगतः ॥ ७।७३।१० ॥
rāmasya duṣkṛtam kiñcid mahat asti na saṃśayaḥ . yathā hi viṣaya-sthānām bālānām mṛtyuḥ āgataḥ .. 7.73.10 ..
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् । त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ७.७३.११ ॥
न हि अन्य-विषय-स्थानाम् बालानाम् मृत्युतः भयम् । त्वम् राजन् जीवयस्व एनम् बालम् मृत्यु-वशम् गतम् ॥ ७।७३।११ ॥
na hi anya-viṣaya-sthānām bālānām mṛtyutaḥ bhayam . tvam rājan jīvayasva enam bālam mṛtyu-vaśam gatam .. 7.73.11 ..
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् । ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ ७.७३.१२ ॥
राज-द्वारि मरिष्यामि पत्न्या सार्धम् अनाथ-वत् । ब्रह्महत्याम् ततस् राम समुपेत्य सुखी भव ॥ ७।७३।१२ ॥
rāja-dvāri mariṣyāmi patnyā sārdham anātha-vat . brahmahatyām tatas rāma samupetya sukhī bhava .. 7.73.12 ..
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि । उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥ ७.७३.१३ ॥
भ्रातृभिः सहितः राजन् दीर्घम् आयुः अवाप्स्यसि । उषिताः स्म सुखम् राज्ये तव अस्मिन् सु महा-बल ॥ ७।७३।१३ ॥
bhrātṛbhiḥ sahitaḥ rājan dīrgham āyuḥ avāpsyasi . uṣitāḥ sma sukham rājye tava asmin su mahā-bala .. 7.73.13 ..
इदं तु पतितं तस्मात्तव राम वशे स्थिताः । कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥ ७.७३.१४ ॥
इदम् तु पतितम् तस्मात् तव राम वशे स्थिताः । कालस्य वशम् आपन्नाः सु अल्पम् हि नहि नः सुखम् ॥ ७।७३।१४ ॥
idam tu patitam tasmāt tava rāma vaśe sthitāḥ . kālasya vaśam āpannāḥ su alpam hi nahi naḥ sukham .. 7.73.14 ..
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् । रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ ७.७३.१५ ॥
सम्प्रति अनाथः विषयः इक्ष्वाकूणाम् महात्मनाम् । रामम् नाथम् इह आसाद्य बाल-अन्त-करणम् ध्रुवम् ॥ ७।७३।१५ ॥
samprati anāthaḥ viṣayaḥ ikṣvākūṇām mahātmanām . rāmam nātham iha āsādya bāla-anta-karaṇam dhruvam .. 7.73.15 ..
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः । असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥ ७.७३.१६ ॥
राज-दोषैः विपद्यन्ते प्रजाः हि अविधि-पालिताः । असत्-वृत्ते तु नृपतौ अकाले म्रियते जनः ॥ ७।७३।१६ ॥
rāja-doṣaiḥ vipadyante prajāḥ hi avidhi-pālitāḥ . asat-vṛtte tu nṛpatau akāle mriyate janaḥ .. 7.73.16 ..
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च । कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ॥ ७.७३.१७ ॥
यत् वा पुरेषु अयुक्तानि जनाः जनपदेषु च । कुर्वते न च रक्षाः अस्ति तदा काल-कृतम् भयम् ॥ ७।७३।१७ ॥
yat vā pureṣu ayuktāni janāḥ janapadeṣu ca . kurvate na ca rakṣāḥ asti tadā kāla-kṛtam bhayam .. 7.73.17 ..
सुव्यक्तं राजदोषो हि भविष्यति न संशयः । पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ ७.७३.१८ ॥
सु व्यक्तम् राज-दोषः हि भविष्यति न संशयः । पुरे जनपदे च अपि ततस् बाल-वधः हि अयम् ॥ ७।७३।१८ ॥
su vyaktam rāja-doṣaḥ hi bhaviṣyati na saṃśayaḥ . pure janapade ca api tatas bāla-vadhaḥ hi ayam .. 7.73.18 ..
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः । राजानं दुःखसन्तप्तः सुतं तमुपगूहते ॥ ७.७३.१९ ॥
एवम् बहुविधैः वाक्यैः उपरुध्य मुहुर् मुहुर् । राजानम् दुःख-सन्तप्तः सुतम् तम् उपगूहते ॥ ७।७३।१९ ॥
evam bahuvidhaiḥ vākyaiḥ uparudhya muhur muhur . rājānam duḥkha-santaptaḥ sutam tam upagūhate .. 7.73.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe trisaptatitamaḥ sargaḥ .. 73 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In