This overlay will guide you through the buttons:

| |
|
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ ७.७४.१ ॥
तथा तु करुणम् तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वम् दुःख-शोक-समन्वितम् ॥ ७।७४।१ ॥
tathā tu karuṇam tasya dvijasya paridevanam . śuśrāva rāghavaḥ sarvam duḥkha-śoka-samanvitam .. 7.74.1 ..
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥ ७.७४.२ ॥
स दुःखेन च सन्तप्तः मन्त्रिणः तान् उपाह्वयत् । वसिष्ठम् वामदेवम् च भ्रातरौ सह नैगमान् ॥ ७।७४।२ ॥
sa duḥkhena ca santaptaḥ mantriṇaḥ tān upāhvayat . vasiṣṭham vāmadevam ca bhrātarau saha naigamān .. 7.74.2 ..
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ॥ ७.७४.३ ॥
ततस् द्विजाः वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः । राजानम् देव-सङ्काशम् वर्धस्व इति ततस् अब्रुवन् ॥ ७।७४।३ ॥
tatas dvijāḥ vasiṣṭhena sārdham aṣṭau praveśitāḥ . rājānam deva-saṅkāśam vardhasva iti tatas abruvan .. 7.74.3 ..
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥ ७.७४.४ ॥
मार्कण्डेयः अथ मौद्गल्यः वामदेवः च काश्यपः । कात्यायनः अथ जाबालिः गौतमः नारदः तथा । एते द्विजर्षभाः सर्वे आसनेषु उपवेशिताः ॥ ७।७४।४ ॥
mārkaṇḍeyaḥ atha maudgalyaḥ vāmadevaḥ ca kāśyapaḥ . kātyāyanaḥ atha jābāliḥ gautamaḥ nāradaḥ tathā . ete dvijarṣabhāḥ sarve āsaneṣu upaveśitāḥ .. 7.74.4 ..
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ७.७४.५ ॥
महा-ऋषीन् समनुप्राप्तान् अभिवाद्य कृताञ्जलिः । मन्त्रिणः नैगमान् च एव यथार्हम् अनुकूलतः ॥ ७।७४।५ ॥
mahā-ṛṣīn samanuprāptān abhivādya kṛtāñjaliḥ . mantriṇaḥ naigamān ca eva yathārham anukūlataḥ .. 7.74.5 ..
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ॥ ७.७४.६ ॥
तेषाम् समुपविष्टानाम् सर्वेषाम् दीप्त-तेजसाम् । राघवः सर्वम् आचष्टे द्विजः अयम् उपरोधते ॥ ७।७४।६ ॥
teṣām samupaviṣṭānām sarveṣām dīpta-tejasām . rāghavaḥ sarvam ācaṣṭe dvijaḥ ayam uparodhate .. 7.74.6 ..
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥ ७.७४.७ ॥
तस्य तत् वचनम् श्रुत्वा राज्ञः दीनस्य नारदः । प्रत्युवाच शुभम् वाक्यम् ऋषीणाम् सन्निधौ नृपम् ॥ ७।७४।७ ॥
tasya tat vacanam śrutvā rājñaḥ dīnasya nāradaḥ . pratyuvāca śubham vākyam ṛṣīṇām sannidhau nṛpam .. 7.74.7 ..
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥ ७.७४.८ ॥
शृणु राजन् यथा काले प्राप्तः बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यताम् राजन् कुरुषु अरघुनन्दन ॥ ७।७४।८ ॥
śṛṇu rājan yathā kāle prāptaḥ bālasya saṅkṣayaḥ . śrutvā kartavyatām rājan kuruṣu araghunandana .. 7.74.8 ..
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥ ७.७४.९ ॥
पुरा कृत-युगे राजन् ब्राह्मणाः वै तपस्विनः । अब्राह्मणः तदा राजन् न तपस्वी कथञ्चन ॥ ७।७४।९ ॥
purā kṛta-yuge rājan brāhmaṇāḥ vai tapasvinaḥ . abrāhmaṇaḥ tadā rājan na tapasvī kathañcana .. 7.74.9 ..
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ ७.७४.१० ॥
तस्मिन् युगे प्रज्वलिते ब्रह्म-भूते तु अनावृते । अमृत्यवः तदा सर्वे जज्ञिरे दीर्घ-दर्शिनः ॥ ७।७४।१० ॥
tasmin yuge prajvalite brahma-bhūte tu anāvṛte . amṛtyavaḥ tadā sarve jajñire dīrgha-darśinaḥ .. 7.74.10 ..
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ॥ ७.७४.११ ॥
ततस् त्रेता-युगम् नाम मानवानाम् वपुष्मताम् । क्षत्रियाः तत्र जायन्ते पूर्णेन तपसा अन्विताः ॥ ७।७४।११ ॥
tatas tretā-yugam nāma mānavānām vapuṣmatām . kṣatriyāḥ tatra jāyante pūrṇena tapasā anvitāḥ .. 7.74.11 ..
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ ७.७४.१२ ॥
वीर्येण तपसा च एव ते अधिकाः पूर्व-जन्मनि । मानवाः ये महात्मानः तु अत्र त्रेता-युगे युगे ॥ ७।७४।१२ ॥
vīryeṇa tapasā ca eva te adhikāḥ pūrva-janmani . mānavāḥ ye mahātmānaḥ tu atra tretā-yuge yuge .. 7.74.12 ..
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ ७.७४.१३ ॥
ब्रह्म-क्षत्रम् च तत् सर्वम् यत् पूर्वम् अपरम् च यत् । युगयोः उभयोः आसीत् सम-वीर्य-समन्वितम् ॥ ७।७४।१३ ॥
brahma-kṣatram ca tat sarvam yat pūrvam aparam ca yat . yugayoḥ ubhayoḥ āsīt sama-vīrya-samanvitam .. 7.74.13 ..
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥ ७.७४.१४ ॥
अपश्यन् तु न ते सर्वे विशेषम् अधिकम् ततस् । स्थापनम् चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥ ७।७४।१४ ॥
apaśyan tu na te sarve viśeṣam adhikam tatas . sthāpanam cakrire tatra cāturvarṇyasya sammatam .. 7.74.14 ..
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ ७.७४.१५ ॥
तस्मिन् युगे प्रज्वलिते धर्म-भूते हि अनावृते । अधर्मः पादम् एकम् तु पातयत् पृथिवी-तले ॥ ७।७४।१५ ॥
tasmin yuge prajvalite dharma-bhūte hi anāvṛte . adharmaḥ pādam ekam tu pātayat pṛthivī-tale .. 7.74.15 ..
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ ७.७४.१६ ॥
अधर्मेण हि संयुक्तः तेजः मन्दम् भविष्यति ॥ ७।७४।१६ ॥
adharmeṇa hi saṃyuktaḥ tejaḥ mandam bhaviṣyati .. 7.74.16 ..
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ ७.७४.१७ ॥
आमिषम् यत् च पूर्वेषाम् राजसम् च मलम् भृशम् । अनृतम् नाम तत् भूतम् पादेन पृथिवी-तले ॥ ७।७४।१७ ॥
āmiṣam yat ca pūrveṣām rājasam ca malam bhṛśam . anṛtam nāma tat bhūtam pādena pṛthivī-tale .. 7.74.17 ..
अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ ७.७४.१८ ॥
अनृतम् पातयित्वा तु पादम् एकम् अधर्मतः । ततस् प्रादुष्कृतम् पूर्वम् आयुषः परिनिष्ठितम् ॥ ७।७४।१८ ॥
anṛtam pātayitvā tu pādam ekam adharmataḥ . tatas prāduṣkṛtam pūrvam āyuṣaḥ pariniṣṭhitam .. 7.74.18 ..
पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥ ७.७४.१९ ॥
पतिते तु अनृते तस्मिन् अधर्मे च मही-तले । शुभानि एव अचरन् लोकः सत्य-धर्म-परायणः ॥ ७।७४।१९ ॥
patite tu anṛte tasmin adharme ca mahī-tale . śubhāni eva acaran lokaḥ satya-dharma-parāyaṇaḥ .. 7.74.19 ..
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ ७.७४.२० ॥
त्रेता-युगे च वर्तन्ते ब्राह्मणाः क्षत्रियाः च ये । तपः अतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः ॥ ७।७४।२० ॥
tretā-yuge ca vartante brāhmaṇāḥ kṣatriyāḥ ca ye . tapaḥ atapyanta te sarve śuśrūṣām apare janāḥ .. 7.74.20 ..
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ ७.७४.२१ ॥
स धर्मः परमः तेषाम् वैश्य-शूद्रम् समागमत् । पूजाम् च सर्व-वर्णानाम् शूद्राः चक्रुः विशेषतः ॥ ७।७४।२१ ॥
sa dharmaḥ paramaḥ teṣām vaiśya-śūdram samāgamat . pūjām ca sarva-varṇānām śūdrāḥ cakruḥ viśeṣataḥ .. 7.74.21 ..
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ ७.७४.२२ ॥
एतस्मिन् अन्तरे तेषाम् अधर्मे च अनृते च ह । ततस् पूर्वे भृशम् ह्रासम् अगमन् नृप-सत्तम ॥ ७।७४।२२ ॥
etasmin antare teṣām adharme ca anṛte ca ha . tatas pūrve bhṛśam hrāsam agaman nṛpa-sattama .. 7.74.22 ..
ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ॥ ७.७४.२३ ॥
ततस् पादम् अधर्मः स द्वितीयम् अवतारयत् । ततस् द्वापर-सञ्ज्ञा अस्य युगस्य समजायत ॥ ७।७४।२३ ॥
tatas pādam adharmaḥ sa dvitīyam avatārayat . tatas dvāpara-sañjñā asya yugasya samajāyata .. 7.74.23 ..
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ ७.७४.२४ ॥
तस्मिन् द्वापर-सञ्ज्ञे तु वर्तमाने युग-क्षये । अधर्मः च अनृतम् च एव ववृधे पुरुष-ऋषभ ॥ ७।७४।२४ ॥
tasmin dvāpara-sañjñe tu vartamāne yuga-kṣaye . adharmaḥ ca anṛtam ca eva vavṛdhe puruṣa-ṛṣabha .. 7.74.24 ..
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ ७.७४.२५ ॥
तस्मिन् द्वापर-सङ्ख्याते तपः वैश्यान् समाविशत् । त्रिभ्यः युगेभ्यः त्रीन् वर्णान् क्रमात् वै तपः आविशत् ॥ ७।७४।२५ ॥
tasmin dvāpara-saṅkhyāte tapaḥ vaiśyān samāviśat . tribhyaḥ yugebhyaḥ trīn varṇān kramāt vai tapaḥ āviśat .. 7.74.25 ..
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ ७.७४.२६ ॥
त्रिभ्यः युगेभ्यः त्रीन् वर्णान् धर्मः च परिनिष्ठितः । न शुद्धः लभते धर्मम् युगतः तु नर-ऋषभ । हीन-वर्णः नृप-श्रेष्ठ तप्यते सु महत् तपः ॥ ७।७४।२६ ॥
tribhyaḥ yugebhyaḥ trīn varṇān dharmaḥ ca pariniṣṭhitaḥ . na śuddhaḥ labhate dharmam yugataḥ tu nara-ṛṣabha . hīna-varṇaḥ nṛpa-śreṣṭha tapyate su mahat tapaḥ .. 7.74.26 ..
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥ ७.७४.२७ ॥
भविष्यत्-शूद्र-योन्याम् वै तपः-चर्या कलौ युगे । अधर्मः परमः राजन् द्वापरे शूद्रजन्मनः ॥ ७।७४।२७ ॥
bhaviṣyat-śūdra-yonyām vai tapaḥ-caryā kalau yuge . adharmaḥ paramaḥ rājan dvāpare śūdrajanmanaḥ .. 7.74.27 ..
स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ ७.७४.२८ ॥
स वै विषय-पर्यन्ते तव राजन् महा-तपाः । अद्य तप्यति दुर्बुद्धिः तेन बाल-वधः हि अयम् ॥ ७।७४।२८ ॥
sa vai viṣaya-paryante tava rājan mahā-tapāḥ . adya tapyati durbuddhiḥ tena bāla-vadhaḥ hi ayam .. 7.74.28 ..
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ७.७४.२९ ॥
यः हि अधर्मम् अकार्यम् वा विषये पार्थिवस्य तु । करोति च अश्री-मूलम् तद्-पुरे वा दुर्मतिः नरः । क्षिप्रम् च नरकम् याति स च राजा न संशयः ॥ ७।७४।२९ ॥
yaḥ hi adharmam akāryam vā viṣaye pārthivasya tu . karoti ca aśrī-mūlam tad-pure vā durmatiḥ naraḥ . kṣipram ca narakam yāti sa ca rājā na saṃśayaḥ .. 7.74.29 ..
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ७.७४.३० ॥
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठम् भजति भागम् तु प्रजाः धर्मेण पालयन् ॥ ७।७४।३० ॥
adhītasya ca taptasya karmaṇaḥ sukṛtasya ca . ṣaṣṭham bhajati bhāgam tu prajāḥ dharmeṇa pālayan .. 7.74.30 ..
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ॥ ७.७४.३१ ॥
षष्-भागस्य न भोक्ता असौ रक्षते न प्रजाः कथम् ॥ ७।७४।३१ ॥
ṣaṣ-bhāgasya na bhoktā asau rakṣate na prajāḥ katham .. 7.74.31 ..
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ ७.७४.३२ ॥
स त्वम् पुरुष-शार्दूल मार्गस्व विषयम् स्वकम् । दुष्कृतम् यत्र पश्येथाः तत्र यत्नम् समाचर ॥ ७।७४।३२ ॥
sa tvam puruṣa-śārdūla mārgasva viṣayam svakam . duṣkṛtam yatra paśyethāḥ tatra yatnam samācara .. 7.74.32 ..
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ७.७४.३३ ॥
एवम् चेद् धर्म-वृद्धिः च नृणाम् च आयुः-विवर्धनम् । भविष्यति नर-श्रेष्ठ बालस्य अस्य च जीवितम् ॥ ७।७४।३३ ॥
evam ced dharma-vṛddhiḥ ca nṛṇām ca āyuḥ-vivardhanam . bhaviṣyati nara-śreṣṭha bālasya asya ca jīvitam .. 7.74.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catuḥsaptatitamaḥ sargaḥ .. 74 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In