This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥ ७.७६.१ ॥
तस्य तत् वचनम् श्रुत्वा रामस्य अक्लिष्ट-कर्मणः । अवाक्शिराः तथा भूत्वा वाक्यम् एतत् उवाच ह ॥ ७।७६।१ ॥
tasya tat vacanam śrutvā rāmasya akliṣṭa-karmaṇaḥ . avākśirāḥ tathā bhūtvā vākyam etat uvāca ha .. 7.76.1 ..
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ॥ ७.७६.२ ॥
शूद्र-योन्याम् प्रसूतः अस्मि शम्बूकः नाम नामतः । देव-त्वम् पार्थये राम स शरीरः महा-यशः ॥ ७।७६।२ ॥
śūdra-yonyām prasūtaḥ asmi śambūkaḥ nāma nāmataḥ . deva-tvam pārthaye rāma sa śarīraḥ mahā-yaśaḥ .. 7.76.2 ..
न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ७.७६.३ ॥
न मिथ्या अहम् वदे राम देव-लोक-जिगीषया । शूद्रम् माम् विद्धि काकुत्स्थ तपः उग्रम् समास्थितम् ॥ ७।७६।३ ॥
na mithyā aham vade rāma deva-loka-jigīṣayā . śūdram mām viddhi kākutstha tapaḥ ugram samāsthitam .. 7.76.3 ..
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ७.७६.४ ॥
भाषतः तस्य शूद्रस्य खड्गम् सु रुचिर-प्रभम् । निष्कृष्य कोशात् विमलम् शिरः चिच्छेद राघवः ॥ ७।७६।४ ॥
bhāṣataḥ tasya śūdrasya khaḍgam su rucira-prabham . niṣkṛṣya kośāt vimalam śiraḥ ciccheda rāghavaḥ .. 7.76.4 ..
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ७.७६.५ ॥
तस्मिन् शूद्रे हते देवाः स इन्द्राः स अग्नि-पुरोगमाः । साधु साधु इति काकुत्स्थम् प्रशशंसुः मुहुर् मुहुर् ॥ ७।७६।५ ॥
tasmin śūdre hate devāḥ sa indrāḥ sa agni-purogamāḥ . sādhu sādhu iti kākutstham praśaśaṃsuḥ muhur muhur .. 7.76.5 ..
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ७.७६.६ ॥
पुष्प-वृष्टिः महती आसीत् दिव्यानाम् सु सुगन्धिनाम् । पुष्पाणाम् वायु-मुक्तानाम् सर्वतस् प्रपपात ह ॥ ७।७६।६ ॥
puṣpa-vṛṣṭiḥ mahatī āsīt divyānām su sugandhinām . puṣpāṇām vāyu-muktānām sarvatas prapapāta ha .. 7.76.6 ..
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७.७६.७ ॥
सु प्रीताः च अब्रुवन् रामम् देवाः सत्य-पराक्रमम् । सुर-कार्यम् इदम् सौम्य सु कृतम् ते महामते ॥ ७।७६।७ ॥
su prītāḥ ca abruvan rāmam devāḥ satya-parākramam . sura-kāryam idam saumya su kṛtam te mahāmate .. 7.76.7 ..
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ॥ ७.७६.८ ॥
गृहाण च वरम् सौम्य यत् त्वम् इच्छसि अरिन्दम । स्वर्ग-भाज् न हि शूद्रः अयम् त्वद्-कृते रघुनन्दन ॥ ७।७६।८ ॥
gṛhāṇa ca varam saumya yat tvam icchasi arindama . svarga-bhāj na hi śūdraḥ ayam tvad-kṛte raghunandana .. 7.76.8 ..
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ७.७६.९ ॥
देवानाम् भाषितम् श्रुत्वा राघवः सु समाहितः । उवाच प्राञ्जलिः वाक्यम् सहस्राक्षम् पुरन्दरम् ॥ ७।७६।९ ॥
devānām bhāṣitam śrutvā rāghavaḥ su samāhitaḥ . uvāca prāñjaliḥ vākyam sahasrākṣam purandaram .. 7.76.9 ..
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ॥ ७.७६.१० ॥
यदि देवाः प्रसन्नाः मे द्विज-पुत्रः स जीवतु । दिशन्तु वरम् एतम् मे इप्सितम् परमम् मम ॥ ७।७६।१० ॥
yadi devāḥ prasannāḥ me dvija-putraḥ sa jīvatu . diśantu varam etam me ipsitam paramam mama .. 7.76.10 ..
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ७.७६.११ ॥
मम अपचारात् यातः असौ ब्राह्मणस्य एक-पुत्रकः । अप्राप्त-कालः कालेन नीतः वैवस्वत-क्षयम् ॥ ७।७६।११ ॥
mama apacārāt yātaḥ asau brāhmaṇasya eka-putrakaḥ . aprāpta-kālaḥ kālena nītaḥ vaivasvata-kṣayam .. 7.76.11 ..
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ॥ ७.७६.१२ ॥
तम् जीवयथ भद्रम् वः न अनृतम् कर्तुम् अर्हथ । द्विजस्य संश्रुतः अर्थः मे जीवयिष्यामि ते सुतम् ॥ ७।७६।१२ ॥
tam jīvayatha bhadram vaḥ na anṛtam kartum arhatha . dvijasya saṃśrutaḥ arthaḥ me jīvayiṣyāmi te sutam .. 7.76.12 ..
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ ७.७६.१३ ॥
राघवस्य तु तत् वाक्यम् श्रुत्वा विबुध-सत्तमाः । प्रत्युचुः राघवम् प्रीताः देवाः प्रीति-समन्वितम् ॥ ७।७६।१३ ॥
rāghavasya tu tat vākyam śrutvā vibudha-sattamāḥ . pratyucuḥ rāghavam prītāḥ devāḥ prīti-samanvitam .. 7.76.13 ..
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ ७.७६.१४ ॥
निर्वृतः भव काकुत्स्थ सः अस्मिन् अहनि बालकः । जीवितम् प्राप्तवान् भूयस् समेतः च अपि बन्धुभिः ॥ ७।७६।१४ ॥
nirvṛtaḥ bhava kākutstha saḥ asmin ahani bālakaḥ . jīvitam prāptavān bhūyas sametaḥ ca api bandhubhiḥ .. 7.76.14 ..
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ॥ ७.७६.१५ ॥
यस्मिन् मुहूर्ते काकुत्स्थ शूद्रः अयम् विनिपातितः । तस्मिन् मुहूर्ते बालः असौ जीवेन समयुज्यत ॥ ७।७६।१५ ॥
yasmin muhūrte kākutstha śūdraḥ ayam vinipātitaḥ . tasmin muhūrte bālaḥ asau jīvena samayujyata .. 7.76.15 ..
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ ७.७६.१६ ॥
स्वस्ति प्राप्नुहि भद्रम् ते साधु याम नर-ऋषभ । अगस्त्यस्य आश्रम-पदम् द्रष्टुम् इच्छाम राघव ॥ ७।७६।१६ ॥
svasti prāpnuhi bhadram te sādhu yāma nara-ṛṣabha . agastyasya āśrama-padam draṣṭum icchāma rāghava .. 7.76.16 ..
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ ७.७६.१७ ॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सु महा-द्युतेः । द्वादशम् हि गतम् वर्षम् जलशय्याम् समासतस् ॥ ७।७६।१७ ॥
tasya dīkṣā samāptā hi brahmarṣeḥ su mahā-dyuteḥ . dvādaśam hi gatam varṣam jalaśayyām samāsatas .. 7.76.17 ..
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ ७.७६.१८ ॥
काकुत्स्थ तत् गमिष्यामः मुनिम् समभिनन्दितुम् । त्वम् च अपि आगच्छ भद्रम् ते द्रष्टुम् तम् ऋषि-सत्तमम् ॥ ७।७६।१८ ॥
kākutstha tat gamiṣyāmaḥ munim samabhinanditum . tvam ca api āgaccha bhadram te draṣṭum tam ṛṣi-sattamam .. 7.76.18 ..
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ ७.७६.१९ ॥
स तथा इति प्रतिज्ञाय देवानाम् रघुनन्दनः । आरुरोह विमानम् तम् पुष्पकम् हेम-भूषितम् ॥ ७।७६।१९ ॥
sa tathā iti pratijñāya devānām raghunandanaḥ . āruroha vimānam tam puṣpakam hema-bhūṣitam .. 7.76.19 ..
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ ७.७६.२० ॥
ततस् देवाः प्रयाताः ते विमानैः बहु-विस्तरैः । रामः अपि अनुजगाम आशु कुम्भयोनेः तपः-वनम् ॥ ७।७६।२० ॥
tatas devāḥ prayātāḥ te vimānaiḥ bahu-vistaraiḥ . rāmaḥ api anujagāma āśu kumbhayoneḥ tapaḥ-vanam .. 7.76.20 ..
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ ७.७६.२१ ॥
दृष्ट्वा तु देवान् सम्प्राप्तान् अगस्त्यः तपसाम् निधिः । अर्चयामास धर्म-आत्मा सर्वान् तान् अविशेषतस् ॥ ७।७६।२१ ॥
dṛṣṭvā tu devān samprāptān agastyaḥ tapasām nidhiḥ . arcayāmāsa dharma-ātmā sarvān tān aviśeṣatas .. 7.76.21 ..
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ ७.७६.२२ ॥
प्रतिगृह्य ततस् पूजाम् सम्पूज्य च महा-मुनिम् । जग्मुः ते त्रिदशाः हृष्टाः नाक-पृष्ठम् सह अनुगैः ॥ ७।७६।२२ ॥
pratigṛhya tatas pūjām sampūjya ca mahā-munim . jagmuḥ te tridaśāḥ hṛṣṭāḥ nāka-pṛṣṭham saha anugaiḥ .. 7.76.22 ..
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ ७.७६.२३ ॥
गतेषु तेषु काकुत्स्थः पुष्पकात् अवरुह्य च । ततस् अभिवादयामास हि अगस्त्यम् ऋषि-सत्तमम् ॥ ७।७६।२३ ॥
gateṣu teṣu kākutsthaḥ puṣpakāt avaruhya ca . tatas abhivādayāmāsa hi agastyam ṛṣi-sattamam .. 7.76.23 ..
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ ७.७६.२४ ॥
सः अभिवाद्य महात्मानम् ज्वलन्तम् इव तेजसा । आतिथ्यम् परमम् प्राप्य निषसाद नराधिपः ॥ ७।७६।२४ ॥
saḥ abhivādya mahātmānam jvalantam iva tejasā . ātithyam paramam prāpya niṣasāda narādhipaḥ .. 7.76.24 ..
तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.७६.२५ ॥
तम् उवाच महा-तेजाः कुम्भयोनिः महा-तपाः । स्वागतम् ते नर-श्रेष्ठ दिष्ट्या प्राप्तः असि राघव ॥ ७।७६।२५ ॥
tam uvāca mahā-tejāḥ kumbhayoniḥ mahā-tapāḥ . svāgatam te nara-śreṣṭha diṣṭyā prāptaḥ asi rāghava .. 7.76.25 ..
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ ७.७६.२६ ॥
त्वम् मे बहु-मतः राम गुणैः बहुभिः उत्तमैः । अतिथिः पूजनीयः च मम नित्यम् हृदि स्थितः ॥ ७।७६।२६ ॥
tvam me bahu-mataḥ rāma guṇaiḥ bahubhiḥ uttamaiḥ . atithiḥ pūjanīyaḥ ca mama nityam hṛdi sthitaḥ .. 7.76.26 ..
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ ७.७६.२७ ॥
सुराः हि कथयन्ति त्वाम् आगतम् शूद्र-घातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ ७।७६।२७ ॥
surāḥ hi kathayanti tvām āgatam śūdra-ghātinam . brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ .. 7.76.27 ..
उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ॥ ७.७६.२८ ॥
उष्यताम् च इह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वम् गन्ता असि पुरम् एव हि ॥ ७।७६।२८ ॥
uṣyatām ca iha rajanī sakāśe mama rāghava . prabhāte puṣpakeṇa tvam gantā asi puram eva hi .. 7.76.28 ..
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ ७.७६.२९ ॥
त्वम् हि नारायणः श्रीमान् त्वयि सर्वम् प्रतिष्ठितम् । त्वम् प्रभुः सर्व-देवानाम् पुरुषः त्वम् सनातनः ॥ ७।७६।२९ ॥
tvam hi nārāyaṇaḥ śrīmān tvayi sarvam pratiṣṭhitam . tvam prabhuḥ sarva-devānām puruṣaḥ tvam sanātanaḥ .. 7.76.29 ..
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ७.७६.३० ॥
इदम् च आभरणम् सौम्य निर्मितम् विश्वकर्मणा । दिव्यम् दिव्येन वपुषा दीप्यमानम् स्व-तेजसा । प्रतिगृह्णीष्व काकुत्स्थ मद्-प्रियम् कुरु राघव ॥ ७।७६।३० ॥
idam ca ābharaṇam saumya nirmitam viśvakarmaṇā . divyam divyena vapuṣā dīpyamānam sva-tejasā . pratigṛhṇīṣva kākutstha mad-priyam kuru rāghava .. 7.76.30 ..
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते । भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥ ७.७६.३१ ॥
दत्तस्य हि पुनर् दाने सु महत् फलम् उच्यते । भरणे हि भवान् शक्तः स इन्द्राणाम् मरुताम् अपि ॥ ७।७६।३१ ॥
dattasya hi punar dāne su mahat phalam ucyate . bharaṇe hi bhavān śaktaḥ sa indrāṇām marutām api .. 7.76.31 ..
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः । तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥ ७.७६.३२ ॥
त्वम् हि शक्तः तारयितुम् स इन्द्रान् अपि दिवौकसः । तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नराधिप ॥ ७।७६।३२ ॥
tvam hi śaktaḥ tārayitum sa indrān api divaukasaḥ . tasmāt pradāsye vidhivat tat pratīccha narādhipa .. 7.76.32 ..
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ७.७६.३३ ॥
दिव्यम् आभरणम् चित्रम् प्रदीप्तम् इव भास्करम् ॥ ७।७६।३३ ॥
divyam ābharaṇam citram pradīptam iva bhāskaram .. 7.76.33 ..
अथोवाच महात्मानमिक्ष्वाकूणां महारथः । रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ७.७६.३४ ॥
अथा उवाच महात्मानम् इक्ष्वाकूणाम् महा-रथः । रामः मतिमताम् श्रेष्ठः क्षत्र-धर्मम् अनुस्मरन् ॥ ७।७६।३४ ॥
athā uvāca mahātmānam ikṣvākūṇām mahā-rathaḥ . rāmaḥ matimatām śreṣṭhaḥ kṣatra-dharmam anusmaran .. 7.76.34 ..
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः । गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ॥ ७.७६.३५ ॥
प्रतिग्रहः अयम् भगवन् ब्राह्मणस्य अ विगर्हितः । गृह्णीयाम् क्षत्रियः अहम् वै कथम् ब्राह्मण-पुङ्गव ॥ ७।७६।३५ ॥
pratigrahaḥ ayam bhagavan brāhmaṇasya a vigarhitaḥ . gṛhṇīyām kṣatriyaḥ aham vai katham brāhmaṇa-puṅgava .. 7.76.35 ..
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ७.७६.३६ ॥
ब्राह्मणेन विशेषेण दत्तम् तत् वक्तुम् अर्हसि । एवम् उक्तः तु रामेण प्रत्युवाच महान् ऋषिः ॥ ७।७६।३६ ॥
brāhmaṇena viśeṣeṇa dattam tat vaktum arhasi . evam uktaḥ tu rāmeṇa pratyuvāca mahān ṛṣiḥ .. 7.76.36 ..
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे । अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ७.७६.३७ ॥
आसन् कृत-युगे राम ब्रह्म-भूते पुरा युगे । अपार्थिवाः प्रजाः सर्वाः सुराणाम् तु शतक्रतुः ॥ ७।७६।३७ ॥
āsan kṛta-yuge rāma brahma-bhūte purā yuge . apārthivāḥ prajāḥ sarvāḥ surāṇām tu śatakratuḥ .. 7.76.37 ..
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ७.७६.३८ ॥
ताः प्रजाः देवदेवेशम् राज-अर्थम् समुपाद्रवन् । सुराणाम् स्थापितः राजा त्वया देव शतक्रतुः ॥ ७।७६।३८ ॥
tāḥ prajāḥ devadeveśam rāja-artham samupādravan . surāṇām sthāpitaḥ rājā tvayā deva śatakratuḥ .. 7.76.38 ..
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् । यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि । न वसामो विना राज्ञा एष नो निश्चयः परः ॥ ७.७६.३९ ॥
प्रयच्छ नः हि लोक-ईश पार्थिवम् नर-पुङ्गवम् । यस्मै पूजाम् प्रयुञ्जानाः धूत-पापाः चरेमहि । न वसामः विना राज्ञा एष नः निश्चयः परः ॥ ७।७६।३९ ॥
prayaccha naḥ hi loka-īśa pārthivam nara-puṅgavam . yasmai pūjām prayuñjānāḥ dhūta-pāpāḥ caremahi . na vasāmaḥ vinā rājñā eṣa naḥ niścayaḥ paraḥ .. 7.76.39 ..
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ॥ ७.७६.४० ॥
प्रजानाम् वचनम् श्रुत्वा निश्चयित्वा अर्थम् उत्तमम् ॥ ७।७६।४० ॥
prajānām vacanam śrutvā niścayitvā artham uttamam .. 7.76.40 ..
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् । समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ७.७६.४१ ॥
ततस् ब्रह्मा सुरश्रेष्ठः लोकपालान् स वासवान् । समाहूय अब्रवीत् सर्वान् तेजः-भागान् प्रयच्छत ॥ ७।७६।४१ ॥
tatas brahmā suraśreṣṭhaḥ lokapālān sa vāsavān . samāhūya abravīt sarvān tejaḥ-bhāgān prayacchata .. 7.76.41 ..
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः । अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ७.७६.४२ ॥
ततस् ददुः लोकपालाः सर्वे भागान् स्व-तेजसः । अक्षुपत् च ततस् ब्रह्मा यतस् जातः क्षुपः नृपः ॥ ७।७६।४२ ॥
tatas daduḥ lokapālāḥ sarve bhāgān sva-tejasaḥ . akṣupat ca tatas brahmā yatas jātaḥ kṣupaḥ nṛpaḥ .. 7.76.42 ..
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ७.७६.४३ ॥
तम् ब्रह्मा लोकपालानाम् सह अंशैः समयोजयत् । ततस् ददौ नृपम् तासाम् प्रजानाम् ईश्वरम् क्षुपम् ॥ ७।७६।४३ ॥
tam brahmā lokapālānām saha aṃśaiḥ samayojayat . tatas dadau nṛpam tāsām prajānām īśvaram kṣupam .. 7.76.43 ..
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ ७.७६.४४ ॥
तत्र ऐन्द्रेण च भागेन महीम् आज्ञापयत् नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ ७।७६।४४ ॥
tatra aindreṇa ca bhāgena mahīm ājñāpayat nṛpaḥ . vāruṇena tu bhāgena vapuḥ puṣyati pārthivaḥ .. 7.76.44 ..
कौबेरेण तु भागेन वित्तमासां ददौ तदा । यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ७.७६.४५ ॥
कौबेरेण तु भागेन वित्तम् आसाम् ददौ तदा । यः तु याम्यः अभवत् भागः तेन शास्ति स्म स प्रजाः ॥ ७।७६।४५ ॥
kaubereṇa tu bhāgena vittam āsām dadau tadā . yaḥ tu yāmyaḥ abhavat bhāgaḥ tena śāsti sma sa prajāḥ .. 7.76.45 ..
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ७.७६.४६ ॥
तत्र ऐन्द्रेण नर-श्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रम् ते तारण-अर्थम् मम प्रभो ॥ ७।७६।४६ ॥
tatra aindreṇa nara-śreṣṭha bhāgena raghunandana . pratigṛhṇīṣva bhadram te tāraṇa-artham mama prabho .. 7.76.46 ..
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ७.७६.४७ ॥
तस्य तत् वचनम् श्रुत्वा ऋषेः परम-धार्मिकम् । तत् रामः प्रतिजग्राह मुनेः आभरणम् वरम् ॥ ७।७६।४७ ॥
tasya tat vacanam śrutvā ṛṣeḥ parama-dhārmikam . tat rāmaḥ pratijagrāha muneḥ ābharaṇam varam .. 7.76.47 ..
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ७.७६.४८ ॥
प्रतिगृह्य ततस् रामः तत् आभरणम् उत्तमम् । आगमम् तस्य दीप्तस्य प्रष्टुम् एव उपचक्रमे ॥ ७।७६।४८ ॥
pratigṛhya tatas rāmaḥ tat ābharaṇam uttamam . āgamam tasya dīptasya praṣṭum eva upacakrame .. 7.76.48 ..
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् । कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ७.७६.४९ ॥
अति अद्भुतम् इदम् दिव्यम् वपुषा युक्तम् उत्तमम् । कथम् वा भगवता प्राप्तम् कुतस् वा केन वा हृतम् ॥ ७।७६।४९ ॥
ati adbhutam idam divyam vapuṣā yuktam uttamam . katham vā bhagavatā prāptam kutas vā kena vā hṛtam .. 7.76.49 ..
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ७.७६.५० ॥
कुतूहलितया ब्रह्मन् पृच्छामि त्वाम् महा-यशः । आश्चर्याणाम् बहूनाम् हि निधिः परमकः भवान् ॥ ७।७६।५० ॥
kutūhalitayā brahman pṛcchāmi tvām mahā-yaśaḥ . āścaryāṇām bahūnām hi nidhiḥ paramakaḥ bhavān .. 7.76.50 ..
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् । शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ७.७६.५१ ॥
एवम् ब्रुवति काकुत्स्थे मुनिः वाक्यम् अथ अब्रवीत् । शृणु राम यथावृत्तम् पुरा त्रेता-युगे युगे ॥ ७।७६।५१ ॥
evam bruvati kākutsthe muniḥ vākyam atha abravīt . śṛṇu rāma yathāvṛttam purā tretā-yuge yuge .. 7.76.51 ..
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् । आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ७.७६.५२ ॥
रमणीय-प्रदेशे अस्मिन् वने यत् दृष्टवान् अहम् । आश्चर्यम् मे महा-बाहो दानम् आश्रित्य केवलम् ॥ ७।७६।५२ ॥
ramaṇīya-pradeśe asmin vane yat dṛṣṭavān aham . āścaryam me mahā-bāho dānam āśritya kevalam .. 7.76.52 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṭsaptatitamaḥ sargaḥ .. 76 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In