This overlay will guide you through the buttons:

| |
|
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् । समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥ ७.७७.१ ॥
पुरा त्रेता-युगे राम बभूव बहु-विस्तरम् । समन्तात् योजन-शतम् विमृगम् पक्षि-वर्जितम् ॥ ७।७७।१ ॥
purā tretā-yuge rāma babhūva bahu-vistaram . samantāt yojana-śatam vimṛgam pakṣi-varjitam .. 7.77.1 ..
तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ ७.७७.२ ॥
तस्मिन् निर्मानुषे अरण्ये कुर्वाणः तपः उत्तमम् । अहम् आक्रमितुम् सौम्य तत् अरण्यम् उपागमम् ॥ ७।७७।२ ॥
tasmin nirmānuṣe araṇye kurvāṇaḥ tapaḥ uttamam . aham ākramitum saumya tat araṇyam upāgamam .. 7.77.2 ..
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ७.७७.३ ॥
तस्य रूपम् अरण्यस्य निर्देष्टुम् न शशाक ह । फल-मूलैः सुख-आस्वादैः बहु-रूपैः च पादपैः ॥ ७।७७।३ ॥
tasya rūpam araṇyasya nirdeṣṭum na śaśāka ha . phala-mūlaiḥ sukha-āsvādaiḥ bahu-rūpaiḥ ca pādapaiḥ .. 7.77.3 ..
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ७.७७.४ ॥
तस्य अरण्यस्य मध्ये तु सरः योजनम् आयतम् । हंस-कारण्डव-आकीर्णम् चक्रवाक-उपशोभितम् ॥ ७।७७।४ ॥
tasya araṇyasya madhye tu saraḥ yojanam āyatam . haṃsa-kāraṇḍava-ākīrṇam cakravāka-upaśobhitam .. 7.77.4 ..
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ७.७७.५ ॥
पद्म-उत्पल-समाकीर्णम् समतिक्रान्त-शैवलम् । तत् आश्चर्यम् इव अत्यर्थम् सुख-आस्वादम् अनुत्तमम् ॥ ७।७७।५ ॥
padma-utpala-samākīrṇam samatikrānta-śaivalam . tat āścaryam iva atyartham sukha-āsvādam anuttamam .. 7.77.5 ..
अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ७.७७.६ ॥
अरजस्कम् तथा अक्षोभ्यम् श्रीमत्-पक्षि-गण-आयुतम् । समीपे तस्य सरसः महत् अद्भुतम् आश्रमम् ॥ ७।७७।६ ॥
arajaskam tathā akṣobhyam śrīmat-pakṣi-gaṇa-āyutam . samīpe tasya sarasaḥ mahat adbhutam āśramam .. 7.77.6 ..
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७.७७.७ ॥
पुराणम् पुण्यम् अत्यर्थम् तपस्वि-जन-वर्जितम् । तत्र अहम् अवसम् रात्रिम् नैदाघीम् पुरुष-ऋषभ ॥ ७।७७।७ ॥
purāṇam puṇyam atyartham tapasvi-jana-varjitam . tatra aham avasam rātrim naidāghīm puruṣa-ṛṣabha .. 7.77.7 ..
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ७.७७.८ ॥
प्रभाते काल्यम् उत्थाय सरः तत् उपचक्रमे । अथा अपश्यम् शवम् तत्र सु पुष्टम् अजरम् क्वचिद् ॥ ७।७७।८ ॥
prabhāte kālyam utthāya saraḥ tat upacakrame . athā apaśyam śavam tatra su puṣṭam ajaram kvacid .. 7.77.8 ..
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ७.७७.९ ॥
पङ्कि-भेदेन पुष्ट-अङ्गम् समाश्रित-सरोवरम् । तिष्ठन्तम् परया लक्ष्म्या तस्मिन् तोय-आशये नृप ॥ ७।७७।९ ॥
paṅki-bhedena puṣṭa-aṅgam samāśrita-sarovaram . tiṣṭhantam parayā lakṣmyā tasmin toya-āśaye nṛpa .. 7.77.9 ..
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव । उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥ ७.७७.१० ॥
तम् अर्थम् चिन्तयानः अहम् मुहूर्तम् तत्र राघव । उषितः अस्मि सरः-तीरे किन् नु इदम् स्यात् इति प्रभो ॥ ७।७७।१० ॥
tam artham cintayānaḥ aham muhūrtam tatra rāghava . uṣitaḥ asmi saraḥ-tīre kin nu idam syāt iti prabho .. 7.77.10 ..
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ७.७७.११ ॥
अथा अपश्यम् मुहूर्तेन दिव्यम् अद्भुत-दर्शनम् । विमानम् परम-उदारम् हंस-युक्तम् मनोजवम् ॥ ७।७७।११ ॥
athā apaśyam muhūrtena divyam adbhuta-darśanam . vimānam parama-udāram haṃsa-yuktam manojavam .. 7.77.11 ..
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ ७.७७.१२ ॥
अत्यर्थम् स्वर्गिणम् ते विमाने रघुनन्दन । उपास्ते अप्सरसाम् वीर सहस्रम् दिव्य-भूषणम् ॥ ७।७७।१२ ॥
atyartham svargiṇam te vimāne raghunandana . upāste apsarasām vīra sahasram divya-bhūṣaṇam .. 7.77.12 ..
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ॥ ७.७७.१३ ॥
गायन्ति दिव्य-गेयानि वादयन्ति तथा अपराः । क्ष्वेलयन्ति तथा च अन्याः नृत्यन्ति च तथा अपराः ॥ ७।७७।१३ ॥
gāyanti divya-geyāni vādayanti tathā aparāḥ . kṣvelayanti tathā ca anyāḥ nṛtyanti ca tathā aparāḥ .. 7.77.13 ..
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ ७.७७.१४ ॥
अपराः चन्द्र-रश्मि-आभैः हेम-दण्डैः च चामरैः । दोधूयुः वदनम् तस्य पुण्डरीक-निभ-ईक्षणम् ॥ ७।७७।१४ ॥
aparāḥ candra-raśmi-ābhaiḥ hema-daṇḍaiḥ ca cāmaraiḥ . dodhūyuḥ vadanam tasya puṇḍarīka-nibha-īkṣaṇam .. 7.77.14 ..
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ ७.७७.१५ ॥
ततस् सिंहासनम् त्यक्त्वा मेरु-कूटम् इव अंशुमान् । पश्यतः मे तदा राम विमानात् अवरुह्य च । तम् शवम् भक्षयामास स स्वर्गी रघुनन्दन ॥ ७।७७।१५ ॥
tatas siṃhāsanam tyaktvā meru-kūṭam iva aṃśumān . paśyataḥ me tadā rāma vimānāt avaruhya ca . tam śavam bhakṣayāmāsa sa svargī raghunandana .. 7.77.15 ..
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ ७.७७.१६ ॥
तथा भुक्त्वा यथाकामम् मांसम् बहु सु पीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे ॥ ७।७७।१६ ॥
tathā bhuktvā yathākāmam māṃsam bahu su pīvaram . avatīrya saraḥ svargī saṃspraṣṭum upacakrame .. 7.77.16 ..
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ ७.७७.१७ ॥
उपस्पृश्य यथान्यायम् स स्वर्गी रघु-पुङ्गव । आरोढुम् उपचक्राम विमान-वरम् उत्तमम् ॥ ७।७७।१७ ॥
upaspṛśya yathānyāyam sa svargī raghu-puṅgava . āroḍhum upacakrāma vimāna-varam uttamam .. 7.77.17 ..
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ ७.७७.१८ ॥
तम् अहम् देव-सङ्काशम् आरोहन्तम् उदीक्ष्य वै । अथ अहम् अब्रुवम् वाक्यम् स्वर्गिणम् पुरुष-ऋषभ ॥ ७।७७।१८ ॥
tam aham deva-saṅkāśam ārohantam udīkṣya vai . atha aham abruvam vākyam svargiṇam puruṣa-ṛṣabha .. 7.77.18 ..
को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ ७.७७.१९ ॥
कः भवान् देव-सङ्काशः आहारः च विगर्हितः । त्वया इदम् भुज्यते सौम्य किम् अर्थम् वक्तुम् अर्हसि ॥ ७।७७।१९ ॥
kaḥ bhavān deva-saṅkāśaḥ āhāraḥ ca vigarhitaḥ . tvayā idam bhujyate saumya kim artham vaktum arhasi .. 7.77.19 ..
कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ ७.७७.२० ॥
कस्य स्यात् ईदृशः भावः आहारः देव-सम्मतः । आश्चर्यम् वर्तते सौम्य श्रोतुम् इच्छामि तत्त्वतः ॥ ७।७७।२० ॥
kasya syāt īdṛśaḥ bhāvaḥ āhāraḥ deva-sammataḥ . āścaryam vartate saumya śrotum icchāmi tattvataḥ .. 7.77.20 ..
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ ७.७७.२१ ॥
न अहम् औपयिकम् मन्ये तव भक्ष्यम् इदम् शवम् ॥ ७।७७।२१ ॥
na aham aupayikam manye tava bhakṣyam idam śavam .. 7.77.21 ..
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ ७.७७.२२ ॥
इति एवम् उक्तः स नरेन्द्र नाकी कौतूहलात् सूनृतया गिरा च । श्रुत्वा च वाक्यम् मम सर्वम् एतत् सर्वम् तथा च अकथयत् मम इति ॥ ७।७७।२२ ॥
iti evam uktaḥ sa narendra nākī kautūhalāt sūnṛtayā girā ca . śrutvā ca vākyam mama sarvam etat sarvam tathā ca akathayat mama iti .. 7.77.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptasaptatitamaḥ sargaḥ .. 77 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In