This overlay will guide you through the buttons:

| |
|
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः । गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ ७.७९.१ ॥
तत् अद्भुततमम् वाक्यम् श्रुत्वा अगस्त्यस्य राघवः । गौरवात् विस्मयात् च एव पुनर् प्रष्टुम् प्रचक्रमे ॥ ७।७९।१ ॥
tat adbhutatamam vākyam śrutvā agastyasya rāghavaḥ . gauravāt vismayāt ca eva punar praṣṭum pracakrame .. 7.79.1 ..
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः । श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ ७.७९.२ ॥
भगवन् तत् वनम् घोरम् तपः तप्यति यत्र सः । श्वेतः वैदर्भकः राजा कथम् स्यात् अ मृग-द्विजम् ॥ ७।७९।२ ॥
bhagavan tat vanam ghoram tapaḥ tapyati yatra saḥ . śvetaḥ vaidarbhakaḥ rājā katham syāt a mṛga-dvijam .. 7.79.2 ..
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् । तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ७.७९.३ ॥
तत् वनम् स राजा शून्यम् मनुज-वर्जितम् । तपः चर्तुम् प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः ॥ ७।७९।३ ॥
tat vanam sa rājā śūnyam manuja-varjitam . tapaḥ cartum praviṣṭaḥ sa śrotum icchāmi tattvataḥ .. 7.79.3 ..
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् । वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ७.७९.४ ॥
रामस्य वचनम् श्रुत्वा कौतूहल-समन्वितम् । वाक्यम् परम-तेजस्वी वक्तुम् एवा उपचक्रमे ॥ ७।७९।४ ॥
rāmasya vacanam śrutvā kautūhala-samanvitam . vākyam parama-tejasvī vaktum evā upacakrame .. 7.79.4 ..
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ७.७९.५ ॥
पुरा कृत-युगे राम मनुः दण्ड-धरः प्रभुः । तस्य पुत्रः महान् आसीत् इक्ष्वाकुः कुल-नन्दनः ॥ ७।७९।५ ॥
purā kṛta-yuge rāma manuḥ daṇḍa-dharaḥ prabhuḥ . tasya putraḥ mahān āsīt ikṣvākuḥ kula-nandanaḥ .. 7.79.5 ..
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ७.७९.६ ॥
तम् पुत्रम् पूर्वंकम् राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्याम् राज-वंशानाम् भव कर्ता इति उवाच ह ॥ ७।७९।६ ॥
tam putram pūrvaṃkam rājye nikṣipya bhuvi durjayam . pṛthivyām rāja-vaṃśānām bhava kartā iti uvāca ha .. 7.79.6 ..
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ ७.७९.७ ॥
तथा एवा इति प्रतिज्ञातम् पितुः पुत्रेण राघव । ततस् परम-सन्तुष्टः मनुः पुत्रम् उवाच ह ॥ ७।७९।७ ॥
tathā evā iti pratijñātam pituḥ putreṇa rāghava . tatas parama-santuṣṭaḥ manuḥ putram uvāca ha .. 7.79.7 ..
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः । दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ७.७९.८ ॥
प्रीतः अस्मि परम-उदार त्वम् कर्ता असि न संशयः । दण्डेन च प्रजाः रक्ष मा च दण्डम् अकारणे ॥ ७।७९।८ ॥
prītaḥ asmi parama-udāra tvam kartā asi na saṃśayaḥ . daṇḍena ca prajāḥ rakṣa mā ca daṇḍam akāraṇe .. 7.79.8 ..
अपराधिषु यो दण्डः पात्यते मानवेषु वै । स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ७.७९.९ ॥
अपराधिषु यः दण्डः पात्यते मानवेषु वै । स दण्डः विधिवत् मुक्तः स्वर्गम् नयति पार्थिवम् ॥ ७।७९।९ ॥
aparādhiṣu yaḥ daṇḍaḥ pātyate mānaveṣu vai . sa daṇḍaḥ vidhivat muktaḥ svargam nayati pārthivam .. 7.79.9 ..
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक । धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ ७.७९.१० ॥
तस्मात् दण्डे महा-बाहो यत्नवान् भव पुत्रक । धर्मः हि परमः लोके कुर्वतः ते भविष्यति ॥ ७।७९।१० ॥
tasmāt daṇḍe mahā-bāho yatnavān bhava putraka . dharmaḥ hi paramaḥ loke kurvataḥ te bhaviṣyati .. 7.79.10 ..
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना । जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ७.७९.११ ॥
इति तम् बहु सन्दिश्य मनुः पुत्रम् समाधिना । जगाम त्रिदिवम् हृष्टः ब्रह्म-लोकम् सनातनम् ॥ ७।७९।११ ॥
iti tam bahu sandiśya manuḥ putram samādhinā . jagāma tridivam hṛṣṭaḥ brahma-lokam sanātanam .. 7.79.11 ..
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः । जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ॥ ७.७९.१२ ॥
प्रयाते त्रिदिवम् तस्मिन् इक्ष्वाकुः अमित-प्रभः । जनयिष्ये कथम् पुत्रान् इति चिन्ता-परः अभवत् ॥ ७।७९।१२ ॥
prayāte tridivam tasmin ikṣvākuḥ amita-prabhaḥ . janayiṣye katham putrān iti cintā-paraḥ abhavat .. 7.79.12 ..
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् । जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ ७.७९.१३ ॥
कर्मभिः बहु-रूपैः च तैः तैः मनु-सुतः सुतान् । जनयामास धर्म-आत्मा शतम् देव-सुत-उपमान् ॥ ७।७९।१३ ॥
karmabhiḥ bahu-rūpaiḥ ca taiḥ taiḥ manu-sutaḥ sutān . janayāmāsa dharma-ātmā śatam deva-suta-upamān .. 7.79.13 ..
तेषामवरजस्तात सर्वेषां रघुनन्दन । मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ ७.७९.१४ ॥
तेषाम् अवरजः तात सर्वेषाम् रघुनन्दन । मूढः च अ कृत-विद्यः च न शुश्रूषति पूर्वजान् ॥ ७।७९।१४ ॥
teṣām avarajaḥ tāta sarveṣām raghunandana . mūḍhaḥ ca a kṛta-vidyaḥ ca na śuśrūṣati pūrvajān .. 7.79.14 ..
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः । अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ॥ ७.७९.१५ ॥
नाम तस्य च दण्ड-इति पिता चक्रे अल्पमेधसः । अवश्यम् दण्ड-पतनम् शरीरे अस्य भविष्यति ॥ ७।७९।१५ ॥
nāma tasya ca daṇḍa-iti pitā cakre alpamedhasaḥ . avaśyam daṇḍa-patanam śarīre asya bhaviṣyati .. 7.79.15 ..
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव । विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ ७.७९.१६ ॥
अपश्यमानः तम् देशम् घोरम् पुत्रस्य राघव । विन्ध्य-शैवलयोः मध्ये राज्यम् प्रादात् अरिन्दम ॥ ७।७९।१६ ॥
apaśyamānaḥ tam deśam ghoram putrasya rāghava . vindhya-śaivalayoḥ madhye rājyam prādāt arindama .. 7.79.16 ..
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि । पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ ७.७९.१७ ॥
स दण्डः तत्र राजा अभूत् रम्ये पर्वत-रोधसि । पुरम् च अप्रतिमम् राम न्यवेशयत् अनुत्तमम् ॥ ७।७९।१७ ॥
sa daṇḍaḥ tatra rājā abhūt ramye parvata-rodhasi . puram ca apratimam rāma nyaveśayat anuttamam .. 7.79.17 ..
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो । पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ ७.७९.१८ ॥
पुरस्य च अकरोत् नाम मधुमन्तम् इति प्रभो । पुरोहितम् तु उशनसम् वरयामास सु व्रतम् ॥ ७।७९।१८ ॥
purasya ca akarot nāma madhumantam iti prabho . purohitam tu uśanasam varayāmāsa su vratam .. 7.79.18 ..
एवं स राजा तद्राज्यमकरोत्सपुरोहितः । प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥ ७.७९.१९ ॥
एवम् स राजा तत् राज्यम् अकरोत् स पुरोहितः । प्रहृष्ट-मनुज-आकीर्णम् देवराजम् यथा वृषा ॥ ७।७९।१९ ॥
evam sa rājā tat rājyam akarot sa purohitaḥ . prahṛṣṭa-manuja-ākīrṇam devarājam yathā vṛṣā .. 7.79.19 ..
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् । चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥ ७.७९.२० ॥
ततस् स राजा मनुज-इन्द्र-पुत्रः सार्धम् च तेन उशनसा तदानीम् । चकार राज्यम् सु महान् महात्मा शक्रः दिवि इव उशनसा समेतः ॥ ७।७९।२० ॥
tatas sa rājā manuja-indra-putraḥ sārdham ca tena uśanasā tadānīm . cakāra rājyam su mahān mahātmā śakraḥ divi iva uśanasā sametaḥ .. 7.79.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशीतितमः सर्गः ॥ ७९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनशीतितमः सर्गः ॥ ७९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonaśītitamaḥ sargaḥ .. 79 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In