This overlay will guide you through the buttons:

| |
|
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ॥ ७.८.१ ॥
हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतस् । माल्वान् सन्निवृत्तः अथ वेलाम् एत्य इव अर्णवः ॥ ७।८।१ ॥
hanyamāne bale tasmin padmanābhena pṛṣṭhatas . mālvān sannivṛttaḥ atha velām etya iva arṇavaḥ .. 7.8.1 ..
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ ७.८.२ ॥
संरक्त-नयनः कोपात् चलत्-मौलिः निशाचरः । पद्मनाभम् इदम् प्राह वचनम् पुरुषोत्तमम् ॥ ७।८।२ ॥
saṃrakta-nayanaḥ kopāt calat-mauliḥ niśācaraḥ . padmanābham idam prāha vacanam puruṣottamam .. 7.8.2 ..
नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ७.८.३ ॥
नारायण न जानीषे क्षात्र-धर्मम् पुरातनम् । अयुद्ध-मनसः भीतान् अस्मान् हंसि यथा इतरः ॥ ७।८।३ ॥
nārāyaṇa na jānīṣe kṣātra-dharmam purātanam . ayuddha-manasaḥ bhītān asmān haṃsi yathā itaraḥ .. 7.8.3 ..
पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ७.८.४ ॥
पराङ्मुख-वधम् पापम् यः करोति असुरेतरः । स हन्ता न गतः स्वर्गम् लभते पुण्य-कर्मणाम् ॥ ७।८।४ ॥
parāṅmukha-vadham pāpam yaḥ karoti asuretaraḥ . sa hantā na gataḥ svargam labhate puṇya-karmaṇām .. 7.8.4 ..
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ॥ ७.८.५ ॥
युद्ध-श्रद्धा अथवा ते अस्ति शङ्ख-चक्र-गदा-धर । ४अहम् स्थितः अस्मि पश्यामि बलम् दर्शय यत् तव ॥ ७।८।५ ॥
yuddha-śraddhā athavā te asti śaṅkha-cakra-gadā-dhara . 4aham sthitaḥ asmi paśyāmi balam darśaya yat tava .. 7.8.5 ..
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ७.८.६ ॥
माल्यवन्तम् स्थितम् दृष्ट्वा माल्यवन्तम् इव अचलम् । उवाच राक्षस-इन्द्रम् तम् देवराज-अनुजः बली ॥ ७।८।६ ॥
mālyavantam sthitam dṛṣṭvā mālyavantam iva acalam . uvāca rākṣasa-indram tam devarāja-anujaḥ balī .. 7.8.6 ..
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७.८.७ ॥
युष्मत्तः भय-भीतानाम् देवानाम् वै मया अभयम् । राक्षस-उत्सादनम् दत्तम् तत् एतत् अनुपाल्यते ॥ ७।८।७ ॥
yuṣmattaḥ bhaya-bhītānām devānām vai mayā abhayam . rākṣasa-utsādanam dattam tat etat anupālyate .. 7.8.7 ..
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ॥ ७.८.८ ॥
प्राणैः अपि प्रियम् कार्यम् देवानाम् हि सदा मया । सः अहम् वः निहनिष्यामि रसातल-गतान् अपि ॥ ७।८।८ ॥
prāṇaiḥ api priyam kāryam devānām hi sadā mayā . saḥ aham vaḥ nihaniṣyāmi rasātala-gatān api .. 7.8.8 ..
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ७.८.९ ॥
देवदेवम् ब्रुवाणम् तम् रक्त-अम्बुरुह-लोचनम् । शक्त्या बिभेद सङ्क्रुद्धः राक्षस-इन्द्रः भुजान्तरे ॥ ७।८।९ ॥
devadevam bruvāṇam tam rakta-amburuha-locanam . śaktyā bibheda saṅkruddhaḥ rākṣasa-indraḥ bhujāntare .. 7.8.9 ..
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ ७.८.१० ॥
माल्यवत्-भुज-निर्मुक्ता शक्तिः घण्टा-कृत-स्वना । हरेः उरसि बभ्राज मेघ-स्था इव शतह्रदा ॥ ७।८।१० ॥
mālyavat-bhuja-nirmuktā śaktiḥ ghaṇṭā-kṛta-svanā . hareḥ urasi babhrāja megha-sthā iva śatahradā .. 7.8.10 ..
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ७.८.११ ॥
ततस् ताम् एव च उत्कृष्य शक्तिम् शक्ति-धर-प्रियः । माल्यवन्तम् समुद्दिश्य चिक्षेप अम्बुरुह-ईक्षणः ॥ ७।८।११ ॥
tatas tām eva ca utkṛṣya śaktim śakti-dhara-priyaḥ . mālyavantam samuddiśya cikṣepa amburuha-īkṣaṇaḥ .. 7.8.11 ..
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ ७.८.१२ ॥
स्कन्द-उत्सृष्टा इव सा शक्तिः गोविन्द-कर-निस्सृता । काङ्क्षन्ती राक्षसम् प्रायात् माहेन्द्री इव अञ्जन-अचलम् ॥ ७।८।१२ ॥
skanda-utsṛṣṭā iva sā śaktiḥ govinda-kara-nissṛtā . kāṅkṣantī rākṣasam prāyāt māhendrī iva añjana-acalam .. 7.8.12 ..
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ ७.८.१३ ॥
सा तस्य उरसि विस्तीर्णे हार-भारा अवभासिते । अपतत् राक्षस-इन्द्रस्य गिरि-कूटे इव अशनिः ॥ ७।८।१३ ॥
sā tasya urasi vistīrṇe hāra-bhārā avabhāsite . apatat rākṣasa-indrasya giri-kūṭe iva aśaniḥ .. 7.8.13 ..
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ ७.८.१४ ॥
तया भिन्न-तनुत्राणः प्राविशत् विपुलम् तमः । माल्यवान् पुनर् आश्वस्तः तस्थौ गिरिः इव अचलः ॥ ७।८।१४ ॥
tayā bhinna-tanutrāṇaḥ prāviśat vipulam tamaḥ . mālyavān punar āśvastaḥ tasthau giriḥ iva acalaḥ .. 7.8.14 ..
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ ७.८.१५ ॥
ततस् कार्ष्णायसम् शूलम् कण्टकैः बहुभिः वतम् । प्रगृह्य अभ्यहनत् देवम् स्तनयोः अन्तरे दृढम् ॥ ७।८।१५ ॥
tatas kārṣṇāyasam śūlam kaṇṭakaiḥ bahubhiḥ vatam . pragṛhya abhyahanat devam stanayoḥ antare dṛḍham .. 7.8.15 ..
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ ७.८.१६ ॥
तथा एव रण-रक्तः तु मुष्टिना वासव-अनुजम् । ताडयित्वा धनुः-मात्रम् अपक्रान्तः निशाचरः ॥ ७।८।१६ ॥
tathā eva raṇa-raktaḥ tu muṣṭinā vāsava-anujam . tāḍayitvā dhanuḥ-mātram apakrāntaḥ niśācaraḥ .. 7.8.16 ..
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ ७.८.१७ ॥
ततस् अम्बरे महान् शब्दः साधु-साधु इति चोदितः । आहत्य राक्षसः विष्णुम् गरुडम् च अपि अताडयत् ॥ ७।८।१७ ॥
tatas ambare mahān śabdaḥ sādhu-sādhu iti coditaḥ . āhatya rākṣasaḥ viṣṇum garuḍam ca api atāḍayat .. 7.8.17 ..
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ ७.८.१८ ॥
वैनतेयः ततस् क्रुद्धः पक्ष-वातेन राक्षसम् । व्यपोहत्-बलवान् वायुः शुष्क-पर्ण-चयम् यथा ॥ ७।८।१८ ॥
vainateyaḥ tatas kruddhaḥ pakṣa-vātena rākṣasam . vyapohat-balavān vāyuḥ śuṣka-parṇa-cayam yathā .. 7.8.18 ..
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ ७.८.१९ ॥
द्विजेन्द्र-पक्ष-वातेन द्रावितम् दृश्य पूर्वजम् । सुमाली स्व-बलैः सार्धम् लङ्काम् अभिमुखः ययौ ॥ ७।८।१९ ॥
dvijendra-pakṣa-vātena drāvitam dṛśya pūrvajam . sumālī sva-balaiḥ sārdham laṅkām abhimukhaḥ yayau .. 7.8.19 ..
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ ७.८.२० ॥
पक्ष-वात-बल-उद्धूतः माल्यवान् अपि राक्षसः । स्व-बलेन समागम्य ययौ लङ्काम् ह्रिया वृतः ॥ ७।८।२० ॥
pakṣa-vāta-bala-uddhūtaḥ mālyavān api rākṣasaḥ . sva-balena samāgamya yayau laṅkām hriyā vṛtaḥ .. 7.8.20 ..
एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ ७.८.२१ ॥
एवम् ते राक्षसा तेन हरिणा कमल-ईक्षण । बहुशस् संयुगे भग्नाः हत-प्रवर-नायकाः ॥ ७।८।२१ ॥
evam te rākṣasā tena hariṇā kamala-īkṣaṇa . bahuśas saṃyuge bhagnāḥ hata-pravara-nāyakāḥ .. 7.8.21 ..
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ ७.८.२२ ॥
अ शक्नुवन्तः ते विष्णुम् प्रतियोद्धुम् भय-अर्दिताः । त्यक्त्वा लङ्काम् गताः वस्तुम् पातालम् सह पत्नयः ॥ ७।८।२२ ॥
a śaknuvantaḥ te viṣṇum pratiyoddhum bhaya-arditāḥ . tyaktvā laṅkām gatāḥ vastum pātālam saha patnayaḥ .. 7.8.22 ..
सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ ७.८.२३ ॥
सुमालिनम् समासाद्य राक्षसम् रघु-सत्तम । स्थिताः प्रख्यात-वीर्याः ते वंशे साल-कटङ्कटे ॥ ७।८।२३ ॥
sumālinam samāsādya rākṣasam raghu-sattama . sthitāḥ prakhyāta-vīryāḥ te vaṃśe sāla-kaṭaṅkaṭe .. 7.8.23 ..
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ॥
ये त्वया निहताः ते तु पौलस्त्याः नाम राक्षसाः । सुमाली माल्यवान् माली ये च तेषाम् पुरःसराः ॥
ye tvayā nihatāḥ te tu paulastyāḥ nāma rākṣasāḥ . sumālī mālyavān mālī ye ca teṣām puraḥsarāḥ ..
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥ ७.८.२४ ॥
सर्वे तेभ्यः महाभागाः रावणात् बलवत्तराः ॥ ७।८।२४ ॥
sarve tebhyaḥ mahābhāgāḥ rāvaṇāt balavattarāḥ .. 7.8.24 ..
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ ७.८.२५ ॥
न च अन्यः राक्षसान् हन्ता सुरारीन् देव-कण्टकान् । ऋते नारायणम् देवम् शङ्ख-चक्र-गदा-धरम् ॥ ७।८।२५ ॥
na ca anyaḥ rākṣasān hantā surārīn deva-kaṇṭakān . ṛte nārāyaṇam devam śaṅkha-cakra-gadā-dharam .. 7.8.25 ..
भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ ७.८.२६ ॥
भवान् नारायणः देवः चतुर्-बाहुः सनातनः । राक्षसान् हन्तुम् उत्पन्नः हि अजेयः प्रभुः अव्ययः ॥ ७।८।२६ ॥
bhavān nārāyaṇaḥ devaḥ catur-bāhuḥ sanātanaḥ . rākṣasān hantum utpannaḥ hi ajeyaḥ prabhuḥ avyayaḥ .. 7.8.26 ..
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ ७.८.२७ ॥
नष्ट-धर्म-व्यवस्थाता काले काले प्रजा-करः । उत्पद्यते दस्यु-वधे शरण-आगत-वत्सलः ॥ ७।८।२७ ॥
naṣṭa-dharma-vyavasthātā kāle kāle prajā-karaḥ . utpadyate dasyu-vadhe śaraṇa-āgata-vatsalaḥ .. 7.8.27 ..
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ ७.८.२८ ॥
एषा मया तव नराधिप राक्षसानाम् उत्पत्तिः अद्य कथिता सकला यथावत् । भूयस् निबोध रघु-सत्तम रावणस्य जन्म-प्रभावम् अतुलम् स सुतस्य सर्वम् ॥ ७।८।२८ ॥
eṣā mayā tava narādhipa rākṣasānām utpattiḥ adya kathitā sakalā yathāvat . bhūyas nibodha raghu-sattama rāvaṇasya janma-prabhāvam atulam sa sutasya sarvam .. 7.8.28 ..
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥ ७.८.२९ ॥
चिरात् सुमाली व्यचरत् रसातलम् स राक्षसः विष्णु-भय-अर्दितः तदा । पुत्रैः च पौत्रैः च समन्वितः बली ततस् तु लङ्काम् अवसत् धनेश्वरः ॥ ७।८।२९ ॥
cirāt sumālī vyacarat rasātalam sa rākṣasaḥ viṣṇu-bhaya-arditaḥ tadā . putraiḥ ca pautraiḥ ca samanvitaḥ balī tatas tu laṅkām avasat dhaneśvaraḥ .. 7.8.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ॥ ८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टमः सर्गः ॥ ८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭamaḥ sargaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In