मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ७.८०.९ ॥
PADACHEDA
मा माम् स्पृश बलात् राजन् कन्या पितृ-वशा हि अहम् । गुरुः पिता मे राज-इन्द्र त्वम् च शिष्यः महात्मनः । व्यसनम् सु महत् क्रुद्धः स ते दद्यात् महा-तपाः ॥ ७।८०।९ ॥
TRANSLITERATION
mā mām spṛśa balāt rājan kanyā pitṛ-vaśā hi aham . guruḥ pitā me rāja-indra tvam ca śiṣyaḥ mahātmanaḥ . vyasanam su mahat kruddhaḥ sa te dadyāt mahā-tapāḥ .. 7.80.9 ..