This overlay will guide you through the buttons:

| |
|
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ ७.८१.१ ॥
स मुहूर्तात् उपश्रुत्य देवर्षिः अमित-प्रभः । स्वम् आश्रमम् शिष्य-वृतः क्षुधा-आर्तः सन् न्यवर्तत ॥ ७।८१।१ ॥
sa muhūrtāt upaśrutya devarṣiḥ amita-prabhaḥ . svam āśramam śiṣya-vṛtaḥ kṣudhā-ārtaḥ san nyavartata .. 7.81.1 ..
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥ ७.८१.२ ॥
सः अपश्यत् अरजाम् दीनाम् रजसा समभिप्लुताम् । ज्योत्स्नाम् इव ग्रह-ग्रस्ताम् प्रत्यूषे न विराजतीम् ॥ ७।८१।२ ॥
saḥ apaśyat arajām dīnām rajasā samabhiplutām . jyotsnām iva graha-grastām pratyūṣe na virājatīm .. 7.81.2 ..
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥ ७.८१.३ ॥
तस्य रोषः समभवत् क्षुधा-आर्तस्य विशेषतः । निर्दहन् इव लोकान् त्रीन् शिष्यान् च एतत् उवाच ह ॥ ७।८१।३ ॥
tasya roṣaḥ samabhavat kṣudhā-ārtasya viśeṣataḥ . nirdahan iva lokān trīn śiṣyān ca etat uvāca ha .. 7.81.3 ..
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥ ७.८१.४ ॥
पश्यध्वम् विपरीतस्य दण्डस्य अविजित-आत्मनः । विपत्तिम् घोर-सङ्काशाम् क्रुद्धाम् अग्नि-शिखाम् इव ॥ ७।८१।४ ॥
paśyadhvam viparītasya daṇḍasya avijita-ātmanaḥ . vipattim ghora-saṅkāśām kruddhām agni-śikhām iva .. 7.81.4 ..
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ७.८१.५ ॥
क्षयः अस्य दुर्मतेः प्राप्तः स अनुगस्य दुरात्मनः । यः प्रदीप्ताम् हुताशस्य शिखाम् वै स्प्रष्टुम् इच्छति ॥ ७।८१।५ ॥
kṣayaḥ asya durmateḥ prāptaḥ sa anugasya durātmanaḥ . yaḥ pradīptām hutāśasya śikhām vai spraṣṭum icchati .. 7.81.5 ..
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् । तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ७.८१.६ ॥
यस्मात् स कृतवान् पापम् ईदृशम् घोर-संहितम् । तस्मात् प्राप्स्यति दुर्मेधाः फलम् पापस्य कर्मणः ॥ ७।८१।६ ॥
yasmāt sa kṛtavān pāpam īdṛśam ghora-saṃhitam . tasmāt prāpsyati durmedhāḥ phalam pāpasya karmaṇaḥ .. 7.81.6 ..
सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७.८१.७ ॥
सप्त-रात्रेण राजा असौ स भृत्य-बल-वाहनः । पाप-कर्म-समाचारः वधम् प्राप्स्यति दुर्मतिः ॥ ७।८१।७ ॥
sapta-rātreṇa rājā asau sa bhṛtya-bala-vāhanaḥ . pāpa-karma-samācāraḥ vadham prāpsyati durmatiḥ .. 7.81.7 ..
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ७.८१.८ ॥
समन्तात् योजन-शतम् विषयम् च अस्य दुर्मतेः । धक्ष्यते पांसु-वर्षेण महता पाकशासनः ॥ ७।८१।८ ॥
samantāt yojana-śatam viṣayam ca asya durmateḥ . dhakṣyate pāṃsu-varṣeṇa mahatā pākaśāsanaḥ .. 7.81.8 ..
सर्वसत्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ॥ ७.८१.९ ॥
सर्व-सत्वानि यानि इह स्थावराणि चराणि च । महता पांसु-वर्षेण विलयम् सर्वतस् अगमन् ॥ ७।८१।९ ॥
sarva-satvāni yāni iha sthāvarāṇi carāṇi ca . mahatā pāṃsu-varṣeṇa vilayam sarvatas agaman .. 7.81.9 ..
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ ७.८१.१० ॥
दण्डस्य विषयः यावत् तावत् सर्व-समुच्छ्रयम् । पांसु-वर्षम् इव अलक्ष्यम् सप्त-रात्रम् भविष्यति ॥ ७।८१।१० ॥
daṇḍasya viṣayaḥ yāvat tāvat sarva-samucchrayam . pāṃsu-varṣam iva alakṣyam sapta-rātram bhaviṣyati .. 7.81.10 ..
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ७.८१.११ ॥
इति उक्त्वा क्रोध-ताम्र-अक्षः तद्-आश्रम-निवासिनम् । जनम् जनपद-अन्तेषु स्थीयताम् इति च अब्रवीत् ॥ ७।८१।११ ॥
iti uktvā krodha-tāmra-akṣaḥ tad-āśrama-nivāsinam . janam janapada-anteṣu sthīyatām iti ca abravīt .. 7.81.11 ..
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः । निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ॥ ७.८१.१२ ॥
श्रुत्वा तु उशनसः वाक्यम् सः आश्रम-आवसथः जनः । निष्क्रान्तः विषयात् तस्मात् स्थानम् चक्रे अथ बाह्यतस् ॥ ७।८१।१२ ॥
śrutvā tu uśanasaḥ vākyam saḥ āśrama-āvasathaḥ janaḥ . niṣkrāntaḥ viṣayāt tasmāt sthānam cakre atha bāhyatas .. 7.81.12 ..
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ ७.८१.१३ ॥
स तथा उक्त्वा मुनि-जनम् अरजाम् इदम् अब्रवीत् । इह एव वस दुर्मेधे आश्रमे सु समाहिता ॥ ७।८१।१३ ॥
sa tathā uktvā muni-janam arajām idam abravīt . iha eva vasa durmedhe āśrame su samāhitā .. 7.81.13 ..
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ ७.८१.१४ ॥
इदम् योजन-पर्यन्तम् सरः सु रुचिर-प्रभम् । अरजे विज्वरा भुङ्क्ष्व कालः च अत्र प्रतीक्ष्यताम् ॥ ७।८१।१४ ॥
idam yojana-paryantam saraḥ su rucira-prabham . araje vijvarā bhuṅkṣva kālaḥ ca atra pratīkṣyatām .. 7.81.14 ..
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ ७.८१.१५ ॥
त्वद्-समीपे च ये सत्त्वाः वासम् एष्यन्ति ताम् निशाम् । अवध्याः पांसु-वर्षेण ते भविष्यन्ति नित्यदा ॥ ७।८१।१५ ॥
tvad-samīpe ca ye sattvāḥ vāsam eṣyanti tām niśām . avadhyāḥ pāṃsu-varṣeṇa te bhaviṣyanti nityadā .. 7.81.15 ..
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता । इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ ७.८१.१६ ॥
श्रुत्वा नियोगम् ब्रह्मर्षेः सा अरजा भार्गवी तदा । तथा इति पितरम् प्राह भार्गवम् भृश-दुःखिता । इति उक्त्वा भार्गवः वासम् अन्यत्र समकारयत् ॥ ७।८१।१६ ॥
śrutvā niyogam brahmarṣeḥ sā arajā bhārgavī tadā . tathā iti pitaram prāha bhārgavam bhṛśa-duḥkhitā . iti uktvā bhārgavaḥ vāsam anyatra samakārayat .. 7.81.16 ..
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ ७.८१.१७ ॥
तत् च राज्यम् नरेन्द्रस्य स भृत्य-बल-वाहनम् । सप्त-अहात् भस्मसात् भूतम् यथा उक्तम् ब्रह्म-वादिना ॥ ७।८१।१७ ॥
tat ca rājyam narendrasya sa bhṛtya-bala-vāhanam . sapta-ahāt bhasmasāt bhūtam yathā uktam brahma-vādinā .. 7.81.17 ..
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप । शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ ७.८१.१८ ॥
तस्य असौ दण्ड-विषयः विन्ध्य-शैवलयोः नृप । शप्तः ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ ७।८१।१८ ॥
tasya asau daṇḍa-viṣayaḥ vindhya-śaivalayoḥ nṛpa . śaptaḥ brahmarṣiṇā tena vaidharmye sahite kṛte .. 7.81.18 ..
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ॥ ७.८१.१९ ॥
ततस् प्रभृति काकुत्स्थ दण्डक-अरण्यम् उच्यते । तपस्विनः स्थिताः हि अत्र जनस्थानम् अतस् अभवत् ॥ ७।८१।१९ ॥
tatas prabhṛti kākutstha daṇḍaka-araṇyam ucyate . tapasvinaḥ sthitāḥ hi atra janasthānam atas abhavat .. 7.81.19 ..
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव । सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ ७.८१.२० ॥
एतत् ते सर्वम् आख्यातम् यत् माम् पृच्छसि राघव । सन्ध्याम् उपासितुम् वीर समयः हि अतिवर्तते ॥ ७।८१।२० ॥
etat te sarvam ākhyātam yat mām pṛcchasi rāghava . sandhyām upāsitum vīra samayaḥ hi ativartate .. 7.81.20 ..
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः । कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ ७.८१.२१ ॥
एते महा-ऋषयः सर्वे पूर्ण-कुम्भाः समन्ततः । कृत-उदकाः नर-व्याघ्रः आदित्यम् पर्युपासते ॥ ७।८१।२१ ॥
ete mahā-ṛṣayaḥ sarve pūrṇa-kumbhāḥ samantataḥ . kṛta-udakāḥ nara-vyāghraḥ ādityam paryupāsate .. 7.81.21 ..
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः । रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ ७.८१.२२ ॥
स तैः ब्राह्मणम् अभ्यस्तम् सहितैः ब्रह्म-वित्तमैः । रविः अस्तम् गतः राम गच्छ उदकम् उपस्पृश ॥ ७।८१।२२ ॥
sa taiḥ brāhmaṇam abhyastam sahitaiḥ brahma-vittamaiḥ . raviḥ astam gataḥ rāma gaccha udakam upaspṛśa .. 7.81.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकाशीतितमः सर्गः ॥ ८१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekāśītitamaḥ sargaḥ .. 81 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In