This overlay will guide you through the buttons:

| |
|
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ॥ ७.८२.१ ॥
ऋषेः वचनम् आज्ञाय रामः सन्ध्याम् उपासितुम् । उपाक्रमत् सरः पुण्यम् अप्सरः-गण-सेवितम् ॥ ७।८२।१ ॥
ṛṣeḥ vacanam ājñāya rāmaḥ sandhyām upāsitum . upākramat saraḥ puṇyam apsaraḥ-gaṇa-sevitam .. 7.82.1 ..
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ ७.८२.२ ॥
तत्र उदकम् उपस्पृश्य सन्ध्याम् अन्वास्य पश्चिमाम् । आश्रमम् प्राविशत् रामः कुम्भयोनेः महात्मनः ॥ ७।८२।२ ॥
tatra udakam upaspṛśya sandhyām anvāsya paścimām . āśramam prāviśat rāmaḥ kumbhayoneḥ mahātmanaḥ .. 7.82.2 ..
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ७.८२.३ ॥
तस्य अगस्त्यः बहुगुणम् कन्द-मूलम् तथा ओषधिम् । शालि-आदीनि पवित्राणि भोजन-अर्थम् अकल्पयत् ॥ ७।८२।३ ॥
tasya agastyaḥ bahuguṇam kanda-mūlam tathā oṣadhim . śāli-ādīni pavitrāṇi bhojana-artham akalpayat .. 7.82.3 ..
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ७.८२.४ ॥
स भुक्तवान् नर-श्रेष्ठः तत् अन्नम् अमृत-उपमम् । प्रीतः च परितुष्टः च ताम् रात्रिम् समुपाविशत् ॥ ७।८२।४ ॥
sa bhuktavān nara-śreṣṭhaḥ tat annam amṛta-upamam . prītaḥ ca parituṣṭaḥ ca tām rātrim samupāviśat .. 7.82.4 ..
प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः । ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ७.८२.५ ॥
प्रभाते काल्यम् उत्थाय कृत्वा आह्निकम् अरिन्दमः । ऋषिम् समुपचक्राम गमनाय रघूत्तमः ॥ ७।८२।५ ॥
prabhāte kālyam utthāya kṛtvā āhnikam arindamaḥ . ṛṣim samupacakrāma gamanāya raghūttamaḥ .. 7.82.5 ..
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् । आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ७.८२.६ ॥
अभिवाद्य अब्रवीत् रामः महा-ऋषिम् कुम्भसम्भवम् । आपृच्छे स्वाम् पुरीम् गन्तुम् माम् अनुज्ञातुम् अर्हसि ॥ ७।८२।६ ॥
abhivādya abravīt rāmaḥ mahā-ṛṣim kumbhasambhavam . āpṛcche svām purīm gantum mām anujñātum arhasi .. 7.82.6 ..
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः । द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७.८२.७ ॥
धन्यः अस्मि अनुगृहीतः अस्मि दर्शनेन महात्मनः । द्रष्टुम् च एव आगमिष्यामि पावन-अर्थम् इह आत्मनः ॥ ७।८२।७ ॥
dhanyaḥ asmi anugṛhītaḥ asmi darśanena mahātmanaḥ . draṣṭum ca eva āgamiṣyāmi pāvana-artham iha ātmanaḥ .. 7.82.7 ..
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् । उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ७.८२.८ ॥
तथा वदति काकुत्स्थे वाक्यम् अद्भुत-दर्शनम् । उवाच परम-प्रीतः धर्मनेत्रः तपोधनः ॥ ७।८२।८ ॥
tathā vadati kākutsthe vākyam adbhuta-darśanam . uvāca parama-prītaḥ dharmanetraḥ tapodhanaḥ .. 7.82.8 ..
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् । पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ७.८२.९ ॥
अत्यद्भुतम् इदम् वाक्यम् तव राम शुभ-अक्षरम् । पावनः सर्व-भूतानाम् त्वम् एव रघुनन्दन ॥ ७।८२।९ ॥
atyadbhutam idam vākyam tava rāma śubha-akṣaram . pāvanaḥ sarva-bhūtānām tvam eva raghunandana .. 7.82.9 ..
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन । पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ॥ ७.८२.१० ॥
मुहूर्तम् अपि राम त्वाम् ये च पश्यन्ति केचन । पाविताः स्वर्ग-भूताः च पूज्याः ते सर्व-दैवतैः ॥ ७।८२।१० ॥
muhūrtam api rāma tvām ye ca paśyanti kecana . pāvitāḥ svarga-bhūtāḥ ca pūjyāḥ te sarva-daivataiḥ .. 7.82.10 ..
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि । हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ७.८२.११ ॥
ये च त्वाम् घोर-चक्षुर्भिः पश्यन्ति प्राणिनः भुवि । हताः ते यम-दण्डेन सद्यस् निरय-गामिनः ॥ ७।८२।११ ॥
ye ca tvām ghora-cakṣurbhiḥ paśyanti prāṇinaḥ bhuvi . hatāḥ te yama-daṇḍena sadyas niraya-gāminaḥ .. 7.82.11 ..
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् । भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ॥ ७.८२.१२ ॥
ईदृशः त्वम् रघु-श्रेष्ठ पावनः सर्व-देहिनाम् । भुवि त्वाम् कथयन्तः अपि सिद्धिम् एष्यन्ति राघव ॥ ७।८२।१२ ॥
īdṛśaḥ tvam raghu-śreṣṭha pāvanaḥ sarva-dehinām . bhuvi tvām kathayantaḥ api siddhim eṣyanti rāghava .. 7.82.12 ..
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् । प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ ७.८२.१३ ॥
गच्छ च अरिष्टम् अव्याग्रः पन्थानम् अकुतोभयम् । प्रशाधि राज्यम् धर्मेण गतिः हि जगतः भवान् ॥ ७।८२।१३ ॥
gaccha ca ariṣṭam avyāgraḥ panthānam akutobhayam . praśādhi rājyam dharmeṇa gatiḥ hi jagataḥ bhavān .. 7.82.13 ..
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ ७.८२.१४ ॥
एवम् उक्तः तु मुनिना प्राञ्जलिः प्रग्रहः नृपः । अभ्यवादयत प्राज्ञः तम् ऋषिम् पुण्य-शालिनम् ॥ ७।८२।१४ ॥
evam uktaḥ tu muninā prāñjaliḥ pragrahaḥ nṛpaḥ . abhyavādayata prājñaḥ tam ṛṣim puṇya-śālinam .. 7.82.14 ..
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् । अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ ७.८२.१५ ॥
अभिवाद्य मुनि-श्रेष्ठम् तान् च सर्वान् तपोधनान् । अध्यारोहत् तत् अव्यग्रः पुष्पकम् हेम-भूषितम् ॥ ७।८२।१५ ॥
abhivādya muni-śreṣṭham tān ca sarvān tapodhanān . adhyārohat tat avyagraḥ puṣpakam hema-bhūṣitam .. 7.82.15 ..
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः । अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ ७.८२.१६ ॥
तम् प्रयान्तम् मुनि-गणाः हि आशीर्वादैः समन्ततः । अपूजयत् महा-इन्द्र-आभम् सहस्राक्षम् इव अमराः ॥ ७।८२।१६ ॥
tam prayāntam muni-gaṇāḥ hi āśīrvādaiḥ samantataḥ . apūjayat mahā-indra-ābham sahasrākṣam iva amarāḥ .. 7.82.16 ..
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते । शशी मेघसमीपस्थो यथा जलधरागमे ॥ ७.८२.१७ ॥
स्वस्थः स ददृशे रामः पुष्पके हेम-भूषिते । शशी मेघ-समीप-स्थः यथा जलधर-आगमे ॥ ७।८२।१७ ॥
svasthaḥ sa dadṛśe rāmaḥ puṣpake hema-bhūṣite . śaśī megha-samīpa-sthaḥ yathā jaladhara-āgame .. 7.82.17 ..
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः । अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ ७.८२.१८ ॥
ततस् अर्धदिवसे प्राप्ते पूज्यमानः ततस् ततस् । अयोध्याम् प्राप्य काकुत्स्थः मध्य-कक्ष्याम् अवारुहत् ॥ ७।८२।१८ ॥
tatas ardhadivase prāpte pūjyamānaḥ tatas tatas . ayodhyām prāpya kākutsthaḥ madhya-kakṣyām avāruhat .. 7.82.18 ..
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् । विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ॥ ७.८२.१९ ॥
ततस् विसृज्य रुचिरम् पुष्पकम् काम-गामि तत् । विसर्जयित्वा गच्छ इति स्वस्ति ते अस्तु इति च प्रभुः ॥ ७।८२।१९ ॥
tatas visṛjya ruciram puṣpakam kāma-gāmi tat . visarjayitvā gaccha iti svasti te astu iti ca prabhuḥ .. 7.82.19 ..
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः । लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ॥ ममागमनमाख्याय शब्दापयत मा चिरम् ॥ ७.८२.२० ॥
कक्षान्तर-विनिक्षिप्तम् द्वास्स्थम् रामः अब्रवीत् वचः । लक्ष्मणम् भरतम् च एव गत्वा तौ लघु-विक्रमौ ॥ मम आगमनम् आख्याय शब्दापयत मा चिरम् ॥ ७।८२।२० ॥
kakṣāntara-vinikṣiptam dvāsstham rāmaḥ abravīt vacaḥ . lakṣmaṇam bharatam ca eva gatvā tau laghu-vikramau .. mama āgamanam ākhyāya śabdāpayata mā ciram .. 7.82.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्यशीतितमः सर्गः ॥ ८२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सर्गः ॥ ८२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe sargaḥ .. 82 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In