This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ ७.८३.१ ॥
तत् श्रुत्वा भाषितम् तस्य रामस्य अक्लिष्ट-कर्मणः । द्वास्स्थः कुमारौ आहूय राघवाय न्यवेदयत् ॥ ७।८३।१ ॥
tat śrutvā bhāṣitam tasya rāmasya akliṣṭa-karmaṇaḥ . dvāssthaḥ kumārau āhūya rāghavāya nyavedayat .. 7.83.1 ..
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ ७.८३.२ ॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरत-लक्ष्मणौ । परिष्वज्य तदा रामः वाक्यम् एतत् उवाच ह ॥ ७।८३।२ ॥
dṛṣṭvā tu rāghavaḥ prāptau priyau bharata-lakṣmaṇau . pariṣvajya tadā rāmaḥ vākyam etat uvāca ha .. 7.83.2 ..
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ ७.८३.३ ॥
कृतम् मया यथा तथ्यम् द्विज-कार्यम् अनुत्तमम् । धर्म-सेतुम् अथो भूयस् कर्तुम् इच्छामि राघवौ ॥ ७।८३।३ ॥
kṛtam mayā yathā tathyam dvija-kāryam anuttamam . dharma-setum atho bhūyas kartum icchāmi rāghavau .. 7.83.3 ..
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ॥ ७.८३.४ ॥
अक्षय्यः च अव्ययः च एव धर्म-सेतुः मतः मम । धर्म-प्रसाधकम् हि एतत् सर्व-पाप-प्रणाशनम् ॥ ७।८३।४ ॥
akṣayyaḥ ca avyayaḥ ca eva dharma-setuḥ mataḥ mama . dharma-prasādhakam hi etat sarva-pāpa-praṇāśanam .. 7.83.4 ..
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ७.८३.५ ॥
युवाभ्याम् आत्म-भूताभ्याम् राजसूयम् अनुत्तमम् । सहितः यष्टुम् इच्छामि तत्र धर्मः हि शाश्वतः ॥ ७।८३।५ ॥
yuvābhyām ātma-bhūtābhyām rājasūyam anuttamam . sahitaḥ yaṣṭum icchāmi tatra dharmaḥ hi śāśvataḥ .. 7.83.5 ..
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ७.८३.६ ॥
इष्ट्वा तु राजसूयेन मित्रः शत्रु-निबर्हणः । सु हुतेन सु यज्ञेन वरुण-त्वम् उपागमत् ॥ ७।८३।६ ॥
iṣṭvā tu rājasūyena mitraḥ śatru-nibarhaṇaḥ . su hutena su yajñena varuṇa-tvam upāgamat .. 7.83.6 ..
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७.८३.७ ॥
सोमः च राजसूयेन इष्ट्वा धर्मेण धर्म-विद् । प्राप्तः च सर्व-लोकेषु कीर्ति-स्थानम् च शाश्वतम् ॥ ७।८३।७ ॥
somaḥ ca rājasūyena iṣṭvā dharmeṇa dharma-vid . prāptaḥ ca sarva-lokeṣu kīrti-sthānam ca śāśvatam .. 7.83.7 ..
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ७.८३.८ ॥
अस्मिन् अहनि यत् श्रेयः चिन्त्यताम् तत् मया सह । हितम् च आयति-युक्तम् च प्रयतौ कर्तुम् अर्हथः ॥ ७।८३।८ ॥
asmin ahani yat śreyaḥ cintyatām tat mayā saha . hitam ca āyati-yuktam ca prayatau kartum arhathaḥ .. 7.83.8 ..
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.८३.९ ॥
श्रुत्वा तु राघवस्य एतत् वाक्यम् वाक्य-विशारदः । भरतः प्राञ्जलिः भूत्वा वाक्यम् एतत् उवाच ह ॥ ७।८३।९ ॥
śrutvā tu rāghavasya etat vākyam vākya-viśāradaḥ . bharataḥ prāñjaliḥ bhūtvā vākyam etat uvāca ha .. 7.83.9 ..
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ ७.८३.१० ॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिताः महा-बाहो यशः च अमित-विक्रम ॥ ७।८३।१० ॥
tvayi dharmaḥ paraḥ sādho tvayi sarvā vasundharā . pratiṣṭhitāḥ mahā-bāho yaśaḥ ca amita-vikrama .. 7.83.10 ..
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥ ७.८३.११ ॥
महीपालाः च सर्वे त्वाम् प्रजापतिम् इव अमराः । निरीक्षन्ते महात्मानम् लोक-अनाथम् यथा वयम् ॥ ७।८३।११ ॥
mahīpālāḥ ca sarve tvām prajāpatim iva amarāḥ . nirīkṣante mahātmānam loka-anātham yathā vayam .. 7.83.11 ..
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ॥ ७.८३.१२ ॥
पुत्राः च पितृ-वत् राजन् पश्यन्ति त्वाम् महा-बल । पृथिव्याः गति-भूतः असि प्राणिनाम् अपि राघव ॥ ७।८३।१२ ॥
putrāḥ ca pitṛ-vat rājan paśyanti tvām mahā-bala . pṛthivyāḥ gati-bhūtaḥ asi prāṇinām api rāghava .. 7.83.12 ..
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ ७.८३.१३ ॥
स त्वम् एवंविधम् यज्ञम् आहर्तासि कथम् नृप । पृथिव्याम् राज-वंशानाम् विनाशः यत्र दृश्यते ॥ ७।८३।१३ ॥
sa tvam evaṃvidham yajñam āhartāsi katham nṛpa . pṛthivyām rāja-vaṃśānām vināśaḥ yatra dṛśyate .. 7.83.13 ..
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ ७.८३.१४ ॥
पृथिव्याम् ये च पुरुषाः राजन् पौरुषम् आगताः । सर्वेषाम् भविता तत्र सङ्क्षयः सर्व-कोप-जः ॥ ७।८३।१४ ॥
pṛthivyām ye ca puruṣāḥ rājan pauruṣam āgatāḥ . sarveṣām bhavitā tatra saṅkṣayaḥ sarva-kopa-jaḥ .. 7.83.14 ..
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ ७.८३.१५ ॥
स त्वम् पुरुष-शार्दूल गुणैः अतुल-विक्रम । पृथिवीम् ना अर्हसे हन्तुम् वशे हि तव वर्तते ॥ ७।८३।१५ ॥
sa tvam puruṣa-śārdūla guṇaiḥ atula-vikrama . pṛthivīm nā arhase hantum vaśe hi tava vartate .. 7.83.15 ..
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ ७.८३.१६ ॥
भरतस्य तु तत् वाक्यम् श्रुत्वा अमृत-मयम् तदा । प्रहर्षम् अतुलम् लेभे रामः सत्य-पराक्रमः ॥ ७।८३।१६ ॥
bharatasya tu tat vākyam śrutvā amṛta-mayam tadā . praharṣam atulam lebhe rāmaḥ satya-parākramaḥ .. 7.83.16 ..
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ॥ ७.८३.१७ ॥
उवाच च शुभम् वाक्यम् कैकेयी-आनन्द-वर्धनम् । प्रीतः अस्मि परितुष्टः अस्मि तव अद्य वचने अनघ ॥ ७।८३।१७ ॥
uvāca ca śubham vākyam kaikeyī-ānanda-vardhanam . prītaḥ asmi parituṣṭaḥ asmi tava adya vacane anagha .. 7.83.17 ..
इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ ७.८३.१८ ॥
इदम् वचनम् अक्लीबम् त्वया धर्म-समाहितम् । व्याहृतम् पुरुष-व्याघ्र पृथिव्याः परिपालनम् ॥ ७।८३।१८ ॥
idam vacanam aklībam tvayā dharma-samāhitam . vyāhṛtam puruṣa-vyāghra pṛthivyāḥ paripālanam .. 7.83.18 ..
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ ७.८३.१९ ॥
एष्यत् अस्मद्-अभिप्रायात् राजसूयात् क्रतु-उत्तमात् । निवर्तयामि धर्म-ज्ञ तव सु व्याहृतेन च ॥ ७।८३।१९ ॥
eṣyat asmad-abhiprāyāt rājasūyāt kratu-uttamāt . nivartayāmi dharma-jña tava su vyāhṛtena ca .. 7.83.19 ..
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ॥ ७.८३.२० ॥
लोक-पीडा-करम् कर्म न कर्तव्यम् विचक्षणैः । बालानाम् तु शुभम् वाक्यम् ग्राह्य लक्ष्मण-पूर्वज । तस्मात् शृणोमि ते वाक्यम् साधु युक्तम् महामते ॥ ७।८३।२० ॥
loka-pīḍā-karam karma na kartavyam vicakṣaṇaiḥ . bālānām tu śubham vākyam grāhya lakṣmaṇa-pūrvaja . tasmāt śṛṇomi te vākyam sādhu yuktam mahāmate .. 7.83.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe tryaśītitamaḥ sargaḥ .. 83 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In