This overlay will guide you through the buttons:

| |
|
तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ ७.८४.१ ॥
तथा उक्तवति रामे तु भरते च महात्मनि । लक्ष्मणः अथ शुभम् वाक्यम् उवाच रघुनन्दनम् ॥ ७।८४।१ ॥
tathā uktavati rāme tu bharate ca mahātmani . lakṣmaṇaḥ atha śubham vākyam uvāca raghunandanam .. 7.84.1 ..
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ ७.८४.२ ॥
अश्वमेधः महा-यज्ञः पावनः सर्व-पाप्मनाम् । पावनः तव दुर्धर्षः रोचताम् रघुनन्दन ॥ ७।८४।२ ॥
aśvamedhaḥ mahā-yajñaḥ pāvanaḥ sarva-pāpmanām . pāvanaḥ tava durdharṣaḥ rocatām raghunandana .. 7.84.2 ..
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ७.८४.३ ॥
श्रूयते हि पुरावृत्तम् वासवे सु महात्मनि । ब्रह्महत्या-वृतः शक्रः हयमेधेन पावितः ॥ ७।८४।३ ॥
śrūyate hi purāvṛttam vāsave su mahātmani . brahmahatyā-vṛtaḥ śakraḥ hayamedhena pāvitaḥ .. 7.84.3 ..
पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥ ७.८४.४ ॥
पुरा किल महा-बाहो देव-असुर-समागमे । वृत्रः नाम महान् आसीत् दैतेयः लोक-सम्मतः ॥ ७।८४।४ ॥
purā kila mahā-bāho deva-asura-samāgame . vṛtraḥ nāma mahān āsīt daiteyaḥ loka-sammataḥ .. 7.84.4 ..
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ७.८४.५ ॥
विस्तीर्णः योजन-शतम् उच्छ्रितः त्रिगुणम् ततस् । अनुरागेण लोकान् त्रीन् स्नेहात् पश्यति सर्वतस् ॥ ७।८४।५ ॥
vistīrṇaḥ yojana-śatam ucchritaḥ triguṇam tatas . anurāgeṇa lokān trīn snehāt paśyati sarvatas .. 7.84.5 ..
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ७.८४.६ ॥
धर्म-ज्ञः च कृतज्ञः च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीम् स्फीताम् धर्मेण सु समाहितः ॥ ७।८४।६ ॥
dharma-jñaḥ ca kṛtajñaḥ ca buddhyā ca pariniṣṭhitaḥ . śaśāsa pṛthivīm sphītām dharmeṇa su samāhitaḥ .. 7.84.6 ..
तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ॥ ७.८४.७ ॥
तस्मिन् प्रशासति तदा सर्व-कामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ॥ ७।८४।७ ॥
tasmin praśāsati tadā sarva-kāmadughā mahī . rasavanti prabhūnāni mūlāni ca phalāni ca .. 7.84.7 ..
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ७.८४.८ ॥
अ कृष्ट-पच्या पृथिवी सु सम्पन्ना महात्मनः । स राज्यम् तादृशम् भुङ्क्ते स्फीतम् अद्भुत-दर्शनम् ॥ ७।८४।८ ॥
a kṛṣṭa-pacyā pṛthivī su sampannā mahātmanaḥ . sa rājyam tādṛśam bhuṅkte sphītam adbhuta-darśanam .. 7.84.8 ..
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥ ७.८४.९ ॥
तस्य बुद्धिः समुप्तन्ना तपः कुर्याम् अनुत्तमम् । तपः हि परमम् श्रेयः सम्मोहम् इतरत् सुखम् ॥ ७।८४।९ ॥
tasya buddhiḥ samuptannā tapaḥ kuryām anuttamam . tapaḥ hi paramam śreyaḥ sammoham itarat sukham .. 7.84.9 ..
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ ७.८४.१० ॥
स निक्षिप्य सुतम् ज्येष्ठम् पौरेषु मधुर-ईश्वरम् । तपः उग्रम् समातिष्ठत् तापयन् सर्व-देवताः ॥ ७।८४।१० ॥
sa nikṣipya sutam jyeṣṭham paureṣu madhura-īśvaram . tapaḥ ugram samātiṣṭhat tāpayan sarva-devatāḥ .. 7.84.10 ..
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ ७.८४.११ ॥
तपः तप्यति वृत्रे तु वासवः परम-आर्त-वत् । विष्णुम् समुपसङ्क्रम्य वाक्यम् एतत् उवाच ह ॥ ७।८४।११ ॥
tapaḥ tapyati vṛtre tu vāsavaḥ parama-ārta-vat . viṣṇum samupasaṅkramya vākyam etat uvāca ha .. 7.84.11 ..
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ ७.८४.१२ ॥
तपस्यता महा-बाहो लोकाः वृत्रेण निर्जिताः । बलवान् स हि धर्म-आत्मा न एनम् शक्ष्यामि शासितुम् ॥ ७।८४।१२ ॥
tapasyatā mahā-bāho lokāḥ vṛtreṇa nirjitāḥ . balavān sa hi dharma-ātmā na enam śakṣyāmi śāsitum .. 7.84.12 ..
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ ७.८४.१३ ॥
यदि असौ तपः आतिष्ठेत् भूयस् एव असुर-ईश्वर । यावत् लोकाः धरिष्यन्ति तावत् अस्य वश-अनुगाः ॥ ७।८४।१३ ॥
yadi asau tapaḥ ātiṣṭhet bhūyas eva asura-īśvara . yāvat lokāḥ dhariṣyanti tāvat asya vaśa-anugāḥ .. 7.84.13 ..
तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ ७.८४.१४ ॥
तम् च एनम् परम-उदारम् उपेक्षसि महा-बलम् । क्षणम् हि न भवेत् वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ ७।८४।१४ ॥
tam ca enam parama-udāram upekṣasi mahā-balam . kṣaṇam hi na bhavet vṛtraḥ kruddhe tvayi sureśvara .. 7.84.14 ..
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ ७.८४.१५ ॥
यदा हि प्रीति-संयोगम् त्वया विष्णो समागतः । तदा प्रभृति लोकानाम् नाथ-त्वम् उपलब्धवान् ॥ ७।८४।१५ ॥
yadā hi prīti-saṃyogam tvayā viṣṇo samāgataḥ . tadā prabhṛti lokānām nātha-tvam upalabdhavān .. 7.84.15 ..
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥ ७.८४.१६ ॥
स त्वम् प्रसादम् लोकानाम् कुरुष्व सु समाहितः । त्वद्-कृतेन हि सर्वम् स्या अ प्रशान्तम् अरुजम् जगत् ॥ ७।८४।१६ ॥
sa tvam prasādam lokānām kuruṣva su samāhitaḥ . tvad-kṛtena hi sarvam syā a praśāntam arujam jagat .. 7.84.16 ..
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ ७.८४.१७ ॥
इमे हि सर्वे विष्णो त्वाम् निरीक्षन्ते दिवौकसः । वृत्र-घातेन महता तेषाम् साह्यम् कुरुष्व ह ॥ ७।८४।१७ ॥
ime hi sarve viṣṇo tvām nirīkṣante divaukasaḥ . vṛtra-ghātena mahatā teṣām sāhyam kuruṣva ha .. 7.84.17 ..
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ ७.८४.१८ ॥
त्वया हि नित्यशस् साह्यम् कृतम् एषाम् महात्मनाम् । असह्यम् इदम् अन्येषाम् अगतीनाम् गतिः भवान् ॥ ७।८४।१८ ॥
tvayā hi nityaśas sāhyam kṛtam eṣām mahātmanām . asahyam idam anyeṣām agatīnām gatiḥ bhavān .. 7.84.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe caturaśītitamaḥ sargaḥ .. 84 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In