This overlay will guide you through the buttons:

| |
|
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ ७.८५.१ ॥
लक्ष्मणस्य तु तत् वाक्यम् श्रुत्वा शत्रु-निबर्हणः । वृत्र-घातम् अशेषेण कथय इति आह सुव्रत ॥ ७।८५।१ ॥
lakṣmaṇasya tu tat vākyam śrutvā śatru-nibarhaṇaḥ . vṛtra-ghātam aśeṣeṇa kathaya iti āha suvrata .. 7.85.1 ..
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ ७.८५.२ ॥
राघवेण एवम् उक्तः तु सुमित्रा-आनन्द-वर्धनः । भूयस् एव कथाम् दिव्याम् कथयामास सुव्रतः ॥ ७।८५।२ ॥
rāghaveṇa evam uktaḥ tu sumitrā-ānanda-vardhanaḥ . bhūyas eva kathām divyām kathayāmāsa suvrataḥ .. 7.85.2 ..
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् । विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ७.८५.३ ॥
सहस्राक्ष-वचः श्रुत्वा सर्वेषाम् च दिवौकसाम् । विष्णुः देवान् उवाच इदम् सर्वान् इन्द्र-पुरोगमान् ॥ ७।८५।३ ॥
sahasrākṣa-vacaḥ śrutvā sarveṣām ca divaukasām . viṣṇuḥ devān uvāca idam sarvān indra-purogamān .. 7.85.3 ..
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः । तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ७.८५.४ ॥
पूर्वम् सौहृद-बद्धः अस्मि वृत्रस्य ह महात्मनः । तेन युष्मद्-प्रिय-अर्थम् हि न अहम् हन्मि महा-असुरम् ॥ ७।८५।४ ॥
pūrvam sauhṛda-baddhaḥ asmi vṛtrasya ha mahātmanaḥ . tena yuṣmad-priya-artham hi na aham hanmi mahā-asuram .. 7.85.4 ..
अवश्यं करणीयं च भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ७.८५.५ ॥
अवश्यम् करणीयम् च भवताम् सुखम् उत्तमम् । तस्मात् उपायम् आख्यास्ये येन वृत्रः निहन्यते ॥ ७।८५।५ ॥
avaśyam karaṇīyam ca bhavatām sukham uttamam . tasmāt upāyam ākhyāsye yena vṛtraḥ nihanyate .. 7.85.5 ..
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ७.८५.६ ॥
त्रिधाभूतम् करिष्यामि हि आत्मानम् सुर-सत्तमाः । तेन वृत्रम् सहस्राक्षः वधिष्यति न संशयः ॥ ७।८५।६ ॥
tridhābhūtam kariṣyāmi hi ātmānam sura-sattamāḥ . tena vṛtram sahasrākṣaḥ vadhiṣyati na saṃśayaḥ .. 7.85.6 ..
एकांशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७.८५.७ ॥
एक-अंशः वासवम् यातु द्वितीयः वज्रम् एव तु । तृतीयः भू-तलम् शक्रः तदा वृत्रम् वधिष्यति ॥ ७।८५।७ ॥
eka-aṃśaḥ vāsavam yātu dvitīyaḥ vajram eva tu . tṛtīyaḥ bhū-talam śakraḥ tadā vṛtram vadhiṣyati .. 7.85.7 ..
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ७.८५.८ ॥
तथा ब्रुवति देवेशे देवाः वाक्यम् अथ अब्रुवन् । एवम् एतत् न सन्देहः यथा वदसि दैत्यहन् ॥ ७।८५।८ ॥
tathā bruvati deveśe devāḥ vākyam atha abruvan . evam etat na sandehaḥ yathā vadasi daityahan .. 7.85.8 ..
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ॥ ७.८५.९ ॥
भद्रम् ते अस्तु गमिष्यामः वृत्र-असुर-वध-एषिणः । भजस्व परम-उदार वासवम् स्वेन तेजसा ॥ ७।८५।९ ॥
bhadram te astu gamiṣyāmaḥ vṛtra-asura-vadha-eṣiṇaḥ . bhajasva parama-udāra vāsavam svena tejasā .. 7.85.9 ..
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ ७.८५.१० ॥
ततस् सर्वे महात्मानः सहस्राक्ष-पुरोगमाः । तदा अरण्यम् उपाक्रामन् यत्र वृत्रः महा-असुरः ॥ ७।८५।१० ॥
tatas sarve mahātmānaḥ sahasrākṣa-purogamāḥ . tadā araṇyam upākrāman yatra vṛtraḥ mahā-asuraḥ .. 7.85.10 ..
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ७.८५.११ ॥
ते पश्यन् तेजसा भूतम् तप्यन्तम् असुर-उत्तमम् । पिबन्तम् इव लोकान् त्रीन् निर्दहन्तम् इव अम्बरम् ॥ ७।८५।११ ॥
te paśyan tejasā bhūtam tapyantam asura-uttamam . pibantam iva lokān trīn nirdahantam iva ambaram .. 7.85.11 ..
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ ७.८५.१२ ॥
दृष्ट्वा एव च असुर-श्रेष्ठम् देवाः त्रासम् उपागमन् । कथम् एनम् वधिष्यामः कथम् न स्यात् पराजयः ॥ ७।८५।१२ ॥
dṛṣṭvā eva ca asura-śreṣṭham devāḥ trāsam upāgaman . katham enam vadhiṣyāmaḥ katham na syāt parājayaḥ .. 7.85.12 ..
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ ७.८५.१३ ॥
तेषाम् चिन्तयताम् तत्र सहस्राक्षः पुरन्दरः । वज्रम् प्रगृह्य पाणिभ्याम् प्राहिणोत् वृत्र-मूर्धनि ॥ ७।८५।१३ ॥
teṣām cintayatām tatra sahasrākṣaḥ purandaraḥ . vajram pragṛhya pāṇibhyām prāhiṇot vṛtra-mūrdhani .. 7.85.13 ..
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ॥ ७.८५.१४ ॥
कालाग्निना इव घोरेण तप्तेन एव महा-अर्चिषा । पतता वृत्रशिरसा जगत्-त्रासम् उपागमत् ॥ ७।८५।१४ ॥
kālāgninā iva ghoreṇa taptena eva mahā-arciṣā . patatā vṛtraśirasā jagat-trāsam upāgamat .. 7.85.14 ..
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ ७.८५.१५ ॥
असम्भाव्यम् वधम् तस्य वृत्रस्य विबुध-अधिपः । चिन्तयानः जगाम आशु लोकस्य अन्तम् महा-यशाः ॥ ७।८५।१५ ॥
asambhāvyam vadham tasya vṛtrasya vibudha-adhipaḥ . cintayānaḥ jagāma āśu lokasya antam mahā-yaśāḥ .. 7.85.15 ..
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ ७.८५.१६ ॥
तम् इन्द्रम् ब्रह्महत्या आ आशु गच्छन्तम् अनुगच्छति । अपतत् च अस्य गात्रेषु तम् इन्द्रम् दुःखम् आविशत् ॥ ७।८५।१६ ॥
tam indram brahmahatyā ā āśu gacchantam anugacchati . apatat ca asya gātreṣu tam indram duḥkham āviśat .. 7.85.16 ..
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ ७.८५.१७ ॥
हत-अरयः प्रनष्ट-इन्द्राः देवाः स अग्नि-पुरोगमाः । विष्णुम् त्रिभुवन-ईशानम् मुहुर् मुहुर् अपूजयन् ॥ ७।८५।१७ ॥
hata-arayaḥ pranaṣṭa-indrāḥ devāḥ sa agni-purogamāḥ . viṣṇum tribhuvana-īśānam muhur muhur apūjayan .. 7.85.17 ..
त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.८५.१८ ॥
त्वम् गतिः परमेशान पूर्वजः जगतः पिता । रक्षा-अर्थम् सर्व-भूतानाम् विष्णु-त्वम् उपजग्मिवान् ॥ ७।८५।१८ ॥
tvam gatiḥ parameśāna pūrvajaḥ jagataḥ pitā . rakṣā-artham sarva-bhūtānām viṣṇu-tvam upajagmivān .. 7.85.18 ..
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ ७.८५.१९ ॥
हतः च अयम् त्वया वृत्रः ब्रह्महत्या च वासवम् । बाधते सुर-शार्दूल मोक्षम् तस्याः विनिर्दिश ॥ ७।८५।१९ ॥
hataḥ ca ayam tvayā vṛtraḥ brahmahatyā ca vāsavam . bādhate sura-śārdūla mokṣam tasyāḥ vinirdiśa .. 7.85.19 ..
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ ७.८५.२० ॥
तेषाम् तत् वचनम् श्रुत्वा देवानाम् विष्णुः अब्रवीत् । माम् एव यजताम् शक्रः पावयिष्यामि वज्रिणम् ॥ ७।८५।२० ॥
teṣām tat vacanam śrutvā devānām viṣṇuḥ abravīt . mām eva yajatām śakraḥ pāvayiṣyāmi vajriṇam .. 7.85.20 ..
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ ७.८५.२१ ॥
पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः । पुनर् एष्यति देवानाम् इन्द्र-त्वम् अकुतोभयम् ॥ ७।८५।२१ ॥
puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ . punar eṣyati devānām indra-tvam akutobhayam .. 7.85.21 ..
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ ७.८५.२२ ॥
एवम् सन्दिश्य ताम् वाणीम् देवानाम् अमृत-उपमाम् । जगाम विष्णुः देवेशः स्तूयमानः त्रिविष्टपम् ॥ ७।८५।२२ ॥
evam sandiśya tām vāṇīm devānām amṛta-upamām . jagāma viṣṇuḥ deveśaḥ stūyamānaḥ triviṣṭapam .. 7.85.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcāśītitamaḥ sargaḥ .. 85 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In