This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ ७.८७.१ ॥
तत् श्रुत्वा लक्ष्मणेन उक्तम् वाक्यम् वाक्य-विशारदः । प्रत्युवाच महा-तेजाः प्रहसन् राघवः वचः ॥ ७।८७।१ ॥
tat śrutvā lakṣmaṇena uktam vākyam vākya-viśāradaḥ . pratyuvāca mahā-tejāḥ prahasan rāghavaḥ vacaḥ .. 7.87.1 ..
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ ७.८७.२ ॥
एवम् एव नर-श्रेष्ठ यथा वदसि लक्ष्मण । वृत्र-घातम् अशेषेण वाजिमेध-फलम् च यत् ॥ ७।८७।२ ॥
evam eva nara-śreṣṭha yathā vadasi lakṣmaṇa . vṛtra-ghātam aśeṣeṇa vājimedha-phalam ca yat .. 7.87.2 ..
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥ ७.८७.३ ॥
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । पुत्रः बाह्लीश्वरः श्रीमान् अनिलः नाम महा-आशयाः ॥ ७।८७।३ ॥
śrūyate hi purā saumya kardamasya prajāpateḥ . putraḥ bāhlīśvaraḥ śrīmān anilaḥ nāma mahā-āśayāḥ .. 7.87.3 ..
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः । राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ७.८७.४ ॥
स राजा पृथिवीम् सर्वाम् वशे कृत्वा सु धार्मिकः । राज्यम् च एव नर-व्याघ्र पुत्र-वत् पर्यपालयत् ॥ ७।८७।४ ॥
sa rājā pṛthivīm sarvām vaśe kṛtvā su dhārmikaḥ . rājyam ca eva nara-vyāghra putra-vat paryapālayat .. 7.87.4 ..
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ ७.८७.५ ॥
सुरैः च परम-उदारैः दैतेयैः च महाधनैः । नाग-राक्षस-गन्धर्वैः यक्षैः च सु महात्मभिः ॥ ७।८७।५ ॥
suraiḥ ca parama-udāraiḥ daiteyaiḥ ca mahādhanaiḥ . nāga-rākṣasa-gandharvaiḥ yakṣaiḥ ca su mahātmabhiḥ .. 7.87.5 ..
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ७.८७.६ ॥
पूज्यते नित्यशस् सौम्य भय-आर्तैः रघुनन्दन । अबिभ्यन् च त्रयः लोकाः स रोषस्य महात्मनः ॥ ७।८७।६ ॥
pūjyate nityaśas saumya bhaya-ārtaiḥ raghunandana . abibhyan ca trayaḥ lokāḥ sa roṣasya mahātmanaḥ .. 7.87.6 ..
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥ ७.८७.७ ॥
स राजा तादृशः हि आसीत् धर्मे वीर्ये च निष्ठितः । बुद्ध्या च परम-उदारः वाह्लीकेशः महा-यशाः ॥ ७।८७।७ ॥
sa rājā tādṛśaḥ hi āsīt dharme vīrye ca niṣṭhitaḥ . buddhyā ca parama-udāraḥ vāhlīkeśaḥ mahā-yaśāḥ .. 7.87.7 ..
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ७.८७.८ ॥
स प्रचक्रे महा-बाहुः मृगयाम् रुचिरे वने । चैत्रे मनोरमे मासि स भृत्य-बल-वाहनः ॥ ७।८७।८ ॥
sa pracakre mahā-bāhuḥ mṛgayām rucire vane . caitre manorame māsi sa bhṛtya-bala-vāhanaḥ .. 7.87.8 ..
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः । हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ७.८७.९ ॥
प्रजघ्ने च नृपः अरण्ये मृगान् शत-सहस्रशस् । हत्वा एव तृप्तिः ना अभूत् च राज्ञः तस्य महात्मनः ॥ ७।८७।९ ॥
prajaghne ca nṛpaḥ araṇye mṛgān śata-sahasraśas . hatvā eva tṛptiḥ nā abhūt ca rājñaḥ tasya mahātmanaḥ .. 7.87.9 ..
नानामृगाणामयुतं वध्यमानं महात्मना । यत्र जातो माहासेनस्तं देशमुपचक्रमे ॥ ७.८७.१० ॥
नाना मृगाणाम् अयुतम् वध्यमानम् महात्मना । यत्र जातः माहासेनः तम् देशम् उपचक्रमे ॥ ७।८७।१० ॥
nānā mṛgāṇām ayutam vadhyamānam mahātmanā . yatra jātaḥ māhāsenaḥ tam deśam upacakrame .. 7.87.10 ..
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः । रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ७.८७.११ ॥
तस्मिन् प्रदेशे देवेश शैलराजसुताम् हरः । रमयामास दुर्धर्षः सर्वैः अनुचरैः सह ॥ ७।८७।११ ॥
tasmin pradeśe deveśa śailarājasutām haraḥ . ramayāmāsa durdharṣaḥ sarvaiḥ anucaraiḥ saha .. 7.87.11 ..
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ ७.८७.१२ ॥
कृत्वा स्त्री-रूपम् आत्मानम् उमा ईशः गोपतिध्वजः । देव्याः प्रिय-चिकीर्षुः सन् तस्मिन् पर्वत-निर्झरे ॥ ७।८७।१२ ॥
kṛtvā strī-rūpam ātmānam umā īśaḥ gopatidhvajaḥ . devyāḥ priya-cikīrṣuḥ san tasmin parvata-nirjhare .. 7.87.12 ..
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ॥ ७.८७.१३ ॥
ये तु तत्र वन-उद्देशे सत्त्वाः पुरुष-वादिनः । वृक्षाः पुरुष-नामानः ते अभवन् स्त्री-जनाः तदा ॥ ७।८७।१३ ॥
ye tu tatra vana-uddeśe sattvāḥ puruṣa-vādinaḥ . vṛkṣāḥ puruṣa-nāmānaḥ te abhavan strī-janāḥ tadā .. 7.87.13 ..
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह । एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ ७.८७.१४ ॥
यत् च किञ्चन तत् सर्वम् नारी-सञ्ज्ञम् बभूव ह । एतस्मिन् अन्तरे राजा सः इलः कर्दम-आत्मजः । निघ्नत्-मृग-सहस्राणि तम् देशम् उपचक्रमे ॥ ७।८७।१४ ॥
yat ca kiñcana tat sarvam nārī-sañjñam babhūva ha . etasmin antare rājā saḥ ilaḥ kardama-ātmajaḥ . nighnat-mṛga-sahasrāṇi tam deśam upacakrame .. 7.87.14 ..
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् । आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ ७.८७.१५ ॥
स दृष्ट्वा स्त्री-कृतम् सर्वम् स व्याल-मृग-पक्षकम् । आत्मनम् स्त्री-कृतम् च एव स अनुगम् रघुनन्दन ॥ ७।८७।१५ ॥
sa dṛṣṭvā strī-kṛtam sarvam sa vyāla-mṛga-pakṣakam . ātmanam strī-kṛtam ca eva sa anugam raghunandana .. 7.87.15 ..
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् । उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ ७.८७.१६ ॥
तस्य दुःखम् महत् च आसीत् दृष्ट्वा आत्मानम् तथागतम् । उमापतेः च तत् कर्म ज्ञात्वा त्रासम् उपागमत् ॥ ७।८७।१६ ॥
tasya duḥkham mahat ca āsīt dṛṣṭvā ātmānam tathāgatam . umāpateḥ ca tat karma jñātvā trāsam upāgamat .. 7.87.16 ..
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । जगाम शरणं राजा सभृत्यबलवाहनः ॥ ७.८७.१७ ॥
ततस् देवम् महात्मानम् शितिकण्ठम् कपर्दिनम् । जगाम शरणम् राजा स भृत्य-बल-वाहनः ॥ ७।८७।१७ ॥
tatas devam mahātmānam śitikaṇṭham kapardinam . jagāma śaraṇam rājā sa bhṛtya-bala-vāhanaḥ .. 7.87.17 ..
ततः प्रहस्य वरदः सह देव्या महेश्वरः । प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ ७.८७.१८ ॥
ततस् प्रहस्य वर-दः सह देव्या महेश्वरः । प्रजापति-सुतम् वाक्यम् उवाच वर-दः स्वयम् ॥ ७।८७।१८ ॥
tatas prahasya vara-daḥ saha devyā maheśvaraḥ . prajāpati-sutam vākyam uvāca vara-daḥ svayam .. 7.87.18 ..
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ ७.८७.१९ ॥
उत्तिष्ठ उत्तिष्ठ राजर्षे कार्दमेय महा-बल । पुरुष-त्वम् ऋते सौम्य वरम् वरय सुव्रत ॥ ७।८७।१९ ॥
uttiṣṭha uttiṣṭha rājarṣe kārdameya mahā-bala . puruṣa-tvam ṛte saumya varam varaya suvrata .. 7.87.19 ..
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना । न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ ७.८७.२० ॥
ततस् स राजा दुःख-आर्तः प्रत्याख्यातः महात्मना । न च जग्राह स्त्री-भूतः वरम् अन्यम् सुरोत्तमात् ॥ ७।८७।२० ॥
tatas sa rājā duḥkha-ārtaḥ pratyākhyātaḥ mahātmanā . na ca jagrāha strī-bhūtaḥ varam anyam surottamāt .. 7.87.20 ..
ततः शोकेन महता शैलराजसुतां नृपः । प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ ७.८७.२१ ॥
ततस् शोकेन महता शैलराजसुताम् नृपः । प्रणिपत्य हि उमाम् देवीम् सर्वेण एव अन्तरात्मना ॥ ७।८७।२१ ॥
tatas śokena mahatā śailarājasutām nṛpaḥ . praṇipatya hi umām devīm sarveṇa eva antarātmanā .. 7.87.21 ..
ईशे वराणां वरदे लोकानामसि भामिनी । अमोघदर्शने देवी भज सौम्येन चक्षुषा ॥ ७.८७.२२ ॥
ईशे वराणाम् वर-दे लोकानाम् असि भामिनी । अमोघ-दर्शने देवी भज सौम्येन चक्षुषा ॥ ७।८७।२२ ॥
īśe varāṇām vara-de lokānām asi bhāminī . amogha-darśane devī bhaja saumyena cakṣuṣā .. 7.87.22 ..
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ । प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ ७.८७.२३ ॥
हृद्गतम् तस्य राजर्षेः विज्ञाय हर-सन्निधौ । प्रत्युवाच शुभम् वाक्यम् देवी रुद्रस्य संमता ॥ ७।८७।२३ ॥
hṛdgatam tasya rājarṣeḥ vijñāya hara-sannidhau . pratyuvāca śubham vākyam devī rudrasya saṃmatā .. 7.87.23 ..
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् । तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ ७.८७.२४ ॥
अर्धस्य देवः वर-दः वर-अर्धस्य तव हि अहम् । तस्मात् अर्धम् गृहाण त्वम् स्त्री-पुंसोः यावत् इच्छसि ॥ ७।८७।२४ ॥
ardhasya devaḥ vara-daḥ vara-ardhasya tava hi aham . tasmāt ardham gṛhāṇa tvam strī-puṃsoḥ yāvat icchasi .. 7.87.24 ..
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् । सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ ७.८७.२५ ॥
तत् अद्भुततरम् श्रुत्वा देव्याः वरम् अनुत्तमम् । सम्प्रहृष्ट-मनाः भूत्वा राजा वाक्यम् अथ अब्रवीत् ॥ ७।८७।२५ ॥
tat adbhutataram śrutvā devyāḥ varam anuttamam . samprahṛṣṭa-manāḥ bhūtvā rājā vākyam atha abravīt .. 7.87.25 ..
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि । मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ ७.८७.२६ ॥
यदि देवि प्रसन्ना मे रूपेण अप्रतिमा भुवि । मासम् स्त्री-त्वम् उपासित्वा मासम् स्याम् पुरुषः पुनर् ॥ ७।८७।२६ ॥
yadi devi prasannā me rūpeṇa apratimā bhuvi . māsam strī-tvam upāsitvā māsam syām puruṣaḥ punar .. 7.87.26 ..
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना । प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ ७.८७.२७ ॥
ईप्सितम् तस्य विज्ञाय देवी सु रुचिर-आनना । प्रत्युवाच शुभम् वाक्यम् एवम् एव भविष्यति ॥ ७।८७।२७ ॥
īpsitam tasya vijñāya devī su rucira-ānanā . pratyuvāca śubham vākyam evam eva bhaviṣyati .. 7.87.27 ..
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि । स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ ७.८७.२८ ॥
राजन् पुरुष-भूतः त्वम् स्त्री-भावम् न स्मरिष्यसि । स्त्री-भूतः च परम् मासम् न स्मरिष्यसि पौरुषम् ॥ ७।८७।२८ ॥
rājan puruṣa-bhūtaḥ tvam strī-bhāvam na smariṣyasi . strī-bhūtaḥ ca param māsam na smariṣyasi pauruṣam .. 7.87.28 ..
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः । त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ॥ ७.८७.२९ ॥
एवम् स राजा पुरुषः मासम् भूत्वा अथ कार्दमिः । त्रैलोक्य-सुन्दरी नारी मासम् एकम् इला अभवत् ॥ ७।८७।२९ ॥
evam sa rājā puruṣaḥ māsam bhūtvā atha kārdamiḥ . trailokya-sundarī nārī māsam ekam ilā abhavat .. 7.87.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptāśītitamaḥ sargaḥ .. 87 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In