This overlay will guide you through the buttons:

| |
|
तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ ७.८८.१ ॥
ताम् कथाम् इल-सम्बद्धाम् रामेण समुदीरिताम् । लक्ष्मणः भरतः च एव श्रुत्वा परम-विस्मितौ ॥ ७।८८।१ ॥
tām kathām ila-sambaddhām rāmeṇa samudīritām . lakṣmaṇaḥ bharataḥ ca eva śrutvā parama-vismitau .. 7.88.1 ..
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ ७.८८.२ ॥
तौ रामम् प्राञ्जली भूत्वा तस्य राज्ञः महात्मनः । विस्तरम् तस्य भावस्य तदा पप्रच्छतुः पुनर् ॥ ७।८८।२ ॥
tau rāmam prāñjalī bhūtvā tasya rājñaḥ mahātmanaḥ . vistaram tasya bhāvasya tadā papracchatuḥ punar .. 7.88.2 ..
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ७.८८.३ ॥
कथम् स राजा स्त्री-भूतः वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः काम् वृत्तिम् वर्तयति असौ ॥ ७।८८।३ ॥
katham sa rājā strī-bhūtaḥ vartayāmāsa durgatiḥ . puruṣaḥ sa yadā bhūtaḥ kām vṛttim vartayati asau .. 7.88.3 ..
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ७.८८.४ ॥
तयोः तत् भाषितम् श्रुत्वा कौतूहल-समन्वितम् । कथयामास काकुत्स्थः तस्य राज्ञः यथागतम् ॥ ७।८८।४ ॥
tayoḥ tat bhāṣitam śrutvā kautūhala-samanvitam . kathayāmāsa kākutsthaḥ tasya rājñaḥ yathāgatam .. 7.88.4 ..
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ७.८८.५ ॥
तम् एव प्रथमम् मासम् स्त्री-भूता लोक-सुन्दरी । ताभिः परिवृता स्त्रीभिः ये च पूर्व-पदानुगाः ॥ ७।८८।५ ॥
tam eva prathamam māsam strī-bhūtā loka-sundarī . tābhiḥ parivṛtā strībhiḥ ye ca pūrva-padānugāḥ .. 7.88.5 ..
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ७.८८.६ ॥
तद्-काननम् विगाह्वा आशु विजह्रे लोक-सुन्दरी । द्रुम-गुल्म-लता-आकीर्णम् पद्भ्याम् पद्म-दल-ईक्षणा ॥ ७।८८।६ ॥
tad-kānanam vigāhvā āśu vijahre loka-sundarī . druma-gulma-latā-ākīrṇam padbhyām padma-dala-īkṣaṇā .. 7.88.6 ..
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७.८८.७ ॥
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वत-आभोग-विवरे तस्मिन् रेमे इला तदा ॥ ७।८८।७ ॥
vāhanāni ca sarvāṇi sā tyaktvā vai samantataḥ . parvata-ābhoga-vivare tasmin reme ilā tadā .. 7.88.7 ..
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ७.८८.८ ॥
अथ तस्मिन् वन-उद्देशे पर्वतस्य अविदूरतः । सरः सु रुचिर-प्रख्यम् नाना पक्षि-गणैः युतम् ॥ ७।८८।८ ॥
atha tasmin vana-uddeśe parvatasya avidūrataḥ . saraḥ su rucira-prakhyam nānā pakṣi-gaṇaiḥ yutam .. 7.88.8 ..
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ७.८८.९ ॥
ददर्श सा तु इला तस्मिन् बुधम् सोम-सुतम् तदा । ज्वलन्तम् स्वेन वपुषा पूर्ण-सोमम् इव उदितम् ॥ ७।८८।९ ॥
dadarśa sā tu ilā tasmin budham soma-sutam tadā . jvalantam svena vapuṣā pūrṇa-somam iva uditam .. 7.88.9 ..
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥ ७.८८.१० ॥
तपन्तम् च तपः तीव्रम् अम्भः-मध्ये दुरासदम् । यशस्करम् काम-करम् कारुण्ये पर्यवस्थितम् ॥ ७।८८।१० ॥
tapantam ca tapaḥ tīvram ambhaḥ-madhye durāsadam . yaśaskaram kāma-karam kāruṇye paryavasthitam .. 7.88.10 ..
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ७.८८.११ ॥
सा तम् जलाशयम् सर्वम् क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्री-भूतैः रघुनन्दन ॥ ७।८८।११ ॥
sā tam jalāśayam sarvam kṣobhayāmāsa vismitā . sahagaiḥ pūrvapuruṣaiḥ strī-bhūtaiḥ raghunandana .. 7.88.11 ..
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ॥ ७.८८.१२ ॥
बुधः तु ताम् समीक्ष्य एव काम-बाण-वशम् गतः । न उपलेभे तदा आत्मानम् सञ्चचाल तदा अम्भसि ॥ ७।८८।१२ ॥
budhaḥ tu tām samīkṣya eva kāma-bāṇa-vaśam gataḥ . na upalebhe tadā ātmānam sañcacāla tadā ambhasi .. 7.88.12 ..
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥ ७.८८.१३ ॥
इलाम् निरीक्षमाणः तु त्रैलोक्य-अभ्यधिकाम् शुभाम् । चिन्ताम् समभ्यतिक्रामत् का नु इयम् देवता अधिका ॥ ७।८८।१३ ॥
ilām nirīkṣamāṇaḥ tu trailokya-abhyadhikām śubhām . cintām samabhyatikrāmat kā nu iyam devatā adhikā .. 7.88.13 ..
न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ ७.८८.१४ ॥
न देवीषु न नागीषु न असुरीषु अप्सरःसु च । दृष्ट-पूर्वा मया काचिद् रूपेण अनेन शोभिता ॥ ७।८८।१४ ॥
na devīṣu na nāgīṣu na asurīṣu apsaraḥsu ca . dṛṣṭa-pūrvā mayā kācid rūpeṇa anena śobhitā .. 7.88.14 ..
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ ७.८८.१५ ॥
सदृशी इयम् मम भवेत् यदि न अन्य-परिग्रहः । इति बुद्धिम् समास्थाय जलात् कूलम् उपागमत् ॥ ७।८८।१५ ॥
sadṛśī iyam mama bhavet yadi na anya-parigrahaḥ . iti buddhim samāsthāya jalāt kūlam upāgamat .. 7.88.15 ..
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ ७.८८.१६ ॥
आश्रमम् समुपागम्य ततस् ताः प्रमदा-उत्तमाः । शब्दापयत धर्म-आत्मा ताः च एनम् च ववन्दिरे ॥ ७।८८।१६ ॥
āśramam samupāgamya tatas tāḥ pramadā-uttamāḥ . śabdāpayata dharma-ātmā tāḥ ca enam ca vavandire .. 7.88.16 ..
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ ७.८८.१७ ॥
स ताः पप्रच्छ धर्म-आत्मा कस्य एषा लोक-सुन्दरी । किमर्थम् आगता च एव सर्वम् आख्यात मा चिरम् ॥ ७।८८।१७ ॥
sa tāḥ papraccha dharma-ātmā kasya eṣā loka-sundarī . kimartham āgatā ca eva sarvam ākhyāta mā ciram .. 7.88.17 ..
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ ७.८८.१८ ॥
शुभम् तु तस्य तत् वाक्यम् मधुरम् मधुर-अक्षरम् । श्रुत्वा स्त्रियः च ताः सर्वाः ऊचुः मधुरया गिरा ॥ ७।८८।१८ ॥
śubham tu tasya tat vākyam madhuram madhura-akṣaram . śrutvā striyaḥ ca tāḥ sarvāḥ ūcuḥ madhurayā girā .. 7.88.18 ..
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ ७.८८.१९ ॥
अस्माकम् एषा सु श्रोणी प्रभु-त्वे वर्तते सदा । अपतिः कानन-अन्तेषु सह अस्माभिः चरति असौ ॥ ७।८८।१९ ॥
asmākam eṣā su śroṇī prabhu-tve vartate sadā . apatiḥ kānana-anteṣu saha asmābhiḥ carati asau .. 7.88.19 ..
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ ७.८८.२० ॥
तत् वाक्यम् अव्यक्त-पदम् तासाम् स्त्रीणाम् निशम्य च । विद्याम् आवर्तनीम् पुण्याम् आवर्तयत स द्विजः ॥ ७।८८।२० ॥
tat vākyam avyakta-padam tāsām strīṇām niśamya ca . vidyām āvartanīm puṇyām āvartayata sa dvijaḥ .. 7.88.20 ..
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ ७.८८.२१ ॥
सः अर्थम् विदित्वा सकलम् तस्य राज्ञः यथागतम् । सर्वाः एव स्त्रियः ताः च बभाषे मुनि-पुङ्गवः ॥ ७।८८।२१ ॥
saḥ artham viditvā sakalam tasya rājñaḥ yathāgatam . sarvāḥ eva striyaḥ tāḥ ca babhāṣe muni-puṅgavaḥ .. 7.88.21 ..
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥ ७.८८.२२ ॥
अत्र किम्पुरुषीः भूत्वा शैल-रोधसि वत्स्यथ । आवासः तु गिरौ अस्मिन् शीघ्रम् एव विधीयताम् ॥ ७।८८।२२ ॥
atra kimpuruṣīḥ bhūtvā śaila-rodhasi vatsyatha . āvāsaḥ tu girau asmin śīghram eva vidhīyatām .. 7.88.22 ..
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ॥ ७.८८.२३ ॥
मूल-पत्र-फलैः सर्वाः वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान् नाम भर्त समुपलप्स्यथ ॥ ७।८८।२३ ॥
mūla-patra-phalaiḥ sarvāḥ vartayiṣyatha nityadā . striyaḥ kimpuruṣān nāma bharta samupalapsyatha .. 7.88.23 ..
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ ७.८८.२४ ॥
ताः श्रुत्वा सोमपुत्रस्य वाचम् किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलम् वध्वः ताः बहुलाः तदा ॥ ७।८८।२४ ॥
tāḥ śrutvā somaputrasya vācam kimpuruṣīkṛtāḥ . upāsāñcakrire śailam vadhvaḥ tāḥ bahulāḥ tadā .. 7.88.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ॥ ८८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭāśītitamaḥ sargaḥ .. 88 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In