This overlay will guide you through the buttons:

| |
|
तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ ७.८८.१ ॥
tāṃ kathāmilasambaddhāṃ rāmeṇa samudīritām . lakṣmaṇo bharataścaiva śrutvā paramavismitau .. 7.88.1 ..
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ ७.८८.२ ॥
tau rāmaṃ prāñjalī bhūtvā tasya rājño mahātmanaḥ . vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ .. 7.88.2 ..
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ७.८८.३ ॥
kathaṃ sa rājā strībhūto vartayāmāsa durgatiḥ . puruṣaḥ sa yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau .. 7.88.3 ..
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ७.८८.४ ॥
tayostadbhāṣitaṃ śrutvā kautūhalasamanvitam . kathayāmāsa kākutsthastasya rājño yathāgatam .. 7.88.4 ..
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ७.८८.५ ॥
tameva prathamaṃ māsaṃ strībhūtā lokasundarī . tābhiḥ parivṛtā strībhirye ca pūrvapadānugāḥ .. 7.88.5 ..
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ७.८८.६ ॥
tatkānanaṃ vigāhvāśu vijahre lokasundarī . drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā .. 7.88.6 ..
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७.८८.७ ॥
vāhanāni ca sarvāṇi sā tyaktvā vai samantataḥ . parvatābhogavivare tasminreme ilā tadā .. 7.88.7 ..
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ७.८८.८ ॥
atha tasminvanoddeśe parvatasyāvidūrataḥ . saraḥ suruciraprakhyaṃ nānāpakṣigaṇairyutam .. 7.88.8 ..
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ७.८८.९ ॥
dadarśa sā tvilā tasminbudhaṃ somasutaṃ tadā . jvalantaṃ svena vapuṣā pūrṇasomamivoditam .. 7.88.9 ..
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥ ७.८८.१० ॥
tapantaṃ ca tapastīvramambhomadhye durāsadam . yaśaskaraṃ kāmakaraṃ kāruṇye paryavasthitam .. 7.88.10 ..
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ७.८८.११ ॥
sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā . sahagaiḥ pūrvapuruṣaiḥ strībhūtai raghunandana .. 7.88.11 ..
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ॥ ७.८८.१२ ॥
budhastu tāṃ samīkṣyaiva kāmabāṇavaśaṃ gataḥ . nopalebhe tadā ' 'tmānaṃ sañcacāla tadā ' 'mbhasi .. 7.88.12 ..
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥ ७.८८.१३ ॥
ilāṃ nirīkṣamāṇastu trailokyābhyadhikāṃ śubhām . cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā .. 7.88.13 ..
न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ ७.८८.१४ ॥
na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca . dṛṣṭapūrvā mayā kācidrūpeṇānena śobhitā .. 7.88.14 ..
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ ७.८८.१५ ॥
sadṛśīyaṃ mama bhavedyadi nānyaparigrahaḥ . iti buddhiṃ samāsthāya jalātkūlamupāgamat .. 7.88.15 ..
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ ७.८८.१६ ॥
āśramaṃ samupāgamya tatastāḥ pramadottamāḥ . śabdāpayata dharmātmā tāścainaṃ ca vavandire .. 7.88.16 ..
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ ७.८८.१७ ॥
sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī . kimarthamāgatā caiva sarvamākhyāta mā ciram .. 7.88.17 ..
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ ७.८८.१८ ॥
śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram . śrutvā striyaśca tāḥ sarvā ūcurmadhurayā girā .. 7.88.18 ..
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ ७.८८.१९ ॥
asmākameṣā suśroṇī prabhutve vartate sadā . apatiḥ kānanānteṣu sahāsmābhiścaratyasau .. 7.88.19 ..
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ ७.८८.२० ॥
tadvākyamavyaktapadaṃ tāsāṃ strīṇāṃ niśamya ca . vidyāmāvartanīṃ puṇyāmāvartayata sa dvijaḥ .. 7.88.20 ..
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ ७.८८.२१ ॥
so 'rthaṃ viditvā sakalaṃ tasya rājño yathāgatam . sarvā eva striyastāśca babhāṣe munipuṅgavaḥ .. 7.88.21 ..
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥ ७.८८.२२ ॥
atra kimpuruṣīrbhūtvā śailarodhasi vatsyatha . āvāsastu girāvasmiñchīghrameva vidhīyatām .. 7.88.22 ..
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ॥ ७.८८.२३ ॥
mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā . striyaḥ kimpuruṣānnāma bharta'nsamupalapsyatha .. 7.88.23 ..
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ ७.८८.२४ ॥
tāḥ śrutvā somaputrasya vācaṃ kimpuruṣīkṛtāḥ . upāsāñcakrire śailaṃ vadhvastā bahulāstadā .. 7.88.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ॥ ८८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭāśītitamaḥ sargaḥ .. 88 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In