This overlay will guide you through the buttons:

| |
|
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ ७.८९.१ ॥
श्रुत्वा किम्पुरुष-उत्पत्तिम् लक्ष्मणः भरतः तदा । आश्चर्यम् इति च अब्रूताम् उभौ रामम् जनेश्वरम् ॥ ७।८९।१ ॥
śrutvā kimpuruṣa-utpattim lakṣmaṇaḥ bharataḥ tadā . āścaryam iti ca abrūtām ubhau rāmam janeśvaram .. 7.89.1 ..
अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ ७.८९.२ ॥
अथ रामः कथाम् एताम् भूयस् एव महा-यशाः । कथयामास धर्म-आत्मा प्रजापति-सुतस्य वै ॥ ७।८९।२ ॥
atha rāmaḥ kathām etām bhūyas eva mahā-yaśāḥ . kathayāmāsa dharma-ātmā prajāpati-sutasya vai .. 7.89.2 ..
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ॥ ७.८९.३ ॥
सर्वाः ताः विद्रुताः दृष्ट्वा किन्नरीः ऋषि-सत्तमः । उवाच रूप-सम्पन्नाम् ताम् स्त्रियम् प्रहसन् इव ॥ ७।८९।३ ॥
sarvāḥ tāḥ vidrutāḥ dṛṣṭvā kinnarīḥ ṛṣi-sattamaḥ . uvāca rūpa-sampannām tām striyam prahasan iva .. 7.89.3 ..
सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ७.८९.४ ॥
सोमस्य अहम् सु दयितः सुतः सु रुचिर-आनने । भजस्व माम् वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ७।८९।४ ॥
somasya aham su dayitaḥ sutaḥ su rucira-ānane . bhajasva mām varārohe bhaktyā snigdhena cakṣuṣā .. 7.89.4 ..
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ७.८९.५ ॥
तस्य तत् वचनम् श्रुत्वा शून्ये स्व-जन-वर्जिते । इला सु रुचिर-प्रख्यम् प्रत्युवाच महाग्रहम् ॥ ७।८९।५ ॥
tasya tat vacanam śrutvā śūnye sva-jana-varjite . ilā su rucira-prakhyam pratyuvāca mahāgraham .. 7.89.5 ..
अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ७.८९.६ ॥
अहम् काम-चरी सौम्य तव अस्मि वश-वर्तिनी । प्रशाधि माम् सोमसुत यथा इच्छसि तथा कुरु ॥ ७।८९।६ ॥
aham kāma-carī saumya tava asmi vaśa-vartinī . praśādhi mām somasuta yathā icchasi tathā kuru .. 7.89.6 ..
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७.८९.७ ॥
तस्याः तत् अद्भुत-प्रख्यम् श्रुत्वा हर्षम् उपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७।८९।७ ॥
tasyāḥ tat adbhuta-prakhyam śrutvā harṣam upāgataḥ . sa vai kāmī saha tayā reme candramasaḥ sutaḥ .. 7.89.7 ..
बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ॥ ७.८९.८ ॥
बुधस्य माधवः मासः ताम् इलाम् रुचिर-आननाम् । गतः रमयतः अत्यर्थम् क्षण-वत् तस्य कामिनः ॥ ७।८९।८ ॥
budhasya mādhavaḥ māsaḥ tām ilām rucira-ānanām . gataḥ ramayataḥ atyartham kṣaṇa-vat tasya kāminaḥ .. 7.89.8 ..
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ॥ ७.८९.९ ॥
अथ मासे तु सम्पूर्णे पूर्ण-इन्दु-सदृश-आननः । प्रजापति-सुतः श्रीमान् शयने प्रत्यबुध्यत ॥ ७।८९।९ ॥
atha māse tu sampūrṇe pūrṇa-indu-sadṛśa-ānanaḥ . prajāpati-sutaḥ śrīmān śayane pratyabudhyata .. 7.89.9 ..
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ ७.८९.१० ॥
सः अपश्यत् सोमजम् तत्र तपन्तम् सलिलाशये । ऊर्ध्व-बाहुम् निरालम्बम् तम् राजा प्रत्यभाषत ॥ ७।८९।१० ॥
saḥ apaśyat somajam tatra tapantam salilāśaye . ūrdhva-bāhum nirālambam tam rājā pratyabhāṣata .. 7.89.10 ..
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ७.८९.११ ॥
भगवन् पर्वतम् दुर्गम् प्रविष्टः अस्मि सह अनुगः । न च पश्यामि तत् सैन्यम् क्व नु ते मामकाः गताः ॥ ७।८९।११ ॥
bhagavan parvatam durgam praviṣṭaḥ asmi saha anugaḥ . na ca paśyāmi tat sainyam kva nu te māmakāḥ gatāḥ .. 7.89.11 ..
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ ७.८९.१२ ॥
तत् श्रुत्वा तस्य राजर्षेः नष्ट-सञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभम् वाक्यम् सान्त्वयन् परया गिरा ॥ ७।८९।१२ ॥
tat śrutvā tasya rājarṣeḥ naṣṭa-sañjñasya bhāṣitam . pratyuvāca śubham vākyam sāntvayan parayā girā .. 7.89.12 ..
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ ७.८९.१३ ॥
अश्म-वर्षेण महता भृत्याः ते विनिपातिताः । त्वम् च आश्रम-पदे सुप्तः वात-वर्ष-भय-अर्दितः ॥ ७।८९।१३ ॥
aśma-varṣeṇa mahatā bhṛtyāḥ te vinipātitāḥ . tvam ca āśrama-pade suptaḥ vāta-varṣa-bhaya-arditaḥ .. 7.89.13 ..
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ॥ ७.८९.१४ ॥
समाश्वसिहि भद्रम् ते निर्भयः विगत-ज्वरः । फल-मूल-अशनः वीर निवस इह यथासुखम् ॥ ७।८९।१४ ॥
samāśvasihi bhadram te nirbhayaḥ vigata-jvaraḥ . phala-mūla-aśanaḥ vīra nivasa iha yathāsukham .. 7.89.14 ..
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ॥ ७.८९.१५ ॥
स राजा तेन वाक्येन प्रत्याश्वस्तः महामतिः । प्रत्युवाच ततस् वाक्यम् दीनः भृत्य-क्षयात् भृशम् ॥ ७।८९।१५ ॥
sa rājā tena vākyena pratyāśvastaḥ mahāmatiḥ . pratyuvāca tatas vākyam dīnaḥ bhṛtya-kṣayāt bhṛśam .. 7.89.15 ..
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ ७.८९.१६ ॥
त्यक्ष्यामि अहम् स्वकम् राज्यम् न अहम् भृत्यैः विनाकृतः । वर्तयेयम् क्षणम् ब्रह्मन् समनुज्ञातुम् अर्हसि ॥ ७।८९।१६ ॥
tyakṣyāmi aham svakam rājyam na aham bhṛtyaiḥ vinākṛtaḥ . vartayeyam kṣaṇam brahman samanujñātum arhasi .. 7.89.16 ..
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ ७.८९.१७ ॥
सुतः धर्म-परः ब्रह्मन् ज्येष्ठः मम महा-यशाः । शशबिन्दुः इति ख्यातः स मे राज्यम् प्रपत्स्यते ॥ ७।८९।१७ ॥
sutaḥ dharma-paraḥ brahman jyeṣṭhaḥ mama mahā-yaśāḥ . śaśabinduḥ iti khyātaḥ sa me rājyam prapatsyate .. 7.89.17 ..
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ॥ ७.८९.१८ ॥
न हि शक्ष्यामि अहम् हित्वा भृत्य-दारान् सुख-अन्वितान् । प्रतिवक्तुम् महा-तेजः किञ्चिद् अपि अशुभम् वचः ॥ ७।८९।१८ ॥
na hi śakṣyāmi aham hitvā bhṛtya-dārān sukha-anvitān . prativaktum mahā-tejaḥ kiñcid api aśubham vacaḥ .. 7.89.18 ..
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ ७.८९.१९ ॥
तथा ब्रुवति राज-इन्द्रे बुधः परमम् अद्भुतम् । सान्त्व-पूर्वम् अथ उवाच वासः ते इह रोचताम् ॥ ७।८९।१९ ॥
tathā bruvati rāja-indre budhaḥ paramam adbhutam . sāntva-pūrvam atha uvāca vāsaḥ te iha rocatām .. 7.89.19 ..
न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ ७.८९.२० ॥
न सन्तापः त्वया कार्यः कार्दमेय महा-बल । संवत्सर-उषितस्य इह कारयिष्यामि ते हितम् ॥ ७।८९।२० ॥
na santāpaḥ tvayā kāryaḥ kārdameya mahā-bala . saṃvatsara-uṣitasya iha kārayiṣyāmi te hitam .. 7.89.20 ..
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ ७.८९.२१ ॥
तस्य तत् वचनम् श्रुत्वा बुधस्य अक्लिष्ट-कर्मणः । वासाय विदधे बुद्धिम् यत् उक्तम् ब्रह्म-वादिना ॥ ७।८९।२१ ॥
tasya tat vacanam śrutvā budhasya akliṣṭa-karmaṇaḥ . vāsāya vidadhe buddhim yat uktam brahma-vādinā .. 7.89.21 ..
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ ७.८९.२२ ॥
मासम् स स्त्री तदा भूत्वा रमयति अनिशम् शुदा । मासम् पुरुष-भावेन धर्म-बुद्धिम् चकार सः ॥ ७।८९।२२ ॥
māsam sa strī tadā bhūtvā ramayati aniśam śudā . māsam puruṣa-bhāvena dharma-buddhim cakāra saḥ .. 7.89.22 ..
ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ ७.८९.२३ ॥
ततस् सा नवमे मासि इला सोमसुतात् सुतम् । जनयामास सुश्रोणी पुरूरवसम् ऊर्जितम् ॥ ७।८९।२३ ॥
tatas sā navame māsi ilā somasutāt sutam . janayāmāsa suśroṇī purūravasam ūrjitam .. 7.89.23 ..
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ॥ ७.८९.२४ ॥
जात-मात्रम् तु सुश्रोणी पितुः हस्ते न्यवेशयत् । बुधस्य समवर्णभम् इला पुत्रम् महा-बलम् ॥ ७।८९।२४ ॥
jāta-mātram tu suśroṇī pituḥ haste nyaveśayat . budhasya samavarṇabham ilā putram mahā-balam .. 7.89.24 ..
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ ७.८९.२५ ॥
बुधः तु पुरुषीभूतम् स वै संवत्सर-अन्तरम् । कथाभिः रमयामास धर्म-युक्ताभिः आत्मवान् ॥ ७।८९।२५ ॥
budhaḥ tu puruṣībhūtam sa vai saṃvatsara-antaram . kathābhiḥ ramayāmāsa dharma-yuktābhiḥ ātmavān .. 7.89.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonanavatitamaḥ sargaḥ .. 89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In