This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ ७.९.१ ॥
कस्यचिद् तु अथ कालस्य सुमाली नाम राक्षसः । रसातलात् मर्त्य-लोकम् सर्वम् वै विचचार ह ॥ ७।९।१ ॥
kasyacid tu atha kālasya sumālī nāma rākṣasaḥ . rasātalāt martya-lokam sarvam vai vicacāra ha .. 7.9.1 ..
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ ७.९.२ ॥
नील-जीमूत-सङ्काशः तप्त-काञ्चन-कुण्डलः । कन्याम् दुहितरम् गृह्य विना पद्मम् इव श्रियम् ॥ ७।९।२ ॥
nīla-jīmūta-saṅkāśaḥ tapta-kāñcana-kuṇḍalaḥ . kanyām duhitaram gṛhya vinā padmam iva śriyam .. 7.9.2 ..
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ७.९.३ ॥
राक्षस-इन्द्रः स तु तदा विचरन् वै मही-तलम् । तदा अपश्यत् स गच्छन्तम् पुष्पकेण धनेश्वरम् ॥ ७।९।३ ॥
rākṣasa-indraḥ sa tu tadā vicaran vai mahī-talam . tadā apaśyat sa gacchantam puṣpakeṇa dhaneśvaram .. 7.9.3 ..
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ ७.९.४ ॥
गच्छन्तम् पितरम् द्रष्टुम् पुलस्त्य-तनयम् विभुम् । तम् दृष्ट्वा अमर-सङ्काशम् स्वच्छन्दम् तपन-उपमम् ॥ ७।९।४ ॥
gacchantam pitaram draṣṭum pulastya-tanayam vibhum . tam dṛṣṭvā amara-saṅkāśam svacchandam tapana-upamam .. 7.9.4 ..
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ७.९.५ ॥
रसातलम् प्रविष्टः सन् मर्त्य-लोकात् स विस्मयः । इति एवम् चिन्तयामास राक्षसानाम् महामतिः ॥ ७।९।५ ॥
rasātalam praviṣṭaḥ san martya-lokāt sa vismayaḥ . iti evam cintayāmāsa rākṣasānām mahāmatiḥ .. 7.9.5 ..
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ७.९.६ ॥
किम् कृतम् श्रेयः इति एवम् वर्धेमहि कथम् वयम् । अथा अब्रवीत् सुताम् रक्षः कैकसीम् नाम नामतः ॥ ७।९।६ ॥
kim kṛtam śreyaḥ iti evam vardhemahi katham vayam . athā abravīt sutām rakṣaḥ kaikasīm nāma nāmataḥ .. 7.9.6 ..
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७.९.७ ॥
पुत्रि प्रदान-कालः अयम् यौवनम् व्यतिवर्तते । प्रत्याख्यानात् च भीतैः त्वम् न वरैः प्रतिगृह्यसे ॥ ७।९।७ ॥
putri pradāna-kālaḥ ayam yauvanam vyativartate . pratyākhyānāt ca bhītaiḥ tvam na varaiḥ pratigṛhyase .. 7.9.7 ..
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.९.८ ॥
त्वद्-कृते च वयम् सर्वे यन्त्रिताः धर्म-बुद्धयः । त्वम् हि सर्व-गुण-उपेता श्रीः साक्षात् इव पुत्रिके । कन्या-पितृ-त्वम् दुःखम् हि सर्वेषाम् मान-काङ्क्षिणाम् ॥ ७।९।८ ॥
tvad-kṛte ca vayam sarve yantritāḥ dharma-buddhayaḥ . tvam hi sarva-guṇa-upetā śrīḥ sākṣāt iva putrike . kanyā-pitṛ-tvam duḥkham hi sarveṣām māna-kāṅkṣiṇām .. 7.9.8 ..
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ७.९.९ ॥
न ज्ञायते च कः कन्याम् वरयेत् इति कन्यके ॥ ७।९।९ ॥
na jñāyate ca kaḥ kanyām varayet iti kanyake .. 7.9.9 ..
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७.९.१० ॥
त्वम् हि सर्व-गुण-उपेता श्रीः साक्षात् इव पुत्रिके । मातुः कुलम् पितृ-कुलम् यत्र च एव प्रदीयते । कुल-त्रयम् सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७।९।१० ॥
tvam hi sarva-guṇa-upetā śrīḥ sākṣāt iva putrike . mātuḥ kulam pitṛ-kulam yatra ca eva pradīyate . kula-trayam sadā kanyā saṃśaye sthāpya tiṣṭhati .. 7.9.10 ..
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ७.९.११ ॥
सा त्वम् मुनि-वरम् श्रेष्ठम् प्रजापति-कुल-उद्भवम् । भज विश्रवसम् पुत्रि पौलस्त्यम् वरय स्वयम् ॥ ७।९।११ ॥
sā tvam muni-varam śreṣṭham prajāpati-kula-udbhavam . bhaja viśravasam putri paulastyam varaya svayam .. 7.9.11 ..
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ॥ ७.९.१२ ॥
ईदृशाः ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्कर-समः यादृशः अयम् धनेश्वरः ॥ ७।९।१२ ॥
īdṛśāḥ te bhaviṣyanti putrāḥ putri na saṃśayaḥ . tejasā bhāskara-samaḥ yādṛśaḥ ayam dhaneśvaraḥ .. 7.9.12 ..
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ ७.९.१३ ॥
सा तु तत् वचनम् श्रुत्वा कन्यका पितृ-गौरवात् । तत्र उपागम्य सा तस्थौ विश्रवाः यत्र तप्यते ॥ ७।९।१३ ॥
sā tu tat vacanam śrutvā kanyakā pitṛ-gauravāt . tatra upāgamya sā tasthau viśravāḥ yatra tapyate .. 7.9.13 ..
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ ७.९.१४ ॥
एतस्मिन् अन्तरे राम पुलस्त्य-तनयः द्विजः । अग्निहोत्रम् उपातिष्ठत् चतुर्थः इव पावकः ॥ ७।९।१४ ॥
etasmin antare rāma pulastya-tanayaḥ dvijaḥ . agnihotram upātiṣṭhat caturthaḥ iva pāvakaḥ .. 7.9.14 ..
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ ७.९.१५ ॥
अ विचिन्त्य तु ताम् वेलाम् दारुणाम् पितृ-गौरवात् । उपसृत्य अग्रतस् तस्य चरण-अधोमुखी स्थिता । विलिखन्ती मुहुर् भूमिम् अङ्गुष्ठ-अग्रेण भामिनी ॥ ७।९।१५ ॥
a vicintya tu tām velām dāruṇām pitṛ-gauravāt . upasṛtya agratas tasya caraṇa-adhomukhī sthitā . vilikhantī muhur bhūmim aṅguṣṭha-agreṇa bhāminī .. 7.9.15 ..
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ ७.९.१६ ॥
स तु ताम् वीक्ष्य सु श्रोणीम् पूर्ण-चन्द्र-निभ-आननाम् । अब्रवीत् परम-उदारः दीप्यमानाम् स्व-तेजसा ॥ ७।९।१६ ॥
sa tu tām vīkṣya su śroṇīm pūrṇa-candra-nibha-ānanām . abravīt parama-udāraḥ dīpyamānām sva-tejasā .. 7.9.16 ..
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ ७.९.१७ ॥
भद्रे कस्य असि दुहिता कुतस् वा त्वम् इह आगता । किम् कार्यम् कस्य वा हेतोः तत्त्वतः ब्रूहि शोभने ॥ ७।९।१७ ॥
bhadre kasya asi duhitā kutas vā tvam iha āgatā . kim kāryam kasya vā hetoḥ tattvataḥ brūhi śobhane .. 7.9.17 ..
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ ७.९.१८ ॥
एवम् उक्ता तु सा कन्या कृताञ्जलिः अथ अब्रवीत् । आत्म-प्रभावेण मुने ज्ञातुम् अर्हसि मे मतम् ॥ ७।९।१८ ॥
evam uktā tu sā kanyā kṛtāñjaliḥ atha abravīt . ātma-prabhāveṇa mune jñātum arhasi me matam .. 7.9.18 ..
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ ७.९.१९ ॥
किम् तु माम् विद्धि ब्रह्मर्षे शासनात् पितुः आगताम् । कैकसी नाम नाम्ना अहम् शेषम् त्वम् ज्ञातुम् अर्हसि ॥ ७।९।१९ ॥
kim tu mām viddhi brahmarṣe śāsanāt pituḥ āgatām . kaikasī nāma nāmnā aham śeṣam tvam jñātum arhasi .. 7.9.19 ..
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ ७.९.२० ॥
स तु गत्वा मुनिः ध्यानम् वाक्यम् एतत् उवाच ह । विज्ञातम् ते मया भद्रे कारणम् यत् मनोगतम् ॥ ७।९।२० ॥
sa tu gatvā muniḥ dhyānam vākyam etat uvāca ha . vijñātam te mayā bhadre kāraṇam yat manogatam .. 7.9.20 ..
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ ७.९.२१ ॥
सुत-अभिलाषः मत्तः ते मत्त-मातङ्ग-गामिनि । दारुणायाम् तु वेलायाम् यस्मात् त्वम् माम् उपस्थिता ॥ ७।९।२१ ॥
suta-abhilāṣaḥ mattaḥ te matta-mātaṅga-gāmini . dāruṇāyām tu velāyām yasmāt tvam mām upasthitā .. 7.9.21 ..
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ ७.९.२२ ॥
शृणु तस्मात् सुतान् भद्रे यादृशान् जनयिष्यसि । दारुणान् दारुण-आकारान् दारुण-अभिजन-प्रियान् ॥ ७।९।२२ ॥
śṛṇu tasmāt sutān bhadre yādṛśān janayiṣyasi . dāruṇān dāruṇa-ākārān dāruṇa-abhijana-priyān .. 7.9.22 ..
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ ७.९.२३ ॥
प्रसविष्यसि सुश्रोणि राक्षसान् क्रूर-कर्मणः । सा तु तद्-वचनम् श्रुत्वा प्रणिपत्य अब्रवीत् वचः ॥ ७।९।२३ ॥
prasaviṣyasi suśroṇi rākṣasān krūra-karmaṇaḥ . sā tu tad-vacanam śrutvā praṇipatya abravīt vacaḥ .. 7.9.23 ..
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ ७.९.२४ ॥
भगवन् ईदृशान् पुत्रान् त्वत्तः अहम् ब्रह्म-वादिनः । न इच्छामि सु दुराचारान् प्रसादम् कर्तुम् अर्हसि ॥ ७।९।२४ ॥
bhagavan īdṛśān putrān tvattaḥ aham brahma-vādinaḥ . na icchāmi su durācārān prasādam kartum arhasi .. 7.9.24 ..
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ ७.९.२५ ॥
कन्यया तु एवम् उक्तः तु विश्रवाः मुनि-पुङ्गवः । उवाच कैकसीम् भूयस् पूर्ण-इन्दुः इव रोहिणीम् ॥ ७।९।२५ ॥
kanyayā tu evam uktaḥ tu viśravāḥ muni-puṅgavaḥ . uvāca kaikasīm bhūyas pūrṇa-induḥ iva rohiṇīm .. 7.9.25 ..
पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ ७.९.२६ ॥
पश्चिमः यः तव सुतः भविष्यति शुभ-आनने । मम वंश-अनुरूपः स धर्म-आत्मा च भविष्यति ॥ ७।९।२६ ॥
paścimaḥ yaḥ tava sutaḥ bhaviṣyati śubha-ānane . mama vaṃśa-anurūpaḥ sa dharma-ātmā ca bhaviṣyati .. 7.9.26 ..
एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ ७.९.२७ ॥
एवम् उक्ता तु सा कन्या राम कालेन केनचिद् । जनयामास बीभत्सम् रक्षः-रूपम् सु दारुणम् ॥ ७।९।२७ ॥
evam uktā tu sā kanyā rāma kālena kenacid . janayāmāsa bībhatsam rakṣaḥ-rūpam su dāruṇam .. 7.9.27 ..
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ ७.९.२८ ॥
दशग्रीवम् महा-दंष्ट्रम् नीलाञ्जन-चय-उपमम् । ताम्र-उष्ठम् विंशति-भुजम् महा-आस्यम् दीप्त-मूर्धजम् ॥ ७।९।२८ ॥
daśagrīvam mahā-daṃṣṭram nīlāñjana-caya-upamam . tāmra-uṣṭham viṃśati-bhujam mahā-āsyam dīpta-mūrdhajam .. 7.9.28 ..
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ ७.९.२९ ॥
तस्मिन् जाते तु तद्-काले स ज्वाल-कवलाः शिवाः । क्रव्यादाः च अपसव्यानि मण्डलानि प्रचक्रमुः ॥ ७।९।२९ ॥
tasmin jāte tu tad-kāle sa jvāla-kavalāḥ śivāḥ . kravyādāḥ ca apasavyāni maṇḍalāni pracakramuḥ .. 7.9.29 ..
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ७.९.३० ॥
ववर्ष रुधिरम् देवः मेघाः च खर-निःस्वनाः । प्रबभौ न च सूर्यः वै महा-उल्काः च अपतन् भुवि ॥ ७।९।३० ॥
vavarṣa rudhiram devaḥ meghāḥ ca khara-niḥsvanāḥ . prababhau na ca sūryaḥ vai mahā-ulkāḥ ca apatan bhuvi .. 7.9.30 ..
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ ७.९.३१ ॥
चकम्पे जगती च एव ववुः वाताः सु दारुणाः । अक्षोभ्यः क्षुभितः च एव समुद्रः सरिताम् पतिः ॥ ७।९।३१ ॥
cakampe jagatī ca eva vavuḥ vātāḥ su dāruṇāḥ . akṣobhyaḥ kṣubhitaḥ ca eva samudraḥ saritām patiḥ .. 7.9.31 ..
अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ॥ ७.९.३२ ॥
अथ नाम अकरोत् तस्य पितामह-समः पिता । दशग्रीवः प्रसूतः अयम् दशग्रीवः भविष्यति ॥ ७।९।३२ ॥
atha nāma akarot tasya pitāmaha-samaḥ pitā . daśagrīvaḥ prasūtaḥ ayam daśagrīvaḥ bhaviṣyati .. 7.9.32 ..
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ७.९.३३ ॥
तस्य तु अनन्तरम् जातः कुम्भकर्णः महा-बलः । प्रमाण-आद्यस्य विपुलम् प्रमाणम् न इह विद्यते ॥ ७।९।३३ ॥
tasya tu anantaram jātaḥ kumbhakarṇaḥ mahā-balaḥ . pramāṇa-ādyasya vipulam pramāṇam na iha vidyate .. 7.9.33 ..
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ७.९.३४ ॥
ततस् शूर्पणखा नाम सञ्जज्ञे विकृत-आनना । विभीषणः च धर्म-आत्मा कैकस्याः पश्चिमः सुतः ॥ ७।९।३४ ॥
tatas śūrpaṇakhā nāma sañjajñe vikṛta-ānanā . vibhīṣaṇaḥ ca dharma-ātmā kaikasyāḥ paścimaḥ sutaḥ .. 7.9.34 ..
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ७.९.३५ ॥
तस्मिन् जाते महासत्त्वे पुष्प-वर्षम् पपात ह ॥ ७।९।३५ ॥
tasmin jāte mahāsattve puṣpa-varṣam papāta ha .. 7.9.35 ..
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ ७.९.३६ ॥
नभः-स्थाने दुन्दुभयः देवानाम् प्राणदन् तदा । वाक्यम् च एव अन्तरिक्षे च साधु साधु इति तत् तदा ॥ ७।९।३६ ॥
nabhaḥ-sthāne dundubhayaḥ devānām prāṇadan tadā . vākyam ca eva antarikṣe ca sādhu sādhu iti tat tadā .. 7.9.36 ..
तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ७.९.३७ ॥
तौ तु तत्र महा-अरण्ये ववृधाते महा-ओजसौ । कुम्भकर्ण-दशग्रीवौ लोक-उद्वेग-करौ तदा ॥ ७।९।३७ ॥
tau tu tatra mahā-araṇye vavṛdhāte mahā-ojasau . kumbhakarṇa-daśagrīvau loka-udvega-karau tadā .. 7.9.37 ..
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ ७.९.३८ ॥
कुम्भकर्णः प्रमत्तः तु महा-ऋषीन् धर्म-वत्सलान् । त्रैलोक्यम् भक्षयन् नित्य-अ सन्तुष्टः विचचार ह ॥ ७।९।३८ ॥
kumbhakarṇaḥ pramattaḥ tu mahā-ṛṣīn dharma-vatsalān . trailokyam bhakṣayan nitya-a santuṣṭaḥ vicacāra ha .. 7.9.38 ..
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ७.९.३९ ॥
विभीषणः तु धर्म-आत्मा नित्यम् धर्मे व्यवस्थितः । स्वाध्याय-नियत-आहारः उवास विजित-इन्द्रियः ॥ ७।९।३९ ॥
vibhīṣaṇaḥ tu dharma-ātmā nityam dharme vyavasthitaḥ . svādhyāya-niyata-āhāraḥ uvāsa vijita-indriyaḥ .. 7.9.39 ..
अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ७.९.४० ॥
अथ वैश्रवणः देवः तत्र कालेन केनचिद् । आगतः पितरम् द्रष्टुम् पुष्पकेण धनेश्वरः ॥ ७।९।४० ॥
atha vaiśravaṇaḥ devaḥ tatra kālena kenacid . āgataḥ pitaram draṣṭum puṣpakeṇa dhaneśvaraḥ .. 7.9.40 ..
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ७.९.४१ ॥
तम् दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा । आगम्य राक्षसी तत्र दशग्रीवम् उवाच ह ॥ ७।९।४१ ॥
tam dṛṣṭvā kaikasī tatra jvalantam iva tejasā . āgamya rākṣasī tatra daśagrīvam uvāca ha .. 7.9.41 ..
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ७.९.४२ ॥
पुत्र वैश्रवणम् पश्य भ्रातरम् तेजसा वृतम् । भ्रातृ-भावे समे च अपि पश्य आत्मानम् त्वम् ईदृशम् ॥ ७।९।४२ ॥
putra vaiśravaṇam paśya bhrātaram tejasā vṛtam . bhrātṛ-bhāve same ca api paśya ātmānam tvam īdṛśam .. 7.9.42 ..
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ ७.९.४३ ॥
दशग्रीव तथा यत्नम् कुरुष्व अमित-विक्रम । यथा त्वम् असि मे पुत्र भव वैश्रवण-उपमः ॥ ७।९।४३ ॥
daśagrīva tathā yatnam kuruṣva amita-vikrama . yathā tvam asi me putra bhava vaiśravaṇa-upamaḥ .. 7.9.43 ..
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ७.९.४४ ॥
मातुः तत् वचनम् श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षम् अतुलम् लेभे प्रतिज्ञाम् च अकरोत् तदा ॥ ७।९।४४ ॥
mātuḥ tat vacanam śrutvā daśagrīvaḥ pratāpavān . amarṣam atulam lebhe pratijñām ca akarot tadā .. 7.9.44 ..
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ ७.९.४५ ॥
सत्यम् ते प्रतिजानामि भ्रातृ-तुल्यः अधिकः अपि वा । भविष्यामि ओजसा च एव सन्तापम् त्यज हृद्-गतम् ॥ ७।९।४५ ॥
satyam te pratijānāmi bhrātṛ-tulyaḥ adhikaḥ api vā . bhaviṣyāmi ojasā ca eva santāpam tyaja hṛd-gatam .. 7.9.45 ..
ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ७.९.४६ ॥
ततस् तेन एव कोपेन दशग्रीवः सहानुजः । चिकीर्षुः दुष्करम् कर्म तपसे धृत-मानसः ॥ ७।९।४६ ॥
tatas tena eva kopena daśagrīvaḥ sahānujaḥ . cikīrṣuḥ duṣkaram karma tapase dhṛta-mānasaḥ .. 7.9.46 ..
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ७.९.४७ ॥
प्राप्स्यामि तपसा कामम् इति कृत्वा अध्यवस्य च । आगच्छत् आत्म-सिद्धि-अर्थम् गोकर्णस्य आश्रमम् शुभम् ॥ ७।९।४७ ॥
prāpsyāmi tapasā kāmam iti kṛtvā adhyavasya ca . āgacchat ātma-siddhi-artham gokarṇasya āśramam śubham .. 7.9.47 ..
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ७.९.४८ ॥
स राक्षसः तत्र सहानुजः तदा तपः चकार अतुलम् उग्र-विक्रमः । अतोषयत् च अपि पितामहम् विभुम् ददौ स तुष्टः च वरान् जय-आवहान् ॥ ७।९।४८ ॥
sa rākṣasaḥ tatra sahānujaḥ tadā tapaḥ cakāra atulam ugra-vikramaḥ . atoṣayat ca api pitāmaham vibhum dadau sa tuṣṭaḥ ca varān jaya-āvahān .. 7.9.48 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ॥ ९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे नवमः सर्गः ॥ ९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe navamaḥ sargaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In