This overlay will guide you through the buttons:

| |
|
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ ७.९०.१ ॥
तथा उक्तवति रामे तु तस्य जन्म तत् अद्भुतम् । उवाच लक्ष्मणः भूयस् भरतः च महा-यशाः ॥ ७।९०।१ ॥
tathā uktavati rāme tu tasya janma tat adbhutam . uvāca lakṣmaṇaḥ bhūyas bharataḥ ca mahā-yaśāḥ .. 7.90.1 ..
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ ७.९०.२ ॥
इला सा सोमपुत्रस्य संवत्सरम् अथ उषिता । अकरोत् किम् नर-श्रेष्ठ तत्त्वम् शंसितुम् अर्हसि ॥ ७।९०।२ ॥
ilā sā somaputrasya saṃvatsaram atha uṣitā . akarot kim nara-śreṣṭha tattvam śaṃsitum arhasi .. 7.90.2 ..
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ७.९०.३ ॥
तयोः तत् वाक्य-माधुर्यम् निशम्य परिपृच्छतोः । रामः पुनर् उवाच इमाम् प्रजापति-सुते कथाम् ॥ ७।९०।३ ॥
tayoḥ tat vākya-mādhuryam niśamya paripṛcchatoḥ . rāmaḥ punar uvāca imām prajāpati-sute kathām .. 7.90.3 ..
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ॥ ७.९०.४ ॥
पुरुष-त्वम् गते शूरे बुधः परम-बुद्धिमान् । संवर्तम् परम-उदारम् आजुहाव महा-यशाः ॥ ७।९०।४ ॥
puruṣa-tvam gate śūre budhaḥ parama-buddhimān . saṃvartam parama-udāram ājuhāva mahā-yaśāḥ .. 7.90.4 ..
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ७.९०.५ ॥
च्यवनम् भृगुपुत्रम् च मुनिम् च अरिष्टनेमिनम् । प्रमोदनम् मोद-करम् ततस् दुर्वाससम् मुनिम् ॥ ७।९०।५ ॥
cyavanam bhṛguputram ca munim ca ariṣṭaneminam . pramodanam moda-karam tatas durvāsasam munim .. 7.90.5 ..
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ७.९०.६ ॥
एतान् सर्वान् समानीय वाक्य-ज्ञः तत्त्व-दर्शनः । उवाच सर्वान् सुहृदः धैर्येण सु समाहितान् ॥ ७।९०।६ ॥
etān sarvān samānīya vākya-jñaḥ tattva-darśanaḥ . uvāca sarvān suhṛdaḥ dhairyeṇa su samāhitān .. 7.90.6 ..
अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७.९०.७ ॥
अयम् राजा महा-बाहुः कर्दमस्य इलः सुतः । जानीत एनम् यथाभूतम् श्रेयः हि अत्र विधीयताम् ॥ ७।९०।७ ॥
ayam rājā mahā-bāhuḥ kardamasya ilaḥ sutaḥ . jānīta enam yathābhūtam śreyaḥ hi atra vidhīyatām .. 7.90.7 ..
तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ७.९०.८ ॥
तेषाम् संवदताम् एव तम् आश्रमम् उपागमत् । कर्दमः तु महा-तेजाः द्विजैः सह महात्मभिः ॥ ७।९०।८ ॥
teṣām saṃvadatām eva tam āśramam upāgamat . kardamaḥ tu mahā-tejāḥ dvijaiḥ saha mahātmabhiḥ .. 7.90.8 ..
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥ ७.९०.९ ॥
पुलस्त्यः च क्रतुः च एव वषट्कारः तथा एव च । ओङ्कारः च महा-तेजाः तम् आश्रमम् उपागमत् ॥ ७।९०।९ ॥
pulastyaḥ ca kratuḥ ca eva vaṣaṭkāraḥ tathā eva ca . oṅkāraḥ ca mahā-tejāḥ tam āśramam upāgamat .. 7.90.9 ..
ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ ७.९०.१० ॥
ते सर्वे हृष्ट-मनसः परस्पर-समागमे । हित-एषिणः बाल्हि-पतेः पृथक् वाक्यानि अथ अब्रुवन् ॥ ७।९०।१० ॥
te sarve hṛṣṭa-manasaḥ paraspara-samāgame . hita-eṣiṇaḥ bālhi-pateḥ pṛthak vākyāni atha abruvan .. 7.90.10 ..
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ७.९०.११ ॥
कर्दमः तु अब्रवीत् वाक्यम् सुत-अर्थम् परमम् हितम् । द्विजाः शृणुत मद्-वाक्यम् यत् श्रेयः पार्थिवस्य हि ॥ ७।९०।११ ॥
kardamaḥ tu abravīt vākyam suta-artham paramam hitam . dvijāḥ śṛṇuta mad-vākyam yat śreyaḥ pārthivasya hi .. 7.90.11 ..
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥ ७.९०.१२ ॥
न अन्यम् पश्यामि भैषज्यम् अन्तरा वृषभध्वजम् । न अश्वमेधात् परः यज्ञः प्रियः च एव महात्मनः । तस्मात् यजामहे सर्वे पार्थिव-अर्थे दुरासदम् ॥ ७।९०।१२ ॥
na anyam paśyāmi bhaiṣajyam antarā vṛṣabhadhvajam . na aśvamedhāt paraḥ yajñaḥ priyaḥ ca eva mahātmanaḥ . tasmāt yajāmahe sarve pārthiva-arthe durāsadam .. 7.90.12 ..
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ ७.९०.१३ ॥
कर्दमेन एवम् उक्ताः तु सर्वे एव द्विजर्षभाः । रोचयन्ति स्म तम् यज्ञम् रुद्रस्य आराधनम् प्रति ॥ ७।९०।१३ ॥
kardamena evam uktāḥ tu sarve eva dvijarṣabhāḥ . rocayanti sma tam yajñam rudrasya ārādhanam prati .. 7.90.13 ..
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ ७.९०.१४ ॥
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्तः इति विख्यातः तम् यज्ञम् समुपाहरत् ॥ ७।९०।१४ ॥
saṃvartasya tu rājarṣeḥ śiṣyaḥ purapurañjayaḥ . maruttaḥ iti vikhyātaḥ tam yajñam samupāharat .. 7.90.14 ..
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ॥ ७.९०.१५ ॥
ततस् यज्ञः महान् आसीत् बुध-आश्रम-समीपतः । रुद्रः च परमम् तोषम् आजगाम महा-यशाः ॥ ७।९०।१५ ॥
tatas yajñaḥ mahān āsīt budha-āśrama-samīpataḥ . rudraḥ ca paramam toṣam ājagāma mahā-yaśāḥ .. 7.90.15 ..
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥ ७.९०.१६ ॥
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिः द्विजान् सर्वान् उवाच इल-सन्निधौ ॥ ७।९०।१६ ॥
atha yajñe samāpte tu prītaḥ paramayā mudā . umāpatiḥ dvijān sarvān uvāca ila-sannidhau .. 7.90.16 ..
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ ७.९०.१७ ॥
प्रीतः अस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लि-पतेः च एव किम् करोमि प्रियम् शुभम् ॥ ७।९०।१७ ॥
prītaḥ asmi hayamedhena bhaktyā ca dvijasattamāḥ . asya bāhli-pateḥ ca eva kim karomi priyam śubham .. 7.90.17 ..
तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ ७.९०.१८ ॥
तथा वदति देवेशे द्विजाः ते सु समाहिताः । प्रसादयन्ति देवेशम् यथा स्यात् पुरुषः तु इला ॥ ७।९०।१८ ॥
tathā vadati deveśe dvijāḥ te su samāhitāḥ . prasādayanti deveśam yathā syāt puruṣaḥ tu ilā .. 7.90.18 ..
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥ ७.९०.१९ ॥
ततस् प्रीतः महादेवः पुरुष-त्वम् ददौ पुनर् । इलायै सु महा-तेजाः दत्त्वा च अन्तरधीयत ॥ ७।९०।१९ ॥
tatas prītaḥ mahādevaḥ puruṣa-tvam dadau punar . ilāyai su mahā-tejāḥ dattvā ca antaradhīyata .. 7.90.19 ..
निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ ७.९०.२० ॥
निवृत्ते हयमेधे च गतः च अदर्शनम् हरः । यथागतम् द्विजाः सर्वे हि अगच्छन् दीर्घदर्शिनः ॥ ७।९०।२० ॥
nivṛtte hayamedhe ca gataḥ ca adarśanam haraḥ . yathāgatam dvijāḥ sarve hi agacchan dīrghadarśinaḥ .. 7.90.20 ..
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ ७.९०.२१ ॥
राजा तु बाह्लिम् उत्सृज्य मध्यदेशे हि अनुत्तमम् । निवेशयामास पुरम् प्रतिष्ठानम् यशस्करम् ॥ ७।९०।२१ ॥
rājā tu bāhlim utsṛjya madhyadeśe hi anuttamam . niveśayāmāsa puram pratiṣṭhānam yaśaskaram .. 7.90.21 ..
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ ७.९०.२२ ॥
शशबिन्दुः च राजर्षिः बाह्लिम् पुरपुरञ्जयः । प्रतिष्ठाने इलः राजा प्रजापति-सुतः बली ॥ ७।९०।२२ ॥
śaśabinduḥ ca rājarṣiḥ bāhlim purapurañjayaḥ . pratiṣṭhāne ilaḥ rājā prajāpati-sutaḥ balī .. 7.90.22 ..
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ ७.९०.२३ ॥
स काले प्राप्तवान् लोकम् इलः ब्राह्मम् अनुत्तमम् । ऐलः पुरूरवाः राजा प्रतिष्ठानम् अवाप्तवान् ॥ ७।९०।२३ ॥
sa kāle prāptavān lokam ilaḥ brāhmam anuttamam . ailaḥ purūravāḥ rājā pratiṣṭhānam avāptavān .. 7.90.23 ..
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ ७.९०.२४ ॥
ईदृशः हि अश्वमेधस्य प्रभावः पुरुष-ऋषभौ । स्त्री-भूतः पौरुषम् लेभे यत् च अन्यत् अपि दुर्लभम् ॥ ७।९०।२४ ॥
īdṛśaḥ hi aśvamedhasya prabhāvaḥ puruṣa-ṛṣabhau . strī-bhūtaḥ pauruṣam lebhe yat ca anyat api durlabham .. 7.90.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे नवतितमः सर्गः ॥ ९० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe navatitamaḥ sargaḥ .. 90 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In