This overlay will guide you through the buttons:

| |
|
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ ७.९१.१ ॥
एतत् आख्याय काकुत्स्थः भ्रातृभ्याम् अमित-प्रभः । लक्ष्मणम् पुनर् एव आह धर्म-युक्तम् इदम् वचः ॥ ७।९१।१ ॥
etat ākhyāya kākutsthaḥ bhrātṛbhyām amita-prabhaḥ . lakṣmaṇam punar eva āha dharma-yuktam idam vacaḥ .. 7.91.1 ..
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ ७.९१.२ ॥
वसिष्ठम् वामदेवम् च जाबालिम् अथ कश्यपम् । द्विजान् च सर्व-प्रवरान् अश्वमेध-पुरस्कृतान् ॥ ७।९१।२ ॥
vasiṣṭham vāmadevam ca jābālim atha kaśyapam . dvijān ca sarva-pravarān aśvamedha-puraskṛtān .. 7.91.2 ..
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ ७.९१.३ ॥
एतान् सर्वान् समानीय मन्त्रयित्वा च लक्ष्मण । हयम् लक्षण-सम्पन्नम् विमोक्ष्यामि समाधिना ॥ ७।९१।३ ॥
etān sarvān samānīya mantrayitvā ca lakṣmaṇa . hayam lakṣaṇa-sampannam vimokṣyāmi samādhinā .. 7.91.3 ..
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥ ७.९१.४ ॥
तत् वाक्यम् राघवेण उक्तम् श्रुत्वा त्वरित-विक्रमः । द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ॥ ७।९१।४ ॥
tat vākyam rāghaveṇa uktam śrutvā tvarita-vikramaḥ . dvijān sarvān samāhūya darśayāmāsa rāghavam .. 7.91.4 ..
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ७.९१.५ ॥
ते दृष्ट्वा देव-सङ्काशम् कृत-पाद-अभिवन्दनम् । राघवम् सु दुराधर्षम् आशीर्भिः समपूजयन् ॥ ७।९१।५ ॥
te dṛṣṭvā deva-saṅkāśam kṛta-pāda-abhivandanam . rāghavam su durādharṣam āśīrbhiḥ samapūjayan .. 7.91.5 ..
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥ ७.९१.६ ॥
प्राञ्जलिः स तदा भूत्वा राघवः द्विजसत्तमान् । आचचक्षे अश्वमेधस्य हि अभिप्रायम् महा-यशाः ॥ ७।९१।६ ॥
prāñjaliḥ sa tadā bhūtvā rāghavaḥ dvijasattamān . ācacakṣe aśvamedhasya hi abhiprāyam mahā-yaśāḥ .. 7.91.6 ..
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७.९१.७ ॥
ते तु रामस्य तत् श्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधम् द्विजाः सर्वे पूजयन्ति स्म सर्वशस् ॥ ७।९१।७ ॥
te tu rāmasya tat śrutvā namaskṛtvā vṛṣadhvajam . aśvamedham dvijāḥ sarve pūjayanti sma sarvaśas .. 7.91.7 ..
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ॥ ७.९१.८ ॥
स तेषाम् द्विजमुख्यानाम् वाक्यम् अद्भुत-दर्शनम् । अश्वमेध-आश्रितम् श्रुत्वा भृशम् प्रीतः अभवत् तदा ॥ ७।९१।८ ॥
sa teṣām dvijamukhyānām vākyam adbhuta-darśanam . aśvamedha-āśritam śrutvā bhṛśam prītaḥ abhavat tadā .. 7.91.8 ..
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ॥ ७.९१.९ ॥
विज्ञाय कर्म तत् तेषाम् रामः लक्ष्मणम् अब्रवीत् । प्रेषयस्व द्रुतम् दूतान् सुग्रीवाय महात्मने ॥ ७।९१।९ ॥
vijñāya karma tat teṣām rāmaḥ lakṣmaṇam abravīt . preṣayasva drutam dūtān sugrīvāya mahātmane .. 7.91.9 ..
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ ७.९१.१० ॥
यथा महद्भिः हरिभिः बहुभिः च वनौकसाम् । सार्धम् आगच्छ भद्रम् ते हि अनुभोक्तुम् महा-उत्सवम् ॥ ७।९१।१० ॥
yathā mahadbhiḥ haribhiḥ bahubhiḥ ca vanaukasām . sārdham āgaccha bhadram te hi anubhoktum mahā-utsavam .. 7.91.10 ..
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ७.९१.११ ॥
बिभीषणः च रक्षोभिः कामगैः बहुभिः वृतः । अश्वमेधम् महा-यज्ञम् आयातु अतुल-विक्रमः ॥ ७।९१।११ ॥
bibhīṣaṇaḥ ca rakṣobhiḥ kāmagaiḥ bahubhiḥ vṛtaḥ . aśvamedham mahā-yajñam āyātu atula-vikramaḥ .. 7.91.11 ..
राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ ७.९१.१२ ॥
राजानः च महाभागाः ये मे प्रिय-चिकीर्षवः । स अनुगाः क्षिप्रम् आयान्तु यज्ञम् द्रष्टुम् अनुत्तमम् ॥ ७।९१।१२ ॥
rājānaḥ ca mahābhāgāḥ ye me priya-cikīrṣavaḥ . sa anugāḥ kṣipram āyāntu yajñam draṣṭum anuttamam .. 7.91.12 ..
देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥ ७.९१.१३ ॥
देश-अन्तर-गताः ये च द्विजाः धर्म-समाहिताः । आमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण ॥ ७।९१।१३ ॥
deśa-antara-gatāḥ ye ca dvijāḥ dharma-samāhitāḥ . āmantrayasva tān sarvān aśvamedhāya lakṣmaṇa .. 7.91.13 ..
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः ॥ ७.९१.१४ ॥
ऋषयः च महा-बाहो आहूयन्ताम् तपोधनाः । देश-अन्तर-गताः सर्वे स दाराः च द्विजातयः । तथा एव तालावचराः तथा एव नट-नर्तकाः ॥ ७।९१।१४ ॥
ṛṣayaḥ ca mahā-bāho āhūyantām tapodhanāḥ . deśa-antara-gatāḥ sarve sa dārāḥ ca dvijātayaḥ . tathā eva tālāvacarāḥ tathā eva naṭa-nartakāḥ .. 7.91.14 ..
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ ७.९१.१५ ॥
यज्ञ-वाटः च सु महान् गोमत्याः नैमिशे वने । आज्ञाप्यताम् महा-बाहो तत् हि पुण्यम् अनुत्तमम् ॥ ७।९१।१५ ॥
yajña-vāṭaḥ ca su mahān gomatyāḥ naimiśe vane . ājñāpyatām mahā-bāho tat hi puṇyam anuttamam .. 7.91.15 ..
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ ७.९१.१६ ॥
शान्तयः च महा-बाहो प्रवर्त्यन्ताम् समन्ततः ॥ ७।९१।१६ ॥
śāntayaḥ ca mahā-bāho pravartyantām samantataḥ .. 7.91.16 ..
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ ७.९१.१७ ॥
शतशस् च अपि धर्म-ज्ञाः क्रतु-मुख्यम् अनुत्तमम् । अनुभूय महा-यज्ञम् नैमिशे रघुनन्दन ॥ ७।९१।१७ ॥
śataśas ca api dharma-jñāḥ kratu-mukhyam anuttamam . anubhūya mahā-yajñam naimiśe raghunandana .. 7.91.17 ..
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ ७.९१.१८ ॥
तुष्टः पुष्टः च सर्वः असौ मानितः च यथाविधि । प्रीतिम् यास्यति धर्म-ज्ञ शीघ्रम् आमन्त्र्यताम् जनः ॥ ७।९१।१८ ॥
tuṣṭaḥ puṣṭaḥ ca sarvaḥ asau mānitaḥ ca yathāvidhi . prītim yāsyati dharma-jña śīghram āmantryatām janaḥ .. 7.91.18 ..
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥ ७.९१.१९ ॥
शतम् वाह-सहस्राणाम् तण्डुलानाम् वपुष्मताम् । अयुतम् तिल-मुद्गानाम् प्रयातु अग्रे महा-बल ॥ ७।९१।१९ ॥
śatam vāha-sahasrāṇām taṇḍulānām vapuṣmatām . ayutam tila-mudgānām prayātu agre mahā-bala .. 7.91.19 ..
चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ ७.९१.२० ॥
चणकानाम् कुलित्थानाम् माषाणाम् लवणस्य च । अतस् अनुरूपम् स्नेहम् च गन्धम् सङ्क्षिप्तम् एव च ॥ ७।९१।२० ॥
caṇakānām kulitthānām māṣāṇām lavaṇasya ca . atas anurūpam sneham ca gandham saṅkṣiptam eva ca .. 7.91.20 ..
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ ७.९१.२१ ॥
सुवर्ण-कोट्यः बहुलाः हिरण्यस्य शत-उत्तराः । अग्रतस् भरतः कृत्वा गच्छतु अग्रे समाधिना ॥ ७।९१।२१ ॥
suvarṇa-koṭyaḥ bahulāḥ hiraṇyasya śata-uttarāḥ . agratas bharataḥ kṛtvā gacchatu agre samādhinā .. 7.91.21 ..
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ ७.९१.२२ ॥
अन्तरा पण्य-वीथ्यः च सर्वे च नट-नर्तकाः । सूदाः नार्यः च बहवः नित्यम् यौवन-शालिनः ॥ ७।९१।२२ ॥
antarā paṇya-vīthyaḥ ca sarve ca naṭa-nartakāḥ . sūdāḥ nāryaḥ ca bahavaḥ nityam yauvana-śālinaḥ .. 7.91.22 ..
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥ ७.९१.२३ ॥
भरतेन तु सार्धम् ते यान्तु सैन्यानि च अग्रतस् । नैगमाः बल-वृद्धाः च द्विजाः च सु समाहिताः ॥ ७।९१।२३ ॥
bharatena tu sārdham te yāntu sainyāni ca agratas . naigamāḥ bala-vṛddhāḥ ca dvijāḥ ca su samāhitāḥ .. 7.91.23 ..
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ॥ ७.९१.२४ ॥
कर्मान्तिकान् वर्धकिनः कोश-अध्यक्षान् च नैगमान् । मम मातः तथा सर्वाः कुमार-अन्तःपुराणि च ॥ ७।९१।२४ ॥
karmāntikān vardhakinaḥ kośa-adhyakṣān ca naigamān . mama mātaḥ tathā sarvāḥ kumāra-antaḥpurāṇi ca .. 7.91.24 ..
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ ७.९१.२५ ॥
काञ्चनीम् मम पत्नीम् च दीक्षायाम् ज्ञान् च कर्मणि । अग्रतस् भरतः कृत्वा गच्छतु अग्रे महा-यशाः ॥ ७।९१।२५ ॥
kāñcanīm mama patnīm ca dīkṣāyām jñān ca karmaṇi . agratas bharataḥ kṛtvā gacchatu agre mahā-yaśāḥ .. 7.91.25 ..
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ ७.९१.२६ ॥
उपकार्याः महार्हाः च पार्थिवानाम् महा-ओजसाम् । स अनुगानाम् नर-श्रेष्ठः व्यादिदेश महा-बलः ॥ ७।९१।२६ ॥
upakāryāḥ mahārhāḥ ca pārthivānām mahā-ojasām . sa anugānām nara-śreṣṭhaḥ vyādideśa mahā-balaḥ .. 7.91.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकनवतितमः सर्गः ॥ ९१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekanavatitamaḥ sargaḥ .. 91 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In