This overlay will guide you through the buttons:

| |
|
वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ ७.९३.१ ॥
वर्तमाने तथाभूते यज्ञे च परम-अद्भुते । स शिष्यः आजगाम आशु वाल्मीकिः मुनि-पुङ्गवः ॥ ७।९३।१ ॥
vartamāne tathābhūte yajñe ca parama-adbhute . sa śiṣyaḥ ājagāma āśu vālmīkiḥ muni-puṅgavaḥ .. 7.93.1 ..
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥ ७.९३.२ ॥
स दृष्ट्वा दिव्य-सङ्काशम् यज्ञम् अद्भुत-दर्शनम् । एकान्ते ऋषि-वाटानाम् चकार उटजान् शुभान् ॥ ७।९३।२ ॥
sa dṛṣṭvā divya-saṅkāśam yajñam adbhuta-darśanam . ekānte ṛṣi-vāṭānām cakāra uṭajān śubhān .. 7.93.2 ..
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ७.९३.३ ॥
शकटान् च बहून् पूर्णान् फल-मूलैः च शोभनान् । वाल्मीकि-वाटे रुचिरे स्थापयन् अविदूरतः ॥ ७।९३।३ ॥
śakaṭān ca bahūn pūrṇān phala-mūlaiḥ ca śobhanān . vālmīki-vāṭe rucire sthāpayan avidūrataḥ .. 7.93.3 ..
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥ ७.९३.४ ॥
आसीत् सु पूजितः राज्ञा मुनिभिः च महात्मभिः । वाल्मीकिः सु महा-तेजाः न्यवसत् परम-आत्मवान् ॥ ७।९३।४ ॥
āsīt su pūjitaḥ rājñā munibhiḥ ca mahātmabhiḥ . vālmīkiḥ su mahā-tejāḥ nyavasat parama-ātmavān .. 7.93.4 ..
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ७.९३.५ ॥
स शिष्यौ अब्रवीत् हृष्टौ युवाम् गत्वा समाहितौ । कृत्स्नम् रामायणम् काव्यम् गायेथाम् परया मुदा ॥ ७।९३।५ ॥
sa śiṣyau abravīt hṛṣṭau yuvām gatvā samāhitau . kṛtsnam rāmāyaṇam kāvyam gāyethām parayā mudā .. 7.93.5 ..
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ७.९३.६ ॥
ऋषि-वाटेषु पुण्येषु ब्राह्मण-आवसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानाम् गृहेषु च ॥ ७।९३।६ ॥
ṛṣi-vāṭeṣu puṇyeṣu brāhmaṇa-āvasatheṣu ca . rathyāsu rājamārgeṣu pārthivānām gṛheṣu ca .. 7.93.6 ..
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७.९३.७ ॥
रामस्य भवन-द्वारि यत्र कर्म च कुर्वते । ऋत्विजाम् अग्रतस् च एव तत्र गेयम् विशेषतः ॥ ७।९३।७ ॥
rāmasya bhavana-dvāri yatra karma ca kurvate . ṛtvijām agratas ca eva tatra geyam viśeṣataḥ .. 7.93.7 ..
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥ ७.९३.८ ॥
इमानि च फलानि अत्र स्वादूनि विविधानि च । जातानि पर्वत-अग्रेषु च आस्वाद्य आस्वाद्य गायताम् ॥ ७।९३।८ ॥
imāni ca phalāni atra svādūni vividhāni ca . jātāni parvata-agreṣu ca āsvādya āsvādya gāyatām .. 7.93.8 ..
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ७.९३.९ ॥
न यास्यथः श्रमम् वत्सौ भक्षयित्वा फलानि वै । मूलानि च सु मृष्टानि नगरात् बहिस् आस्यथः ॥ ७।९३।९ ॥
na yāsyathaḥ śramam vatsau bhakṣayitvā phalāni vai . mūlāni ca su mṛṣṭāni nagarāt bahis āsyathaḥ .. 7.93.9 ..
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ ७.९३.१० ॥
यदि शब्दापयेत् रामः श्रवणाय महीपतिः । ऋषीणाम् उपविष्टानाम् ततस् गेयम् प्रवर्तताम् ॥ ७।९३।१० ॥
yadi śabdāpayet rāmaḥ śravaṇāya mahīpatiḥ . ṛṣīṇām upaviṣṭānām tatas geyam pravartatām .. 7.93.10 ..
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ७.९३.११ ॥
दिवसे विंशतिः सर्गाः गेयाः मधुरया गिरा । प्रमाणैः बहुभिः तत्र यथा उद्दिष्टाः मया पुरा ॥ ७।९३।११ ॥
divase viṃśatiḥ sargāḥ geyāḥ madhurayā girā . pramāṇaiḥ bahubhiḥ tatra yathā uddiṣṭāḥ mayā purā .. 7.93.11 ..
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥ ७.९३.१२ ॥
लोभः च अपि न कर्तव्यः सु अल्पः अपि धन-काङ्क्षया । किम् धनेन आश्रम-स्थानाम् फल-मूल-उपजीविना ॥ ७।९३।१२ ॥
lobhaḥ ca api na kartavyaḥ su alpaḥ api dhana-kāṅkṣayā . kim dhanena āśrama-sthānām phala-mūla-upajīvinā .. 7.93.12 ..
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥ ७.९३.१३ ॥
यदि पृच्छेत् स काकुत्स्थः युवाम् कस्य इति दारकौ । आवाम् वाल्मीकि-शिष्यौ स्वः ब्रूतम् एवम् नराधिपम् ॥ ७।९३।१३ ॥
yadi pṛcchet sa kākutsthaḥ yuvām kasya iti dārakau . āvām vālmīki-śiṣyau svaḥ brūtam evam narādhipam .. 7.93.13 ..
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥ ७.९३.१४ ॥
इमाः तन्त्रीः सु मधुराः स्थानम् वा अपूर्व-दर्शनम् । मूर्च्छयित्वा सुमधुरम् गायताम् विगत-ज्वरौ ॥ ७।९३।१४ ॥
imāḥ tantrīḥ su madhurāḥ sthānam vā apūrva-darśanam . mūrcchayitvā sumadhuram gāyatām vigata-jvarau .. 7.93.14 ..
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ॥ ७.९३.१५ ॥
आदि-प्रभृति गेयम् स्यात् न च अवज्ञाय पार्थिवम् । पिता हि सर्व-भूतानाम् राजा भविति धर्मतः ॥ ७।९३।१५ ॥
ādi-prabhṛti geyam syāt na ca avajñāya pārthivam . pitā hi sarva-bhūtānām rājā bhaviti dharmataḥ .. 7.93.15 ..
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ ७.९३.१६ ॥
तत् युवाम् हृष्ट-मनसौ श्वस् प्रभाते समास्थितौ । गायेथाम् मधुरम् गेयम् तन्त्री-लय-समन्वितम् ॥ ७।९३।१६ ॥
tat yuvām hṛṣṭa-manasau śvas prabhāte samāsthitau . gāyethām madhuram geyam tantrī-laya-samanvitam .. 7.93.16 ..
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ ७.९३.१७ ॥
इति सन्दिश्य बहुशस् मुनिः प्राचेतसः तदा । वाल्मीकिः परम-उदारः तूष्णीम् आसीत् महा-यशाः ॥ ७।९३।१७ ॥
iti sandiśya bahuśas muniḥ prācetasaḥ tadā . vālmīkiḥ parama-udāraḥ tūṣṇīm āsīt mahā-yaśāḥ .. 7.93.17 ..
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ ७.९३.१८ ॥
सन्दिष्टौ मुनिना तेन तौ उभौ मैथिली-सुतौ । तथा एव करवाव इति निर्जग्मतुः अरिन्दमौ ॥ ७।९३।१८ ॥
sandiṣṭau muninā tena tau ubhau maithilī-sutau . tathā eva karavāva iti nirjagmatuḥ arindamau .. 7.93.18 ..
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ॥ ७.९३.१९ ॥
ताम् अद्भुताम् तौ हृदये कुमारौ निवेश्य वाणीम् ऋषि-भाषिताम् तदा । समुत्सुकौ तौ सममूषतुः निशाम् यथा अश्विनौ भार्गव-नीति-संहिताम् ॥ ७।९३।१९ ॥
tām adbhutām tau hṛdaye kumārau niveśya vāṇīm ṛṣi-bhāṣitām tadā . samutsukau tau samamūṣatuḥ niśām yathā aśvinau bhārgava-nīti-saṃhitām .. 7.93.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe trinavatitamaḥ sargaḥ .. 93 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In