This overlay will guide you through the buttons:

| |
|
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ ७.९४.१ ॥
तौ रजन्याम् प्रभातायाम् स्नातौ हुत-हुताशनौ । यथा उक्तम् ऋषिणा पूर्वम् सर्वम् तत्र उपगायताम् ॥ ७।९४।१ ॥
tau rajanyām prabhātāyām snātau huta-hutāśanau . yathā uktam ṛṣiṇā pūrvam sarvam tatra upagāyatām .. 7.94.1 ..
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥ ७.९४.२ ॥
ताम् स शुश्राव काकुत्स्थः पूर्व-आचार्य-विजिर्मिताम् । अपूर्वाम् पाठ्य-जातिम् च गेयेन समलङ्कृताम् ॥ ७।९४।२ ॥
tām sa śuśrāva kākutsthaḥ pūrva-ācārya-vijirmitām . apūrvām pāṭhya-jātim ca geyena samalaṅkṛtām .. 7.94.2 ..
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ॥ ७.९४.३ ॥
प्रमाणैः बहुभिः बद्धाम् तन्त्री-लय-समन्विताम् । बालाभ्याम् राघवः श्रुत्वा कौतूहल-परः अभवत् ॥ ७।९४।३ ॥
pramāṇaiḥ bahubhiḥ baddhām tantrī-laya-samanvitām . bālābhyām rāghavaḥ śrutvā kautūhala-paraḥ abhavat .. 7.94.3 ..
अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ७.९४.४ ॥
अथ कर्म-अन्तरे राजा समाहूय महा-मुनीन् । पार्थिवान् च नर-व्याघ्रः पण्डितान् नैगमान् तथा ॥ ७।९४।४ ॥
atha karma-antare rājā samāhūya mahā-munīn . pārthivān ca nara-vyāghraḥ paṇḍitān naigamān tathā .. 7.94.4 ..
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ७.९४.५ ॥
पौराणिकान् शब्द-विदः ये च वृद्धाः द्विजातयः । स्वराणाम् लक्षण-ज्ञान् च उत्सुकान् द्विजसत्तमान् ॥ ७।९४।५ ॥
paurāṇikān śabda-vidaḥ ye ca vṛddhāḥ dvijātayaḥ . svarāṇām lakṣaṇa-jñān ca utsukān dvijasattamān .. 7.94.5 ..
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥ ७.९४.६ ॥
लक्षण-ज्ञान् च गान्धर्वान् नैगमान् च विशेषतः । पाद-अक्षर-समास-ज्ञान् छन्दःसु परिनिष्ठितान् ॥ ७।९४।६ ॥
lakṣaṇa-jñān ca gāndharvān naigamān ca viśeṣataḥ . pāda-akṣara-samāsa-jñān chandaḥsu pariniṣṭhitān .. 7.94.6 ..
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥ ७.९४.७ ॥
कला-मात्रा-विशेष-ज्ञान् ज्योतिषे च परम् गतान् । क्रियाकल्प-विदः च एव तथा कार्य-विदः जनान् ॥ ७।९४।७ ॥
kalā-mātrā-viśeṣa-jñān jyotiṣe ca param gatān . kriyākalpa-vidaḥ ca eva tathā kārya-vidaḥ janān .. 7.94.7 ..
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ॥ ७.९४.८ ॥
भाषा-ज्ञान् इङ्गित-ज्ञान् च नैगमान् च अपि अशेषतस् । हेतु-उपचार-कुशलान् वचने च अपि हैतुकान् ॥ ७।९४।८ ॥
bhāṣā-jñān iṅgita-jñān ca naigamān ca api aśeṣatas . hetu-upacāra-kuśalān vacane ca api haitukān .. 7.94.8 ..
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ७.९४.९ ॥
छन्दः-विदः पुराण-ज्ञान् वैदिकान् द्विजसत्तमान् । चित्र-ज्ञान् वृत्त-सूत्र-ज्ञान् गीत-नृत्य-विशारदान् ॥ ७।९४।९ ॥
chandaḥ-vidaḥ purāṇa-jñān vaidikān dvijasattamān . citra-jñān vṛtta-sūtra-jñān gīta-nṛtya-viśāradān .. 7.94.9 ..
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ॥ ७.९४.१० ॥
शास्त्र-ज्ञान् नीति-निपुणान् वेदान्त-अर्थ-प्रबोधकान् । एतान् सर्वान् समानीय गातारौ समवेशयत् ॥ ७।९४।१० ॥
śāstra-jñān nīti-nipuṇān vedānta-artha-prabodhakān . etān sarvān samānīya gātārau samaveśayat .. 7.94.10 ..
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ ७.९४.११ ॥
दृष्ट्वा मुनि-गणाः सर्वे पार्थिवाः च महा-ओजसः । पिबन्तः इव चक्षुर्भ्याम् राजानम् गायकौ च तौ ॥ ७।९४।११ ॥
dṛṣṭvā muni-gaṇāḥ sarve pārthivāḥ ca mahā-ojasaḥ . pibantaḥ iva cakṣurbhyām rājānam gāyakau ca tau .. 7.94.11 ..
ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥ ७.९४.१२ ॥
ऊचुः परस्परम् च इदम् सर्वे एव समन्ततः । उभौ रामस्य सदृशौ बिम्बात् बिम्बम् इव उत्थितौ ॥ ७।९४।१२ ॥
ūcuḥ parasparam ca idam sarve eva samantataḥ . ubhau rāmasya sadṛśau bimbāt bimbam iva utthitau .. 7.94.12 ..
जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ ७.९४.१३ ॥
जटिलौ यदि न स्याताम् न वल्कल-धरौ यदि । विशेषम् न अधिगच्छामः गायतः राघवस्य च ॥ ७।९४।१३ ॥
jaṭilau yadi na syātām na valkala-dharau yadi . viśeṣam na adhigacchāmaḥ gāyataḥ rāghavasya ca .. 7.94.13 ..
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ ७.९४.१४ ॥
तेषाम् संवदताम् एवम् हर्ष-वर्धनम् । गेयम् प्रचक्रतुः तत्र तौ उभौ मुनि-दारकौ ॥ ७।९४।१४ ॥
teṣām saṃvadatām evam harṣa-vardhanam . geyam pracakratuḥ tatra tau ubhau muni-dārakau .. 7.94.14 ..
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥ ७.९४.१५ ॥
ततस् प्रवृत्तम् मधुरम् गान्धर्वम् अति मानुषम् । न च तृप्तिम् ययुः सर्वे श्रोतारः गान-सम्पदा ॥ ७।९४।१५ ॥
tatas pravṛttam madhuram gāndharvam ati mānuṣam . na ca tṛptim yayuḥ sarve śrotāraḥ gāna-sampadā .. 7.94.15 ..
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ ७.९४.१६ ॥
प्रवृत्तम् आदितः पूर्व-सर्गम् नारद-दर्शितम् । ततस् प्रभृति सर्गान् च यावत् विंशति अगायताम् ॥ ७।९४।१६ ॥
pravṛttam āditaḥ pūrva-sargam nārada-darśitam . tatas prabhṛti sargān ca yāvat viṃśati agāyatām .. 7.94.16 ..
ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ ७.९४.१७ ॥
ततस् अपराह्ण-समये राघवः समभाषत । श्रुत्वा विंशति-सर्गान् तान् भ्रातरम् भ्रातृ-वत्सलः ॥ ७।९४।१७ ॥
tatas aparāhṇa-samaye rāghavaḥ samabhāṣata . śrutvā viṃśati-sargān tān bhrātaram bhrātṛ-vatsalaḥ .. 7.94.17 ..
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ ७.९४.१८ ॥
अष्टादश-सहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रम् काकुत्स्थ यत् अन्यत् अभिकाङ्क्षितम् । ददौ शीघ्रम् स काकुत्स्थः बालयोः वै पृथक् पृथक् ॥ ७।९४।१८ ॥
aṣṭādaśa-sahasrāṇi suvarṇasya mahātmanoḥ . prayaccha śīghram kākutstha yat anyat abhikāṅkṣitam . dadau śīghram sa kākutsthaḥ bālayoḥ vai pṛthak pṛthak .. 7.94.18 ..
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ ७.९४.१९ ॥
दीयमानम् सुवर्णम् तु न अगृह्णीताम् कुशीलवौ । ऊचतुः च महात्मानौ किम् अनेन इति विस्मितौ ॥ ७।९४।१९ ॥
dīyamānam suvarṇam tu na agṛhṇītām kuśīlavau . ūcatuḥ ca mahātmānau kim anena iti vismitau .. 7.94.19 ..
वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ ७.९४.२० ॥
वन्येन फल-मूलेन निरतौ वन-वासिनौ । सुवर्णेन हिरण्येन किम् करिष्यावहे वने ॥ ७।९४।२० ॥
vanyena phala-mūlena niratau vana-vāsinau . suvarṇena hiraṇyena kim kariṣyāvahe vane .. 7.94.20 ..
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ ७.९४.२१ ॥
तथा तयोः प्रब्रुवतोः कौतूहल-समन्विताः । श्रोतारः च एव रामः च सर्वः एव सु विस्मिताः ॥ ७।९४।२१ ॥
tathā tayoḥ prabruvatoḥ kautūhala-samanvitāḥ . śrotāraḥ ca eva rāmaḥ ca sarvaḥ eva su vismitāḥ .. 7.94.21 ..
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ ७.९४.२२ ॥
तस्य च एव आगमम् रामः काव्यस्य श्रोतुम् उत्सुकः । पप्रच्छ तौ महा-तेजाः तौ उभौ मुनि-दारकौ ॥ ७।९४।२२ ॥
tasya ca eva āgamam rāmaḥ kāvyasya śrotum utsukaḥ . papraccha tau mahā-tejāḥ tau ubhau muni-dārakau .. 7.94.22 ..
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ ७.९४.२३ ॥
किम्प्रमाणम् इदम् काव्यम् का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व च असौ मुनि-पुङ्गवः ॥ ७।९४।२३ ॥
kimpramāṇam idam kāvyam kā pratiṣṭhā mahātmanaḥ . kartā kāvyasya mahataḥ kva ca asau muni-puṅgavaḥ .. 7.94.23 ..
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ ७.९४.२४ ॥
पृच्छन्तम् राघवम् वाक्यम् ऊचतुः मुनि-दारकौ ॥ ७।९४।२४ ॥
pṛcchantam rāghavam vākyam ūcatuḥ muni-dārakau .. 7.94.24 ..
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥ ७.९४.२५ ॥
वाल्मीकिः भगवान् कर्ता सम्प्राप्तः यज्ञ-संविधम् । येन इदम् चरितम् तुभ्यम् अशेषम् सम्प्रदर्शितम् ॥ ७।९४।२५ ॥
vālmīkiḥ bhagavān kartā samprāptaḥ yajña-saṃvidham . yena idam caritam tubhyam aśeṣam sampradarśitam .. 7.94.25 ..
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ ७.९४.२६ ॥
सन्निबद्धम् हि श्लोकानाम् चतुर्विशत्-सहस्रकम् । उपाख्यान-शतम् च एव भार्गवेण तपस्विना ॥ ७।९४।२६ ॥
sannibaddham hi ślokānām caturviśat-sahasrakam . upākhyāna-śatam ca eva bhārgaveṇa tapasvinā .. 7.94.26 ..
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ॥ ७.९४.२७ ॥
आदि-प्रभृति वै राजन् पञ्च-सर्ग-शतानि च । काण्डानि षड् कृतानि इह सोत्तराणि महात्मना । कृतानि गुरुणा अस्माकम् ऋषिणा चरितम् तव ॥ ७।९४।२७ ॥
ādi-prabhṛti vai rājan pañca-sarga-śatāni ca . kāṇḍāni ṣaḍ kṛtāni iha sottarāṇi mahātmanā . kṛtāni guruṇā asmākam ṛṣiṇā caritam tava .. 7.94.27 ..
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ ७.९४.२८ ॥
प्रतिष्ठा यावत् तावत् सर्वस्य वर्तते ॥ ७।९४।२८ ॥
pratiṣṭhā yāvat tāvat sarvasya vartate .. 7.94.28 ..
सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ ७.९४.२९ ॥
स उत्तराणि महात्मना । यदि बुद्धिः कृता राजन् श्रवणाय महा-रथ । कर्म-अन्तरे क्षणीभूतः तत् शृणुष्व सहानुजः ॥ ७।९४।२९ ॥
sa uttarāṇi mahātmanā . yadi buddhiḥ kṛtā rājan śravaṇāya mahā-ratha . karma-antare kṣaṇībhūtaḥ tat śṛṇuṣva sahānujaḥ .. 7.94.29 ..
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ७.९४.३० ॥
बाढम् इति अब्रवीत् रामः तौ च अनुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानम् यत्र आस्ते मुनि-पुङ्गवः ॥ ७।९४।३० ॥
bāḍham iti abravīt rāmaḥ tau ca anujñāpya rāghavam . prahṛṣṭau jagmatuḥ sthānam yatra āste muni-puṅgavaḥ .. 7.94.30 ..
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ ७.९४.३१ ॥
रामः अपि मुनिभिः सार्धम् पार्थिवैः च महात्मभिः । श्रुत्वा तत् गीति-माधुर्यम् कर्मशालाम् उपागमत् ॥ ७।९४।३१ ॥
rāmaḥ api munibhiḥ sārdham pārthivaiḥ ca mahātmabhiḥ . śrutvā tat gīti-mādhuryam karmaśālām upāgamat .. 7.94.31 ..
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ७.९४.३२ ॥
शुश्राव तत् ताल-लय-उपपन्नम् सर्ग-अन्वितम् स स्वर-शब्द-युक्तम् । तन्त्री-लय-व्यञ्जन-योग-युक्तम् कुशीलवाभ्याम् परिगीयमानम् ॥ ७।९४।३२ ॥
śuśrāva tat tāla-laya-upapannam sarga-anvitam sa svara-śabda-yuktam . tantrī-laya-vyañjana-yoga-yuktam kuśīlavābhyām parigīyamānam .. 7.94.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe caturnavatitamaḥ sargaḥ .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In