This overlay will guide you through the buttons:

| |
|
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ ७.९४.१ ॥
tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau . yathoktamṛṣiṇā pūrvaṃ sarvaṃ tatropagāyatām .. 7.94.1 ..
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥ ७.९४.२ ॥
tāṃ sa śuśrāva kākutsthaḥ pūrvācāryavijirmitām . apūrvāṃ pāṭhyajātiṃ ca geyena samalaṅkṛtām .. 7.94.2 ..
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ॥ ७.९४.३ ॥
pramāṇairbahubhirbaddhāṃ tantrīlayasamanvitām . bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat .. 7.94.3 ..
अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ७.९४.४ ॥
atha karmāntare rājā samāhūya mahāmunīn . pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā .. 7.94.4 ..
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ७.९४.५ ॥
paurāṇikāñchabdavido ye ca vṛddhā dvijātayaḥ . svarāṇāṃ lakṣaṇajñāṃśca utsukāndvijasattamān .. 7.94.5 ..
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥ ७.९४.६ ॥
lakṣaṇajñāṃśca gāndharvānnaigamāṃśca viśeṣataḥ . pādākṣarasamāsajñāṃśchandaḥsu pariniṣṭhitān .. 7.94.6 ..
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥ ७.९४.७ ॥
kalāmātrāviśeṣajñāñjyotiṣe ca paraṃ gatān . kriyākalpavidaścaiva tathā kāryavido janān .. 7.94.7 ..
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ॥ ७.९४.८ ॥
bhāṣājñāniṅgitajñāṃśca naigamāṃścāpyaśeṣataḥ . hetūpacārakuśalān vacane cāpi haitukān .. 7.94.8 ..
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ७.९४.९ ॥
chandovidaḥ purāṇajñānvaidikāndvijasattamān . citrajñānvṛttasūtrajñāngītanṛtyaviśāradān .. 7.94.9 ..
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ॥ ७.९४.१० ॥
śāstrajñānnītinipuṇānvedāntārthaprabodhakān . etānsarvānsamānīya gātārau samaveśayat .. 7.94.10 ..
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ ७.९४.११ ॥
dṛṣṭvā munigaṇāḥ sarve pārthivāśca mahaujasaḥ . pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau .. 7.94.11 ..
ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥ ७.९४.१२ ॥
ūcuḥ parasparaṃ cedaṃ sarva eva samantataḥ . ubhau rāmasya sadṛśau bimbādbimbamivotthitau .. 7.94.12 ..
जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ ७.९४.१३ ॥
jaṭilau yadi na syātāṃ na valkaladharau yadi . viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca .. 7.94.13 ..
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ ७.९४.१४ ॥
teṣāṃ saṃvadatāmevaṃ śrota'ṇāṃ harṣavardhanam . geyaṃ pracakratustatra tāvubhau munidārakau .. 7.94.14 ..
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥ ७.९४.१५ ॥
tataḥ pravṛttaṃ madhuraṃ gāndharvamatimānuṣam . na ca tṛptiṃ yayuḥ sarve śrotāro gānasampadā .. 7.94.15 ..
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ ७.९४.१६ ॥
pravṛttamāditaḥ pūrvasargaṃ nāradadarśitam . tataḥ prabhṛti sargāṃśca yāvadviṃśatyagāyatām .. 7.94.16 ..
ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ ७.९४.१७ ॥
tato 'parāhṇasamaye rāghavaḥ samabhāṣata . śrutvā viṃśatisargāṃstānbhrātaraṃ bhrātṛvatsalaḥ .. 7.94.17 ..
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ ७.९४.१८ ॥
aṣṭādaśasahasrāṇi suvarṇasya mahātmanoḥ . prayaccha śīghraṃ kākutstha yadanyadabhikāṅkṣitam . dadau śīghraṃ sa kākutstho bālayorvai pṛthakpṛthak .. 7.94.18 ..
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ ७.९४.१९ ॥
dīyamānaṃ suvarṇaṃ tu nāgṛhṇītāṃ kuśīlavau . ūcatuśca mahātmānau kimaneneti vismitau .. 7.94.19 ..
वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ ७.९४.२० ॥
vanyena phalamūlena niratau vanavāsinau . suvarṇena hiraṇyena kiṃ kariṣyāvahe vane .. 7.94.20 ..
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ ७.९४.२१ ॥
tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ . śrotāraścaiva rāmaśca sarva eva suvismitāḥ .. 7.94.21 ..
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ ७.९४.२२ ॥
tasya caivāgamaṃ rāmaḥ kāvyasya śrotumutsukaḥ . papraccha tau mahātejāstāvubhau munidārakau .. 7.94.22 ..
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ ७.९४.२३ ॥
kimpramāṇamidaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ . kartā kāvyasya mahataḥ kva cāsau munipuṅgavaḥ .. 7.94.23 ..
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ ७.९४.२४ ॥
pṛcchantaṃ rāghavaṃ vākyamūcaturmunidārakau .. 7.94.24 ..
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥ ७.९४.२५ ॥
vālmīkirbhagavānkartā samprāpto yajñasaṃvidham . yenedaṃ caritaṃ tubhyamaśeṣaṃ sampradarśitam .. 7.94.25 ..
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ ७.९४.२६ ॥
sannibaddhaṃ hi ślokānāṃ caturviśatsahasrakam . upākhyānaśataṃ caiva bhārgaveṇa tapasvinā .. 7.94.26 ..
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ॥ ७.९४.२७ ॥
ādiprabhṛti vai rājanpañcasargaśatāni ca . kāṇḍāni ṣaṭ kṛtānīha sottarāṇi mahātmanā . kṛtāni guruṇāsmākamṛṣiṇā caritaṃ tava .. 7.94.27 ..
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ ७.९४.२८ ॥
pratiṣṭhā ' 'jīvitaṃ yāvattāvatsarvasya vartate .. 7.94.28 ..
सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ ७.९४.२९ ॥
sottarāṇi mahātmanā . yadi buddhiḥ kṛtā rājañchravaṇāya mahāratha . karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ .. 7.94.29 ..
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ७.९४.३० ॥
bāḍhamityabravīdrāmastau cānujñāpya rāghavam . prahṛṣṭau jagmatuḥ sthānaṃ yatrāste munipuṅgavaḥ .. 7.94.30 ..
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ ७.९४.३१ ॥
rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ . śrutvā tadgītimādhuryaṃ karmaśālāmupāgamat .. 7.94.31 ..
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ७.९४.३२ ॥
śuśrāva tattālalayopapannaṃ sargānvitaṃ sa svaraśabdayuktam . tantrīlayavyañjanayogayuktaṃ kuśīlavābhyāṃ parigīyamānam .. 7.94.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturnavatitamaḥ sargaḥ .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In