This overlay will guide you through the buttons:

| |
|
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ ७.९५.१ ॥
रामः बहूनि अहानि एवम् तत् गीतम् परमम् शुभम् । शुश्राव मुनिभिः सार्धम् पार्थिवैः सह वानरैः ॥ ७।९५।१ ॥
rāmaḥ bahūni ahāni evam tat gītam paramam śubham . śuśrāva munibhiḥ sārdham pārthivaiḥ saha vānaraiḥ .. 7.95.1 ..
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ ७.९५.२ ॥
तस्मिन् गीते तु विज्ञाय सीता-पुत्रौ कुशीलवौ । तस्याः परिषदः मध्ये रामः वचनम् अब्रवीत् । दूतान् शुद्ध-समाचारान् आहूय आत्म-मनीषया ॥ ७।९५।२ ॥
tasmin gīte tu vijñāya sītā-putrau kuśīlavau . tasyāḥ pariṣadaḥ madhye rāmaḥ vacanam abravīt . dūtān śuddha-samācārān āhūya ātma-manīṣayā .. 7.95.2 ..
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ॥ ७.९५.३ ॥
मद्-वचः ब्रूत गच्छध्वम् इतस् भगवतः अन्तिकम् ॥ ७।९५।३ ॥
mad-vacaḥ brūta gacchadhvam itas bhagavataḥ antikam .. 7.95.3 ..
परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ७.९५.४ ॥
परिषदः मध्ये रामः वचनम् अब्रवीत् । यदि शुद्ध-समाचारा यदि वा वीत-कल्मषा । करोतु इह आत्मनः शुद्धिम् अनुमान्य महा-मुनिम् ॥ ७।९५।४ ॥
pariṣadaḥ madhye rāmaḥ vacanam abravīt . yadi śuddha-samācārā yadi vā vīta-kalmaṣā . karotu iha ātmanaḥ śuddhim anumānya mahā-munim .. 7.95.4 ..
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ७.९५.५ ॥
छन्दम् मुनेः च विज्ञाय सीतायाः च मनोगतम् । प्रत्ययम् दातु-कामायाः ततस् शंसत मे लघु ॥ ७।९५।५ ॥
chandam muneḥ ca vijñāya sītāyāḥ ca manogatam . pratyayam dātu-kāmāyāḥ tatas śaṃsata me laghu .. 7.95.5 ..
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ७.९५.६ ॥
श्वस् प्रभाते तु शपथम् मैथिली जनकात्मजा । करोतु परिषद्-मध्ये शोधन-अर्थम् मम एव च ॥ ७।९५।६ ॥
śvas prabhāte tu śapatham maithilī janakātmajā . karotu pariṣad-madhye śodhana-artham mama eva ca .. 7.95.6 ..
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ ७.९५.७ ॥
श्रुत्वा तु ऱागवस्य एतत् वचः परमम् अद्भुतम् । दूताः सम्प्रययुः बाटम् यत्र आस्ते मुनि-पुङ्गवः ॥ ७।९५।७ ॥
śrutvā tu ṟāgavasya etat vacaḥ paramam adbhutam . dūtāḥ samprayayuḥ bāṭam yatra āste muni-puṅgavaḥ .. 7.95.7 ..
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ७.९५.८ ॥
ते प्रणम्य महात्मानम् ज्वलन्तम् अमित-प्रभम् । ऊचुः ते राम-वाक्यानि मृदूनि मधुराणि च ॥ ७।९५।८ ॥
te praṇamya mahātmānam jvalantam amita-prabham . ūcuḥ te rāma-vākyāni mṛdūni madhurāṇi ca .. 7.95.8 ..
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ७.९५.९ ॥
तेषाम् तत् व्याहृतम् श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सु महा-तेजाः मुनिः वाक्यम् अथा अब्रवीत् ॥ ७।९५।९ ॥
teṣām tat vyāhṛtam śrutvā rāmasya ca manogatam . vijñāya su mahā-tejāḥ muniḥ vākyam athā abravīt .. 7.95.9 ..
एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ ७.९५.१० ॥
एवम् भवतु भद्रम् वः यथा वदति राघवः । तथा करिष्यते सीता दैवतम् हि पतिः स्त्रियाः ॥ ७।९५।१० ॥
evam bhavatu bhadram vaḥ yathā vadati rāghavaḥ . tathā kariṣyate sītā daivatam hi patiḥ striyāḥ .. 7.95.10 ..
तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ७.९५.११ ॥
तथा उक्ताः मुनिना सर्वे राज-दूताः महा-ओजसम् । प्रत्येत्य राघवम् क्षिप्रम् मुनि-वाक्यम् बभाषिरे ॥ ७।९५।११ ॥
tathā uktāḥ muninā sarve rāja-dūtāḥ mahā-ojasam . pratyetya rāghavam kṣipram muni-vākyam babhāṣire .. 7.95.11 ..
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ ७.९५.१२ ॥
ततस् प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यम् महात्मनः । ऋषीन् तत्र समेतान् च राज्ञः च एव अभ्यभाषत ॥ ७।९५।१२ ॥
tatas prahṛṣṭaḥ kākutsthaḥ śrutvā vākyam mahātmanaḥ . ṛṣīn tatra sametān ca rājñaḥ ca eva abhyabhāṣata .. 7.95.12 ..
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ॥ ७.९५.१३ ॥
भगवन्तः स शिष्याः वै स अनुगाः च नराधिपाः । पश्यन्तु सीता-शपथम् यः च एव अन्यः अपि काङ्क्षते ॥ ७।९५।१३ ॥
bhagavantaḥ sa śiṣyāḥ vai sa anugāḥ ca narādhipāḥ . paśyantu sītā-śapatham yaḥ ca eva anyaḥ api kāṅkṣate .. 7.95.13 ..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ ७.९५.१४ ॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः । सर्वेषाम् ऋषि-मुख्यानाम् साधुवादः महान् अभूत् ॥ ७।९५।१४ ॥
tasya tat vacanam śrutvā rāghavasya mahātmanaḥ . sarveṣām ṛṣi-mukhyānām sādhuvādaḥ mahān abhūt .. 7.95.14 ..
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ ७.९५.१५ ॥
राजानः च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नम् नर-श्रेष्ठ त्वयि एव भुवि न अन्यतस् ॥ ७।९५।१५ ॥
rājānaḥ ca mahātmānaḥ praśaṃsanti sma rāghavam . upapannam nara-śreṣṭha tvayi eva bhuvi na anyatas .. 7.95.15 ..
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ ७.९५.१६ ॥
एवम् विनिश्चयम् कृत्वा श्वोभूते इति राघवः । विसर्जयामास तदा सर्वान् तान् शत्रु-सूदनः ॥ ७।९५।१६ ॥
evam viniścayam kṛtvā śvobhūte iti rāghavaḥ . visarjayāmāsa tadā sarvān tān śatru-sūdanaḥ .. 7.95.16 ..
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ ७.९५.१७ ॥
इति सम्प्रविचार्य राज-सिंहः श्वोभूते शपथस्य निश्चयम् वै । विससर्ज मुनीन् नृपान् च सर्वान् स महात्मा महतः महा-अनुभावः ॥ ७।९५।१७ ॥
iti sampravicārya rāja-siṃhaḥ śvobhūte śapathasya niścayam vai . visasarja munīn nṛpān ca sarvān sa mahātmā mahataḥ mahā-anubhāvaḥ .. 7.95.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ॥ ९५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चनवतितमः सर्ग ॥ ९५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcanavatitamaḥ sarga .. 95 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In