This overlay will guide you through the buttons:

| |
|
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ ७.९६.१ ॥
तस्याम् रजन्याम् व्युष्टायाम् यज्ञ-वाट-गतः नृपः । ऋषीन् सर्वान् महा-तेजाः शब्दापयति राघवः ॥ ७।९६।१ ॥
tasyām rajanyām vyuṣṭāyām yajña-vāṭa-gataḥ nṛpaḥ . ṛṣīn sarvān mahā-tejāḥ śabdāpayati rāghavaḥ .. 7.96.1 ..
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ ७.९६.२ ॥
वसिष्ठः वामदेवः च जाबालिः अथ काश्यपः । विश्वामित्रः दीर्घतपाः दुर्वासाः च महा-तपाः ॥ ७।९६।२ ॥
vasiṣṭhaḥ vāmadevaḥ ca jābāliḥ atha kāśyapaḥ . viśvāmitraḥ dīrghatapāḥ durvāsāḥ ca mahā-tapāḥ .. 7.96.2 ..
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ ७.९६.३ ॥
पुलस्त्यः अपि तथा शक्तिः भार्गवः च एव वामनः । मार्कण्डेयः च दीर्घ-आयुः मौद्गल्यः च महा-यशाः ॥ ७।९६।३ ॥
pulastyaḥ api tathā śaktiḥ bhārgavaḥ ca eva vāmanaḥ . mārkaṇḍeyaḥ ca dīrgha-āyuḥ maudgalyaḥ ca mahā-yaśāḥ .. 7.96.3 ..
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ७.९६.४ ॥
गर्गः च च्यवनः च एव शतानन्दः च धर्म-विद् । भरद्वाजः च तेजस्वी हि अग्नि-पुत्रः च सु प्रभः ॥ ७।९६।४ ॥
gargaḥ ca cyavanaḥ ca eva śatānandaḥ ca dharma-vid . bharadvājaḥ ca tejasvī hi agni-putraḥ ca su prabhaḥ .. 7.96.4 ..
नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ ७.९६.५ ॥
नारदः पर्वतः च एव गौतमः च महा-यशाः । कात्यायनः सुयज्ञः च हि अगस्त्यः तपसाम् निधिः ॥ ७।९६।५ ॥
nāradaḥ parvataḥ ca eva gautamaḥ ca mahā-yaśāḥ . kātyāyanaḥ suyajñaḥ ca hi agastyaḥ tapasām nidhiḥ .. 7.96.5 ..
एते चान्ये च बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ७.९६.६ ॥
एते च अन्ये च बहवः मुनयः संशित-व्रताः । कौतूहल-समाविष्टाः सर्वे एव समागताः ॥ ७।९६।६ ॥
ete ca anye ca bahavaḥ munayaḥ saṃśita-vratāḥ . kautūhala-samāviṣṭāḥ sarve eva samāgatāḥ .. 7.96.6 ..
राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७.९६.७ ॥
राक्षसाः च महा-वीर्याः वानराः च महा-बलाः । सर्वे एव समाजग्मुः महात्मानः कुतूहलात् ॥ ७।९६।७ ॥
rākṣasāḥ ca mahā-vīryāḥ vānarāḥ ca mahā-balāḥ . sarve eva samājagmuḥ mahātmānaḥ kutūhalāt .. 7.96.7 ..
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ७.९६.८ ॥
क्षत्रियाः ये च शूद्राः च वैश्याः च एव सहस्रशस् । नाना देश-गताः च एव ब्राह्मणाः संशित-व्रताः ॥ ७।९६।८ ॥
kṣatriyāḥ ye ca śūdrāḥ ca vaiśyāḥ ca eva sahasraśas . nānā deśa-gatāḥ ca eva brāhmaṇāḥ saṃśita-vratāḥ .. 7.96.8 ..
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे । सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ७.९६.९ ॥
ज्ञान-निष्ठाः कर्म-निष्ठाः योग-निष्ठाः तथा अपरे । सीता-शपथ-वीक्षा-अर्थम् सर्वे एव समागताः ॥ ७।९६।९ ॥
jñāna-niṣṭhāḥ karma-niṣṭhāḥ yoga-niṣṭhāḥ tathā apare . sītā-śapatha-vīkṣā-artham sarve eva samāgatāḥ .. 7.96.9 ..
तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ ७.९६.१० ॥
तदा समागतम् सर्वम् अश्म-भूतम् इव अचलम् । श्रुत्वा मुनि-वरः तूर्णम् स सीतः समुपागमत् ॥ ७।९६।१० ॥
tadā samāgatam sarvam aśma-bhūtam iva acalam . śrutvā muni-varaḥ tūrṇam sa sītaḥ samupāgamat .. 7.96.10 ..
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ७.९६.११ ॥
तम् ऋषिम् पृष्ठतस् सीता तु अन्वगच्छत् अवाक् मुखी । कृताञ्जलिः बाष्प-गला कृत्वा रामम् मनोगतम् ॥ ७।९६।११ ॥
tam ṛṣim pṛṣṭhatas sītā tu anvagacchat avāk mukhī . kṛtāñjaliḥ bāṣpa-galā kṛtvā rāmam manogatam .. 7.96.11 ..
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ ७.९६.१२ ॥
दृष्ट्वा श्रुतिम् इव आयान्तीम् ब्रह्माणम् अनुगामिनीम् । वाल्मीकेः पृष्ठतस् सीताम् साधुवादः महान् अभूत् ॥ ७।९६।१२ ॥
dṛṣṭvā śrutim iva āyāntīm brahmāṇam anugāminīm . vālmīkeḥ pṛṣṭhatas sītām sādhuvādaḥ mahān abhūt .. 7.96.12 ..
ततो हलहलाशब्दः सर्वेषामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ ७.९६.१३ ॥
ततस् हलहला शब्दः सर्वेषाम् एवम् आबभौ । दुःख-जन्म-विशालेन शोकेन आकुलित-आत्मनाम् ॥ ७।९६।१३ ॥
tatas halahalā śabdaḥ sarveṣām evam ābabhau . duḥkha-janma-viśālena śokena ākulita-ātmanām .. 7.96.13 ..
साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ ७.९६.१४ ॥
साधु राम इति केचिद् तु साधु सीता इति च अपरे । उभौ एव च तत्र अन्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ ७।९६।१४ ॥
sādhu rāma iti kecid tu sādhu sītā iti ca apare . ubhau eva ca tatra anye prekṣakāḥ sampracukruśuḥ .. 7.96.14 ..
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ ७.९६.१५ ॥
ततस् मध्ये जन-ओघस्य प्रविश्य मुनि-पुङ्गवः । सीता-सहायः वाल्मीकिः इति ह उवाच राघवम् ॥ ७।९६।१५ ॥
tatas madhye jana-oghasya praviśya muni-puṅgavaḥ . sītā-sahāyaḥ vālmīkiḥ iti ha uvāca rāghavam .. 7.96.15 ..
इयं दाशरथे सीता सुव्रता धर्मचारिणी । अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ ७.९६.१६ ॥
इयम् दाशरथे सीता सुव्रता धर्म-चारिणी । अपवादैः परित्यक्ता मम आश्रम-समीपतः ॥ ७।९६।१६ ॥
iyam dāśarathe sītā suvratā dharma-cāriṇī . apavādaiḥ parityaktā mama āśrama-samīpataḥ .. 7.96.16 ..
लोकापवादभीतस्य तव राम महाव्रत । प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ ७.९६.१७ ॥
लोक-अपवाद-भीतस्य तव राम महा-व्रत । प्रत्ययम् दास्यते सीता तत् अनुज्ञातुम् अर्हसि ॥ ७।९६।१७ ॥
loka-apavāda-bhītasya tava rāma mahā-vrata . pratyayam dāsyate sītā tat anujñātum arhasi .. 7.96.17 ..
इमौ तु जानकीपुत्रावुभौ च यमजातकौ । सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ ७.९६.१८ ॥
इमौ तु जानकी-पुत्रौ उभौ च यम-जातकौ । सुतौ तव एव दुर्धर्षौ सत्यम् एतत् ब्रवीमि ते ॥ ७।९६।१८ ॥
imau tu jānakī-putrau ubhau ca yama-jātakau . sutau tava eva durdharṣau satyam etat bravīmi te .. 7.96.18 ..
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन । न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ ७.९६.१९ ॥
प्रचेतसः अहम् दशमः पुत्रः राघव-नन्दन । न स्मरामि अनृतम् वाक्यम् इमौ तु तव पुत्रकौ ॥ ७।९६।१९ ॥
pracetasaḥ aham daśamaḥ putraḥ rāghava-nandana . na smarāmi anṛtam vākyam imau tu tava putrakau .. 7.96.19 ..
बहुवर्षसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ ७.९६.२० ॥
बहु-वर्ष-सहस्राणि तपः-चर्या मया कृता । न उपाश्नीयाम् फलम् तस्याः दुष्टा इयम् यदि मैथिली ॥ ७।९६।२० ॥
bahu-varṣa-sahasrāṇi tapaḥ-caryā mayā kṛtā . na upāśnīyām phalam tasyāḥ duṣṭā iyam yadi maithilī .. 7.96.20 ..
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥ ७.९६.२१ ॥
मनसा कर्मणा वाचा भूत-पूर्वम् न किल्बिषम् । तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यदि ॥ ७।९६।२१ ॥
manasā karmaṇā vācā bhūta-pūrvam na kilbiṣam . tasyāḥ phalam upāśnīyām apāpā maithilī yadi .. 7.96.21 ..
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ ७.९६.२२ ॥
अहम् पञ्चसु भूतेषु मनः-षष्ठेषु राघव । विचिन्त्य सीताम् शुद्धा इति जग्राह वन-निर्झरे ॥ ७।९६।२२ ॥
aham pañcasu bhūteṣu manaḥ-ṣaṣṭheṣu rāghava . vicintya sītām śuddhā iti jagrāha vana-nirjhare .. 7.96.22 ..
इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ ७.९६.२३ ॥
इयम् शुद्ध-समाचारा अपापा पति-देवता । लोक-अपवाद-भीतस्य प्रत्ययम् तव दास्यति ॥ ७।९६।२३ ॥
iyam śuddha-samācārā apāpā pati-devatā . loka-apavāda-bhītasya pratyayam tava dāsyati .. 7.96.23 ..
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ॥ ७.९६.२४ ॥
तस्मात् इयम् नर-वर-आत्मज शुद्ध-भावा दिव्येन दृष्टि-विषयेण तदा प्रविष्टा । लोक-अपवाद-कलुषीकृत-चेतसा या त्यक्ता त्वया प्रियतमा विदिता अपि शुद्धा ॥ ७।९६।२४ ॥
tasmāt iyam nara-vara-ātmaja śuddha-bhāvā divyena dṛṣṭi-viṣayeṇa tadā praviṣṭā . loka-apavāda-kaluṣīkṛta-cetasā yā tyaktā tvayā priyatamā viditā api śuddhā .. 7.96.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṇṇavatitamaḥ sargaḥ .. 96 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In