This overlay will guide you through the buttons:

| |
|
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत । प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ ७.९७.१ ॥
वाल्मीकिना एवम् उक्तः तु राघवः प्रत्यभाषत । प्राञ्जलिः जगतः मध्ये दृष्ट्वा ताम् वरवर्णिनीम् ॥ ७।९७।१ ॥
vālmīkinā evam uktaḥ tu rāghavaḥ pratyabhāṣata . prāñjaliḥ jagataḥ madhye dṛṣṭvā tām varavarṇinīm .. 7.97.1 ..
एवमेतन्महाभाग यथा वदसि धर्मवित् । प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ ७.९७.२ ॥
एवम् एतत् महाभाग यथा वदसि धर्म-विद् । प्रत्ययः तु मम ब्रह्मन् तव वाक्यैः अकल्मषैः ॥ ७।९७।२ ॥
evam etat mahābhāga yathā vadasi dharma-vid . pratyayaḥ tu mama brahman tava vākyaiḥ akalmaṣaiḥ .. 7.97.2 ..
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ । शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता । लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ७.९७.३ ॥
प्रत्ययः तु पुरा वृत्तः वैदेह्याः सुर-सन्निधौ । शपथः तु कृतः तत्र तेन वेश्म प्रवेशिता । लोक-अपवादः बलवान् येन त्यक्ता हि मैथिली ॥ ७।९७।३ ॥
pratyayaḥ tu purā vṛttaḥ vaidehyāḥ sura-sannidhau . śapathaḥ tu kṛtaḥ tatra tena veśma praveśitā . loka-apavādaḥ balavān yena tyaktā hi maithilī .. 7.97.3 ..
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता । परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ॥ ७.९७.४ ॥
सा इयम् लोक-भयात् ब्रह्मन् अपापा इति अभिजानता । परित्यक्ता मया सीता तत् भावन् क्षन्तुम् अर्हति ॥ ७।९७।४ ॥
sā iyam loka-bhayāt brahman apāpā iti abhijānatā . parityaktā mayā sītā tat bhāvan kṣantum arhati .. 7.97.4 ..
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ । शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥ ७.९७.५ ॥
जानामि च इमौ पुत्रौ मे यम-जातौ कुशीलवौ । शुद्धायाम् जगतः मध्ये मैथिल्याम् प्रीतिः अस्तु मे ॥ ७।९७।५ ॥
jānāmi ca imau putrau me yama-jātau kuśīlavau . śuddhāyām jagataḥ madhye maithilyām prītiḥ astu me .. 7.97.5 ..
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः । सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ॥ ७.९७.६ ॥
अभिप्रायम् तु विज्ञाय रामस्य सुर-सत्तमाः । सीतायाः शपथे तस्मिन् महा-इन्द्र-आद्याः महा-ओजसः ॥ ७।९७।६ ॥
abhiprāyam tu vijñāya rāmasya sura-sattamāḥ . sītāyāḥ śapathe tasmin mahā-indra-ādyāḥ mahā-ojasaḥ .. 7.97.6 ..
पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७.९७.७ ॥
पितामहम् पुरस्कृत्य सर्वे एव समागताः ॥ ७।९७।७ ॥
pitāmaham puraskṛtya sarve eva samāgatāḥ .. 7.97.7 ..
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः । गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥ ७.९७.८ ॥
आदित्याः वसवः रुद्राः हि अश्विनौ स मरुत्-गणाः । गन्धर्व-अप्सरसः च एव सर्वे एव समागताः ॥ ७।९७।८ ॥
ādityāḥ vasavaḥ rudrāḥ hi aśvinau sa marut-gaṇāḥ . gandharva-apsarasaḥ ca eva sarve eva samāgatāḥ .. 7.97.8 ..
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः । नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः । सीताशपथसम्भ्रान्ताः सर्व एव समागताः ॥ ७.९७.९ ॥
साध्याः च विश्वेदेवाः च सर्वे च परम-ऋषयः । नागाः सुपर्णाः सिद्धाः च ते सर्वे हृष्ट-मानसाः । सीता-शपथ-सम्भ्रान्ताः सर्वे एव समागताः ॥ ७।९७।९ ॥
sādhyāḥ ca viśvedevāḥ ca sarve ca parama-ṛṣayaḥ . nāgāḥ suparṇāḥ siddhāḥ ca te sarve hṛṣṭa-mānasāḥ . sītā-śapatha-sambhrāntāḥ sarve eva samāgatāḥ .. 7.97.9 ..
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् । प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥ ७.९७.१० ॥
दृष्ट्वा देवान् ऋषीन् च एव राघवः पुनर् अब्रवीत् । प्रत्ययः मे नर-श्रेष्ठाः ऋषि-वाक्यैः अकल्मषैः ॥ ७।९७।१० ॥
dṛṣṭvā devān ṛṣīn ca eva rāghavaḥ punar abravīt . pratyayaḥ me nara-śreṣṭhāḥ ṛṣi-vākyaiḥ akalmaṣaiḥ .. 7.97.10 ..
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥ ७.९७.११ ॥
शुद्धायाम् जगतः मध्ये वैदेह्याम् प्रीतिः अस्तु मे ॥ ७।९७।११ ॥
śuddhāyām jagataḥ madhye vaidehyām prītiḥ astu me .. 7.97.11 ..
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः । तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ ७.९७.१२ ॥
ततस् वायुः शुभः पुण्यः दिव्य-गन्धः मनोरमः । तद्-जन-ओघम् सुरश्रेष्ठः ह्लादयामास सर्वतस् ॥ ७।९७।१२ ॥
tatas vāyuḥ śubhaḥ puṇyaḥ divya-gandhaḥ manoramaḥ . tad-jana-ogham suraśreṣṭhaḥ hlādayāmāsa sarvatas .. 7.97.12 ..
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः । मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ ७.९७.१३ ॥
तत् अद्भुतम् इव अचिन्त्यम् निरैक्षन्त समागताः । मानवाः सर्व-राष्ट्रेभ्यः पूर्वम् कृत-युगे यथा ॥ ७।९७।१३ ॥
tat adbhutam iva acintyam niraikṣanta samāgatāḥ . mānavāḥ sarva-rāṣṭrebhyaḥ pūrvam kṛta-yuge yathā .. 7.97.13 ..
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ ७.९७.१४ ॥
सर्वान् समागतान् दृष्ट्वा सीता काषाय-वासिनी । अब्रवीत् प्राञ्जलिः वाक्यम् अधस् दृष्टिः अवाक् मुखी ॥ ७।९७।१४ ॥
sarvān samāgatān dṛṣṭvā sītā kāṣāya-vāsinī . abravīt prāñjaliḥ vākyam adhas dṛṣṭiḥ avāk mukhī .. 7.97.14 ..
यथा ऽहं राघवादन्यं मनसापि न चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१५ ॥
यथा अहम् राघवात् अन्यम् मनसा अपि न चिन्तये । तथा मे माधवी देवी विवरम् दातुम् अर्हति ॥ ७।९७।१५ ॥
yathā aham rāghavāt anyam manasā api na cintaye . tathā me mādhavī devī vivaram dātum arhati .. 7.97.15 ..
मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१६ ॥
मनसा कर्मणा वाचा यथा रामम् समर्चये । तथा मे माधवी देवी विवरम् दातुम् अर्हति ॥ ७।९७।१६ ॥
manasā karmaṇā vācā yathā rāmam samarcaye . tathā me mādhavī devī vivaram dātum arhati .. 7.97.16 ..
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च । तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१७ ॥
यथा एतत् सत्यम् उक्तम् मे वेद्मि रामात् परम् न च । तथा मे माधवी देवी विवरम् दातुम् अर्हति ॥ ७।९७।१७ ॥
yathā etat satyam uktam me vedmi rāmāt param na ca . tathā me mādhavī devī vivaram dātum arhati .. 7.97.17 ..
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् । भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ ७.९७.१८ ॥
तथा शपन्त्याम् वैदेह्याम् प्रादुरासीत् तत् अद्भुतम् । भू-तलात् उत्थितम् दिव्यम् सिंहासनम् अनुत्तमम् ॥ ७।९७।१८ ॥
tathā śapantyām vaidehyām prādurāsīt tat adbhutam . bhū-talāt utthitam divyam siṃhāsanam anuttamam .. 7.97.18 ..
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ ७.९७.१९ ॥
ध्रियमाणम् शिरोभिः तु नागैः अमित-विक्रमैः । दिव्यम् दिव्येन वपुषा दिव्य-रत्न-विभूषितैः ॥ ७।९७।१९ ॥
dhriyamāṇam śirobhiḥ tu nāgaiḥ amita-vikramaiḥ . divyam divyena vapuṣā divya-ratna-vibhūṣitaiḥ .. 7.97.19 ..
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ ७.९७.२० ॥
तस्मिन् तु धरणी देवी बाहुभ्याम् गृह्य मैथिलीम् । स्वागतेन अभिनन्द्य एनाम् आसने च उपवेशयत् ॥ ७।९७।२० ॥
tasmin tu dharaṇī devī bāhubhyām gṛhya maithilīm . svāgatena abhinandya enām āsane ca upaveśayat .. 7.97.20 ..
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ ७.९७.२१ ॥
ताम् आसन-गताम् दृष्ट्वा प्रविशन्तीम् रसातलम् । पुष्प-वृष्टिः अविच्छिन्ना दिव्या सीताम् अवाकिरत् ॥ ७।९७।२१ ॥
tām āsana-gatām dṛṣṭvā praviśantīm rasātalam . puṣpa-vṛṣṭiḥ avicchinnā divyā sītām avākirat .. 7.97.21 ..
साधुकारश्च सुमहान्देवानां सहसोत्थितः । साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ॥ ७.९७.२२ ॥
साधुकारः च सु महान् देवानाम् सहसा उत्थितः । साधु साधु इति वै सीते यस्याः ते शीलम् ईदृशम् ॥ ७।९७।२२ ॥
sādhukāraḥ ca su mahān devānām sahasā utthitaḥ . sādhu sādhu iti vai sīte yasyāḥ te śīlam īdṛśam .. 7.97.22 ..
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः । व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ ७.९७.२३ ॥
एवम् बहुविधाः वाचः हि अन्तरिक्ष-गताः सुराः । व्याजह्रुः हृष्ट-मनसः दृष्ट्वा सीता-प्रवेशनम् ॥ ७।९७।२३ ॥
evam bahuvidhāḥ vācaḥ hi antarikṣa-gatāḥ surāḥ . vyājahruḥ hṛṣṭa-manasaḥ dṛṣṭvā sītā-praveśanam .. 7.97.23 ..
यज्ञवाटगताश्चापि मुनयः सर्व एव ते । राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ॥ ७.९७.२४ ॥
यज्ञ-वाट-गताः च अपि मुनयः सर्वे एव ते । राजानः च नर-व्याघ्राः विस्मयात् न उपरेमिरे ॥ ७।९७।२४ ॥
yajña-vāṭa-gatāḥ ca api munayaḥ sarve eva te . rājānaḥ ca nara-vyāghrāḥ vismayāt na uparemire .. 7.97.24 ..
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः । दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ ७.९७.२५ ॥
अन्तरिक्षे च भूमौ च सर्वे स्थावर-जङ्गमाः । दानवाः च महा-कायाः पाताले पन्नग-अधिपाः ॥ ७।९७।२५ ॥
antarikṣe ca bhūmau ca sarve sthāvara-jaṅgamāḥ . dānavāḥ ca mahā-kāyāḥ pātāle pannaga-adhipāḥ .. 7.97.25 ..
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः । केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ ७.९७.२६ ॥
केचिद् विनेदुः संहृष्टाः केचिद् ध्यान-परायणाः । केचिद् रामम् निरीक्षन्ते केचिद् सीताम् अचेतनाः ॥ ७।९७।२६ ॥
kecid vineduḥ saṃhṛṣṭāḥ kecid dhyāna-parāyaṇāḥ . kecid rāmam nirīkṣante kecid sītām acetanāḥ .. 7.97.26 ..
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः । तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ॥ ७.९७.२७ ॥
सीता-प्रवेशनम् दृष्ट्वा तेषाम् आसीत् समागमः । तत् मुहूर्तम् इव अत्यर्थम् समम् सम्मोहितम् जगत् ॥ ७।९७।२७ ॥
sītā-praveśanam dṛṣṭvā teṣām āsīt samāgamaḥ . tat muhūrtam iva atyartham samam sammohitam jagat .. 7.97.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptanavatitamaḥ sargaḥ .. 97 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In