This overlay will guide you through the buttons:

| |
|
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥ ७.९८.१ ॥
रसातलम् प्रविष्टायाम् वैदेह्याम् सर्व-वानराः । चुक्रुशुः साधु साध्वि इति मुनयः राम-सन्निधौ ॥ ७।९८।१ ॥
rasātalam praviṣṭāyām vaidehyām sarva-vānarāḥ . cukruśuḥ sādhu sādhvi iti munayaḥ rāma-sannidhau .. 7.98.1 ..
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ ७.९८.२ ॥
दण्ड-काष्ठम् अवष्टभ्य बाष्प-व्याकुलित-ईक्षणः । अवाक् शिराः दीन-मनाः रामः हि आसीत् सु दुःखितः ॥ ७।९८।२ ॥
daṇḍa-kāṣṭham avaṣṭabhya bāṣpa-vyākulita-īkṣaṇaḥ . avāk śirāḥ dīna-manāḥ rāmaḥ hi āsīt su duḥkhitaḥ .. 7.98.2 ..
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ७.९८.३ ॥
स रुदित्वा चिरम् कालम् बहुशस् बाष्पम् उत्सृजन् । क्रोध-शोक-समाविष्टः रामः वचनम् अब्रवीत् ॥ ७।९८।३ ॥
sa ruditvā ciram kālam bahuśas bāṣpam utsṛjan . krodha-śoka-samāviṣṭaḥ rāmaḥ vacanam abravīt .. 7.98.3 ..
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ७.९८.४ ॥
अभूत-पूर्वम् शोकम् मे मनः स्प्रष्टुम् इव इच्छति । पश्यतः मे यथा नष्टा सीता श्रीः इव रूपिणी ॥ ७।९८।४ ॥
abhūta-pūrvam śokam me manaḥ spraṣṭum iva icchati . paśyataḥ me yathā naṣṭā sītā śrīḥ iva rūpiṇī .. 7.98.4 ..
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ७.९८.५ ॥
सा अदर्शनम् पुरा सीता लङ्का-पारे महोदधेः । ततस् च अपि मया आनीता किम् पुनर् वसुधा-तलात् ॥ ७।९८।५ ॥
sā adarśanam purā sītā laṅkā-pāre mahodadheḥ . tatas ca api mayā ānītā kim punar vasudhā-talāt .. 7.98.5 ..
वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ७.९८.६ ॥
वसुधे देवि भवति सीता निर्यात्यताम् मम । दर्शयिष्यामि वा रोषम् यथा माम् अवगच्छसि ॥ ७।९८।६ ॥
vasudhe devi bhavati sītā niryātyatām mama . darśayiṣyāmi vā roṣam yathā mām avagacchasi .. 7.98.6 ..
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७.९८.७ ॥
कामम् श्वश्रूः मम एव त्वम् त्वद्-सकाशात् हि मैथिली । कर्षता हलहस्तेन जनकेन उद्धृता पुरा ॥ ७।९८।७ ॥
kāmam śvaśrūḥ mama eva tvam tvad-sakāśāt hi maithilī . karṣatā halahastena janakena uddhṛtā purā .. 7.98.7 ..
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ७.९८.८ ॥
तस्मात् निर्यात्यताम् सीता विवरम् वा प्रयच्छ मे । पाताले नाक-पृष्ठे वा वसेयम् सहितः तया ॥ ७।९८।८ ॥
tasmāt niryātyatām sītā vivaram vā prayaccha me . pātāle nāka-pṛṣṭhe vā vaseyam sahitaḥ tayā .. 7.98.8 ..
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ ७.९८.९ ॥
आनय त्वम् हि ताम् सीताम् मत्तः अहम् मैथिली-कृते । न मे दास्यसि चेद् सीताम् यथारूपाम् मही-तले ॥ ७।९८।९ ॥
ānaya tvam hi tām sītām mattaḥ aham maithilī-kṛte . na me dāsyasi ced sītām yathārūpām mahī-tale .. 7.98.9 ..
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ ७.९८.१० ॥
स पर्वत-वनाम् कृत्स्नाम् विधमिष्यामि ते स्थितम् । नाशयिष्यामि अहम् भूमिम् सर्वम् आपः भवतु इह ॥ ७।९८।१० ॥
sa parvata-vanām kṛtsnām vidhamiṣyāmi te sthitam . nāśayiṣyāmi aham bhūmim sarvam āpaḥ bhavatu iha .. 7.98.10 ..
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ७.९८.११ ॥
एवम् ब्रुवाणे काकुत्स्थे क्रोध-शोक-समन्विते । ब्रह्मा सुर-गणैः सार्धम् उवाच रघुनन्दनम् ॥ ७।९८।११ ॥
evam bruvāṇe kākutsthe krodha-śoka-samanvite . brahmā sura-gaṇaiḥ sārdham uvāca raghunandanam .. 7.98.11 ..
राम राम न सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ ७.९८.१२ ॥
राम राम न सन्तापम् कर्तुम् अर्हसि सुव्रत । स्मर त्वम् पूर्वकम् भावम् मन्त्रम् च अमित्र-कर्शन ॥ ७।९८।१२ ॥
rāma rāma na santāpam kartum arhasi suvrata . smara tvam pūrvakam bhāvam mantram ca amitra-karśana .. 7.98.12 ..
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ ७.९८.१३ ॥
न खलु त्वाम् महा-बाहो स्मारयेयम् अनुत्तमम् । इमम् मुहूर्तम् दुर्धर्ष स्मर त्वम् जन्म वैष्णवम् ॥ ७।९८।१३ ॥
na khalu tvām mahā-bāho smārayeyam anuttamam . imam muhūrtam durdharṣa smara tvam janma vaiṣṇavam .. 7.98.13 ..
सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ ७.९८.१४ ॥
सीता हि विमला साध्वी तव पूर्व-परायणा । नाग-लोकम् सुखम् प्रायात् त्वद्-आश्रय-तपः-बलात् ॥ ७।९८।१४ ॥
sītā hi vimalā sādhvī tava pūrva-parāyaṇā . nāga-lokam sukham prāyāt tvad-āśraya-tapaḥ-balāt .. 7.98.14 ..
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥ ७.९८.१५ ॥
स्वर्गे ते सङ्गमः भूयस् भविष्यति न संशयः । अस्याः तु परिषद्-मध्ये यत् ब्रवीमि निबोध तत् ॥ ७।९८।१५ ॥
svarge te saṅgamaḥ bhūyas bhaviṣyati na saṃśayaḥ . asyāḥ tu pariṣad-madhye yat bravīmi nibodha tat .. 7.98.15 ..
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥ ७.९८.१६ ॥
एतत् एव हि काव्यम् ते काव्यानाम् उत्तमम् श्रुतम् । सर्वम् विस्तरतः राम व्याख्यास्यति न संशयः ॥ ७।९८।१६ ॥
etat eva hi kāvyam te kāvyānām uttamam śrutam . sarvam vistarataḥ rāma vyākhyāsyati na saṃśayaḥ .. 7.98.16 ..
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ ७.९८.१७ ॥
जन्म-प्रभृति ते वीर सुख-दुःख-उपसेवनम् । भविष्यत्-उत्तरम् च इह सर्वम् वाल्मीकिना कृतम् ॥ ७।९८।१७ ॥
janma-prabhṛti te vīra sukha-duḥkha-upasevanam . bhaviṣyat-uttaram ca iha sarvam vālmīkinā kṛtam .. 7.98.17 ..
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ॥ ७.९८.१८ ॥
आदिकाव्यम् इदम् राम त्वयि सर्वम् प्रतिष्ठितम् । न हि अन्यः अर्हति काव्यानाम् यशः-भा-ग्राघवात् ऋते ॥ ७।९८।१८ ॥
ādikāvyam idam rāma tvayi sarvam pratiṣṭhitam . na hi anyaḥ arhati kāvyānām yaśaḥ-bhā-grāghavāt ṛte .. 7.98.18 ..
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ ७.९८.१९ ॥
श्रुतम् ते पूर्वम् एतत् हि मया सर्वम् सुरैः सह । दिव्यम् अद्भुत-रूपम् च सत्य-वाक्यम् अनावृतम् ॥ ७।९८।१९ ॥
śrutam te pūrvam etat hi mayā sarvam suraiḥ saha . divyam adbhuta-rūpam ca satya-vākyam anāvṛtam .. 7.98.19 ..
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ ७.९८.२० ॥
स त्वम् पुरुष-शार्दूल धर्मेण सु समाहितः । शेषम् भविष्यम् काकुत्स्थ काव्यम् रामायणम् शृणु ॥ ७।९८।२० ॥
sa tvam puruṣa-śārdūla dharmeṇa su samāhitaḥ . śeṣam bhaviṣyam kākutstha kāvyam rāmāyaṇam śṛṇu .. 7.98.20 ..
उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ ७.९८.२१ ॥
उत्तरम् नाम काव्यस्य शेषम् अत्र महा-यशः । तत् शृणुष्व महा-तेजः ऋषिभिः सार्धम् उत्तमम् ॥ ७।९८।२१ ॥
uttaram nāma kāvyasya śeṣam atra mahā-yaśaḥ . tat śṛṇuṣva mahā-tejaḥ ṛṣibhiḥ sārdham uttamam .. 7.98.21 ..
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥ ७.९८.२२ ॥
न खलु अन्येन काकुत्स्थ श्रोतव्यम् इदम् उत्तमम् । परमम् ऋषिणा वीर त्वया एव रघुनन्दन ॥ ७।९८।२२ ॥
na khalu anyena kākutstha śrotavyam idam uttamam . paramam ṛṣiṇā vīra tvayā eva raghunandana .. 7.98.22 ..
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ ७.९८.२३ ॥
एतावत् उक्त्वा वचनम् ब्रह्मा त्रिभुवन-ईश्वरः । जगाम त्रिदिवम् देवः देवैः सह स बान्धवैः ॥ ७।९८।२३ ॥
etāvat uktvā vacanam brahmā tribhuvana-īśvaraḥ . jagāma tridivam devaḥ devaiḥ saha sa bāndhavaiḥ .. 7.98.23 ..
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ ७.९८.२४ ॥
ये च तत्र महात्मानः ऋषयः ब्राह्म-लौकिकाः । ब्रह्मणा समनुज्ञाताः न्यवर्तन्त महा-ओजसः । उत्तरम् श्रोतु-मनसः भविष्यम् यत् च राघवे ॥ ७।९८।२४ ॥
ye ca tatra mahātmānaḥ ṛṣayaḥ brāhma-laukikāḥ . brahmaṇā samanujñātāḥ nyavartanta mahā-ojasaḥ . uttaram śrotu-manasaḥ bhaviṣyam yat ca rāghave .. 7.98.24 ..
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ ७.९८.२५ ॥
ततस् रामः शुभाम् वाणीम् देवदेवस्य भाषिताम् । श्रुत्वा परम-तेजस्वी वाल्मीकिम् इदम् अब्रवीत् ॥ ७।९८।२५ ॥
tatas rāmaḥ śubhām vāṇīm devadevasya bhāṣitām . śrutvā parama-tejasvī vālmīkim idam abravīt .. 7.98.25 ..
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥ ७.९८.२६ ॥
भगवन् श्रोतु-मनसः ऋषयः ब्राह्म-लौकिकाः । भविष्यत्-उत्तरम् यत् मे श्वोभूते सम्प्रवर्तताम् ॥ ७।९८।२६ ॥
bhagavan śrotu-manasaḥ ṛṣayaḥ brāhma-laukikāḥ . bhaviṣyat-uttaram yat me śvobhūte sampravartatām .. 7.98.26 ..
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ ७.९८.२७ ॥
एवम् विनिश्चयम् कृत्वा सम्प्रगृह्य कुशीलवौ । तम् जन-ओघम् विसृज्य अथ पर्ण-शालाम् उपागमत् । ताम् एव शोचतः सीताम् सा व्यतीयाय शर्वरी ॥ ७।९८।२७ ॥
evam viniścayam kṛtvā sampragṛhya kuśīlavau . tam jana-ogham visṛjya atha parṇa-śālām upāgamat . tām eva śocataḥ sītām sā vyatīyāya śarvarī .. 7.98.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ॥ ९८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭanavatitamaḥ sargaḥ .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In