This overlay will guide you through the buttons:

| |
|
रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ ७.९९.१ ॥
रजन्याम् तु प्रभातायाम् समानीय महा-मुनीन् । गीयताम् अविशङ्काभ्याम् रामः पुत्रौ उवाच ह ॥ ७।९९।१ ॥
rajanyām tu prabhātāyām samānīya mahā-munīn . gīyatām aviśaṅkābhyām rāmaḥ putrau uvāca ha .. 7.99.1 ..
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ ७.९९.२ ॥
ततस् समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यत्-उत्तरम् काव्यम् जगतुः तौ कुशीलवौ ॥ ७।९९।२ ॥
tatas samupaviṣṭeṣu brahmarṣiṣu mahātmasu . bhaviṣyat-uttaram kāvyam jagatuḥ tau kuśīlavau .. 7.99.2 ..
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ७.९९.३ ॥
प्रविष्टायाम् तु सीतायाम् भू-तलम् सत्य-सम्पदा । तस्य अवसाने यज्ञस्य रामः परम-दुर्मनाः ॥ ७।९९।३ ॥
praviṣṭāyām tu sītāyām bhū-talam satya-sampadā . tasya avasāne yajñasya rāmaḥ parama-durmanāḥ .. 7.99.3 ..
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ॥ ७.९९.४ ॥
अपश्यमानः वैदेहीम् मेने शून्यम् इदम् जगत् । शोकेन परम-आयस्तः न शान्तिम् मनसा अगमत् ॥ ७।९९।४ ॥
apaśyamānaḥ vaidehīm mene śūnyam idam jagat . śokena parama-āyastaḥ na śāntim manasā agamat .. 7.99.4 ..
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ ७.९९.५ ॥
विसृज्य पार्थिवान् सर्वान् ऋक्ष-वानर-राक्षसान् । जन-ओघम् विप्र-मुख्यानाम् वित्त-पूर्वम् विसृज्य च ॥ ७।९९।५ ॥
visṛjya pārthivān sarvān ṛkṣa-vānara-rākṣasān . jana-ogham vipra-mukhyānām vitta-pūrvam visṛjya ca .. 7.99.5 ..
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ॥ ७.९९.६ ॥
एवम् समाप्य यज्ञम् तु विधिवत् स तु राघवः । ततस् विसृज्य तान् सर्वान् रामः राजीव-लोचनः ॥ ७।९९।६ ॥
evam samāpya yajñam tu vidhivat sa tu rāghavaḥ . tatas visṛjya tān sarvān rāmaḥ rājīva-locanaḥ .. 7.99.6 ..
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ ७.९९.७ ॥
हृदि कृत्वा तदा सीताम् अयोध्याम् प्रविवेश ह । इष्ट-यज्ञः नरपतिः पुत्र-द्वय-समन्वितः ॥ ७।९९।७ ॥
hṛdi kṛtvā tadā sītām ayodhyām praviveśa ha . iṣṭa-yajñaḥ narapatiḥ putra-dvaya-samanvitaḥ .. 7.99.7 ..
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ॥ ७.९९.८ ॥
न सीतायाः पराम् भार्याम् वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्नी-अर्थम् जानकी काञ्चनी भवत् ॥ ७।९९।८ ॥
na sītāyāḥ parām bhāryām vavre sa raghunandanaḥ . yajñe yajñe ca patnī-artham jānakī kāñcanī bhavat .. 7.99.8 ..
दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ७.९९.९ ॥
दश-वर्ष-सहस्राणि वाजि-मेघान् अथ अकरोत् । वाजपेयान् दशगुणान् तथा बहु-सुवर्णकान् ॥ ७।९९।९ ॥
daśa-varṣa-sahasrāṇi vāji-meghān atha akarot . vājapeyān daśaguṇān tathā bahu-suvarṇakān .. 7.99.9 ..
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ ७.९९.१० ॥
अग्निष्टोम-अतिरात्राभ्याम् गोसवैः च महाधनैः । ईजे क्रतुभिः अन्यैः च स श्रीमान् आप्त-दक्षिणैः ॥ ७।९९।१० ॥
agniṣṭoma-atirātrābhyām gosavaiḥ ca mahādhanaiḥ . īje kratubhiḥ anyaiḥ ca sa śrīmān āpta-dakṣiṇaiḥ .. 7.99.10 ..
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ७.९९.११ ॥
एवम् स कालः सु महान् राज्य-स्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयात् राघवस्य तु ॥ ७।९९।११ ॥
evam sa kālaḥ su mahān rājya-sthasya mahātmanaḥ . dharme prayatamānasya vyatīyāt rāghavasya tu .. 7.99.11 ..
अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ ७.९९.१२ ॥
अनुरञ्जन्ति राजानम् अहनि अहनि राघवम् । ऋक्ष-वानर-रक्षांसि स्थिताः रामस्य शासने ॥ ७।९९।१२ ॥
anurañjanti rājānam ahani ahani rāghavam . ṛkṣa-vānara-rakṣāṃsi sthitāḥ rāmasya śāsane .. 7.99.12 ..
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ ७.९९.१३ ॥
काले वर्षति पर्जन्यः सुभिक्षम् विमलाः दिशः । हृष्ट-पुष्ट-जन-आकीर्णम् पुरम् जनपदाः तथा ॥ ७।९९।१३ ॥
kāle varṣati parjanyaḥ subhikṣam vimalāḥ diśaḥ . hṛṣṭa-puṣṭa-jana-ākīrṇam puram janapadāḥ tathā .. 7.99.13 ..
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ ७.९९.१४ ॥
न अकाले म्रियते कश्चिद् न व्याधिः प्राणिनाम् तथा । न अनर्थः विद्यते कश्चिद् रामे राज्यम् प्रशासति ॥ ७।९९।१४ ॥
na akāle mriyate kaścid na vyādhiḥ prāṇinām tathā . na anarthaḥ vidyate kaścid rāme rājyam praśāsati .. 7.99.14 ..
अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ ७.९९.१५ ॥
अथ दीर्घस्य कालस्य राम-माता यशस्विनी । पुत्र-पौत्रैः परिवृता कालधर्मम् उपागमत् ॥ ७।९९।१५ ॥
atha dīrghasya kālasya rāma-mātā yaśasvinī . putra-pautraiḥ parivṛtā kāladharmam upāgamat .. 7.99.15 ..
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ ७.९९.१६ ॥
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मम् कृत्वा बहुविधम् त्रिदिवे पर्यवस्थिता ॥ ७।९९।१६ ॥
anviyāya sumitrā ca kaikeyī ca yaśasvinī . dharmam kṛtvā bahuvidham tridive paryavasthitā .. 7.99.16 ..
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं च लेभिरे ॥ ७.९९.१७ ॥
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागताः महाभागाः सर्व-धर्मम् च लेभिरे ॥ ७।९९।१७ ॥
sarvāḥ pramuditāḥ svarge rājñā daśarathena ca . samāgatāḥ mahābhāgāḥ sarva-dharmam ca lebhire .. 7.99.17 ..
तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ ७.९९.१८ ॥
तासाम् रामः महा-दानम् काले काले प्रयच्छति । ब्राह्मणेषु तपस्विषु ॥ ७।९९।१८ ॥
tāsām rāmaḥ mahā-dānam kāle kāle prayacchati . brāhmaṇeṣu tapasviṣu .. 7.99.18 ..
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ॥ ७.९९.१९ ॥
पित्र्याणि ब्रह्मरत्नानि यज्ञान् परम-दुस्तरान् । चकार रामः धर्म-आत्मा देवान् विवर्धयन् ॥ ७।९९।१९ ॥
pitryāṇi brahmaratnāni yajñān parama-dustarān . cakāra rāmaḥ dharma-ātmā devān vivardhayan .. 7.99.19 ..
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ ७.९९.२० ॥
एवम् वर्ष-सहस्राणि बहूनि अथ ययुः सुखम् । यज्ञैः बहुविधम् धर्मम् वर्धयानस्य सर्वदा ॥ ७।९९।२० ॥
evam varṣa-sahasrāṇi bahūni atha yayuḥ sukham . yajñaiḥ bahuvidham dharmam vardhayānasya sarvadā .. 7.99.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनशततमः सर्गः ॥ ९९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonaśatatamaḥ sargaḥ .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In