This overlay will guide you through the buttons:

| |
|
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ 1 ॥
श्रुत्वा हनुमतः वाक्यम् यथावत् अभिभाषितम् । रामः प्रीति-समायुक्तः वाक्यम् उत्तरम् अब्रवीत् ॥ १ ॥
śrutvā hanumataḥ vākyam yathāvat abhibhāṣitam . rāmaḥ prīti-samāyuktaḥ vākyam uttaram abravīt .. 1 ..
कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् । मनसापि यदन्येन न शक्यं धरणीतले ॥ 2 ॥
कृतम् हनुमता कार्यम् सु महत् भुवि दुष्करम् । मनसा अपि यत् अन्येन न शक्यम् धरणी-तले ॥ २ ॥
kṛtam hanumatā kāryam su mahat bhuvi duṣkaram . manasā api yat anyena na śakyam dharaṇī-tale .. 2 ..
न हि तं परिपश्यामि यस्तरेत महार्णवम् । अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः ॥ 3 ॥
न हि तम् परिपश्यामि यः तरेत महा-अर्णवम् । अन्यत्र गरुणात् वायोः अन्यत्र च हनूमतः ॥ ३ ॥
na hi tam paripaśyāmi yaḥ tareta mahā-arṇavam . anyatra garuṇāt vāyoḥ anyatra ca hanūmataḥ .. 3 ..
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥ 4 ॥
देव-दानव-यक्षाणाम् गन्धर्व-उरग-रक्षसाम् । अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सु रक्षिताम् ॥ ४ ॥
deva-dānava-yakṣāṇām gandharva-uraga-rakṣasām . apradhṛṣyām purīm laṅkām rāvaṇena su rakṣitām .. 4 ..
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ॥ 5 ॥
प्रविष्टः सत्त्वम् आश्रित्य जीवन् कः नाम निष्क्रमेत् । कः विशेत् सु दुराधर्षाम् राक्षसैः च सु रक्षिताम् ॥ ५ ॥
praviṣṭaḥ sattvam āśritya jīvan kaḥ nāma niṣkramet . kaḥ viśet su durādharṣām rākṣasaiḥ ca su rakṣitām .. 5 ..
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः | भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् । एवं विधाय स्वबलं सदृशं विक्रमस्य च ॥ 6 ॥
यः वीर्य-बल-सम्पन्नः न समः स्यात् हनूमतः । भृत्य-कार्यम् हनुमता सुग्रीवस्य कृतम् महत् । एवम् विधाय स्व-बलम् सदृशम् विक्रमस्य च ॥ ६ ॥
yaḥ vīrya-bala-sampannaḥ na samaḥ syāt hanūmataḥ . bhṛtya-kāryam hanumatā sugrīvasya kṛtam mahat . evam vidhāya sva-balam sadṛśam vikramasya ca .. 6 ..
यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे । कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ 7 ॥
यः हि भृत्यः नियुक्तः सन् भर्त्रा कर्मणि दुष्करे । कुर्यात् तद्-अनुरागेण तम् आहुः पुरुषोत्तमम् ॥ ७ ॥
yaḥ hi bhṛtyaḥ niyuktaḥ san bhartrā karmaṇi duṣkare . kuryāt tad-anurāgeṇa tam āhuḥ puruṣottamam .. 7 ..
यो नियुक्तोय: परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्योऽ युक्तः स्समर्थोश्च तमाहुर्मध्यमं नरम् ॥ 8 ॥
यः परम् कार्यम् न कुर्यात् नृपतेः प्रियम् । भृत्यः युक्तः तम् आहुः मध्यमम् नरम् ॥ ८ ॥
yaḥ param kāryam na kuryāt nṛpateḥ priyam . bhṛtyaḥ yuktaḥ tam āhuḥ madhyamam naram .. 8 ..
नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः । भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ 9 ॥
नियुक्तः नृपतेः कार्यम् न कुर्यात् यः समाहितः । भृत्यः युक्तः समर्थः च तम् आहुः पुरुष-अधमम् ॥ ९ ॥
niyuktaḥ nṛpateḥ kāryam na kuryāt yaḥ samāhitaḥ . bhṛtyaḥ yuktaḥ samarthaḥ ca tam āhuḥ puruṣa-adhamam .. 9 ..
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ 10 ॥
तद्-नियोगे नियुक्तेन कृतम् कृत्यम् हनूमता । न च आत्मा लघु-ताम् नीतः सुग्रीवः च अपि तोषितः ॥ १० ॥
tad-niyoge niyuktena kṛtam kṛtyam hanūmatā . na ca ātmā laghu-tām nītaḥ sugrīvaḥ ca api toṣitaḥ .. 10 ..
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ 11 ॥
अहम् च रघु-वंशः च लक्ष्मणः च महा-बलः । वैदेह्याः दर्शनेन अद्य धर्मतः परिरक्षिताः ॥ ११ ॥
aham ca raghu-vaṃśaḥ ca lakṣmaṇaḥ ca mahā-balaḥ . vaidehyāḥ darśanena adya dharmataḥ parirakṣitāḥ .. 11 ..
इदं तु मम दीनस्या मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ 12 ॥
इदम् तु मम दीनस्याः मनः भूयस् प्रकर्षति । यत् इह अस्य प्रिय-आख्यातुः न कुर्मि सदृशम् प्रियम् ॥ १२ ॥
idam tu mama dīnasyāḥ manaḥ bhūyas prakarṣati . yat iha asya priya-ākhyātuḥ na kurmi sadṛśam priyam .. 12 ..
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ 13 ॥
एष सर्व-स्व-भूतः तु परिष्वङ्गः हनूमतः । मया कालम् इमम् प्राप्य दत्तः तस्य महात्मनः ॥ १३ ॥
eṣa sarva-sva-bhūtaḥ tu pariṣvaṅgaḥ hanūmataḥ . mayā kālam imam prāpya dattaḥ tasya mahātmanaḥ .. 13 ..
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ॥ 14 ॥
इति उक्त्वा प्रीति-हृष्ट-अङ्गः रामः तम् परिषस्वजे । हनूमन्तम् कृतात्मानम् कृत-कार्यम् उपागतम् ॥ १४ ॥
iti uktvā prīti-hṛṣṭa-aṅgaḥ rāmaḥ tam pariṣasvaje . hanūmantam kṛtātmānam kṛta-kāryam upāgatam .. 14 ..
ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥ 15 ॥
ध्यात्वा पुनर् उवाच इदम् वचनम् रघुनन्दनः । हरीणाम् ईश्वरस्य अपि सुग्रीवस्य उपशृण्वतः ॥ १५ ॥
dhyātvā punar uvāca idam vacanam raghunandanaḥ . harīṇām īśvarasya api sugrīvasya upaśṛṇvataḥ .. 15 ..
सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ 16 ॥
सर्वथा सु कृतम् तावत् सीतायाः परिमार्गणम् । सागरम् तु समासाद्य पुनर् नष्टम् मनः मम ॥ १६ ॥
sarvathā su kṛtam tāvat sītāyāḥ parimārgaṇam . sāgaram tu samāsādya punar naṣṭam manaḥ mama .. 16 ..
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ॥ 17 ॥
कथम् नाम समुद्रस्य दुष्पारस्य महा-अम्भसः । हरयः दक्षिणम् पारम् गमिष्यन्ति समाहिताः ॥ १७ ॥
katham nāma samudrasya duṣpārasya mahā-ambhasaḥ . harayaḥ dakṣiṇam pāram gamiṣyanti samāhitāḥ .. 17 ..
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ 18 ॥
यदि अपि एष तु वृत्तान्तः वैदेह्याः गदितः मम । समुद्र-पार-गमने हरीणाम् किम् इव उत्तरम् ॥ १८ ॥
yadi api eṣa tu vṛttāntaḥ vaidehyāḥ gaditaḥ mama . samudra-pāra-gamane harīṇām kim iva uttaram .. 18 ..
इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः । हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ 19 ॥
इति उक्त्वा शोक-सम्भ्रान्तः रामः शत्रु-निबर्हणः । हनूमन्तम् महा-बाहुः ततस् ध्यानम् उपागमत् ॥ १९ ॥
iti uktvā śoka-sambhrāntaḥ rāmaḥ śatru-nibarhaṇaḥ . hanūmantam mahā-bāhuḥ tatas dhyānam upāgamat .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In