This overlay will guide you through the buttons:

| |
|
ततःप्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥
ततस् प्रति उषसि प्राप्ते प्राप्त-धर्म-अर्थ-निश्चयः । राक्षस-अधिपतेः वेश्म भीम-कर्मा विभीषणः ॥ १ ॥
tatas prati uṣasi prāpte prāpta-dharma-artha-niścayaḥ . rākṣasa-adhipateḥ veśma bhīma-karmā vibhīṣaṇaḥ .. 1 ..
शैलाग्रचयसङ्काशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्षं महाजनपरिग्रहम् ॥२ ॥
शैल-अग्र-चय-सङ्काशम् शैल-शृङ्गम् इव उन्नतम् । सुविभक्त-महा-कक्षम् महाजन-परिग्रहम् ॥२ ॥
śaila-agra-caya-saṅkāśam śaila-śṛṅgam iva unnatam . suvibhakta-mahā-kakṣam mahājana-parigraham ..2 ..
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैराप्तपर्याप्तै सर्वतः परिरक्षितम् ॥ ३ ॥
मतिमद्भिः महामात्रैः अनुरक्तैः अधिष्ठितम् । राक्षसैः आप्त-पर्याप्तैः सर्वतस् परिरक्षितम् ॥ ३ ॥
matimadbhiḥ mahāmātraiḥ anuraktaiḥ adhiṣṭhitam . rākṣasaiḥ āpta-paryāptaiḥ sarvatas parirakṣitam .. 3 ..
मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ॥ ४ ॥
मत्त-मातङ्ग-निश्श्वासैः व्याकुलीकृत-मारुतम् । शङ्ख-घोष-महा-घोषम् तूर्य-नाद-अनुनादितम् ॥ ४ ॥
matta-mātaṅga-niśśvāsaiḥ vyākulīkṛta-mārutam . śaṅkha-ghoṣa-mahā-ghoṣam tūrya-nāda-anunāditam .. 4 ..
प्रमदाजनसम्बाधं प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥ ५ ॥
प्रमदा-जन-सम्बाधम् प्रजल्पित-महापथम् । तप्त-काञ्चन-निर्यूहम् भूषण-उत्तम-भूषितम् ॥ ५ ॥
pramadā-jana-sambādham prajalpita-mahāpatham . tapta-kāñcana-niryūham bhūṣaṇa-uttama-bhūṣitam .. 5 ..
गन्धर्वाणामिवाऽवासमालयं मरुतामिव । रत्नसञ्चयसम्बाधं भवनं भोगिनामिव ॥ ६॥।
गन्धर्वाणाम् इव अवासम् आलयम् मरुताम् इव । रत्न-सञ्चय-सम्बाधम् भवनम् भोगिनाम् इव ॥ ६॥।
gandharvāṇām iva avāsam ālayam marutām iva . ratna-sañcaya-sambādham bhavanam bhoginām iva .. 6...
तं महाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥
तम् महा-अभ्रम् इव अ अदित्यः तेजः-विस्तृत-रश्मिमान् । अग्रजस्य आलयम् वीरः प्रविवेश महा-द्युतिः ॥ ७ ॥
tam mahā-abhram iva a adityaḥ tejaḥ-vistṛta-raśmimān . agrajasya ālayam vīraḥ praviveśa mahā-dyutiḥ .. 7 ..
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥
पुण्यान् पुण्य-अह-घोषान् च वेद-विद्भिः उदाहृतान् । शुश्राव सु महा-तेजाः भ्रातुः विजय-संश्रितान् ॥ ८ ॥
puṇyān puṇya-aha-ghoṣān ca veda-vidbhiḥ udāhṛtān . śuśrāva su mahā-tejāḥ bhrātuḥ vijaya-saṃśritān .. 8 ..
पूजितान् दधिपात्रैश्च सर्पिर्भि सुमनोक्षतैः । मन्त्रवेदविदो विप्रा ददर्श स महाबलः ॥ ९ ॥
पूजितान् दधि-पात्रैः च सुमना-उक्षतैः । मन्त्र-वेद-विदः विप्राः ददर्श स महा-बलः ॥ ९ ॥
pūjitān dadhi-pātraiḥ ca sumanā-ukṣataiḥ . mantra-veda-vidaḥ viprāḥ dadarśa sa mahā-balaḥ .. 9 ..
स पूज्यमानो रक्षोभिद्दीप्यमान स्वतेजसा । आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ १० ॥
स पूज्यमानः रक्षोभिद् दीप्यमान स्व-तेजसा । आसन-स्थम् महा-बाहुः ववन्दे धनद-अनुजम् ॥ १० ॥
sa pūjyamānaḥ rakṣobhid dīpyamāna sva-tejasā . āsana-stham mahā-bāhuḥ vavande dhanada-anujam .. 10 ..
स राजदृष्टिसम्पन्नमासनं हेमभूषितम् । जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११ ॥
स राज-दृष्टि-सम्पन्नम् आसनम् हेम-भूषितम् । जगाम समुदाचारम् प्रयुज्य आचार-कोविदः ॥ ११ ॥
sa rāja-dṛṣṭi-sampannam āsanam hema-bhūṣitam . jagāma samudācāram prayujya ācāra-kovidaḥ .. 11 ..
स रावणं महात्मानं विजने मन्त्रिसन्निधौ । उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ १२ ॥
स रावणम् महात्मानम् विजने मन्त्रि-सन्निधौ । उवाच हितम् अत्यर्थम् वचनम् हेतु-निश्चितम् ॥ १२ ॥
sa rāvaṇam mahātmānam vijane mantri-sannidhau . uvāca hitam atyartham vacanam hetu-niścitam .. 12 ..
प्रसाद्य भ्रातरं जेष्ठं सान्त्वेनोपस्थितक्रमः । देशकालार्थसंवादि दृष्टलोकपरावरः ॥ १३ ॥
प्रसाद्य भ्रातरम् जेष्ठम् सान्त्वेन उपस्थित-क्रमः । देश-काल-अर्थ-संवादि दृष्ट-लोक-परावरः ॥ १३ ॥
prasādya bhrātaram jeṣṭham sāntvena upasthita-kramaḥ . deśa-kāla-artha-saṃvādi dṛṣṭa-loka-parāvaraḥ .. 13 ..
यदाप्रभृति वैदेही सम्प्रास्तेमां पुरंतप । तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानिनः ॥ १४ ॥
यदा प्रभृति वैदेही सम्प्रास्त इमाम् पुरंतप । तदा प्रभृति दृश्यन्ते निमित्तानि अशुभ-हानिनः ॥ १४ ॥
yadā prabhṛti vaidehī samprāsta imām puraṃtapa . tadā prabhṛti dṛśyante nimittāni aśubha-hāninaḥ .. 14 ..
सस्फुलिङ्ग सधूमार्चि सधूमकलुषोदयः । मन्त्रसङ्घहुतोऽप्यग्निर्न सम्यगभिवर्थते ॥ १५ ॥
स स्फुलिङ्ग स धूम-अर्चि स धूम-कलुष-उदयः । मन्त्र-सङ्घ-हुतः अपि अग्निः न सम्यक् अभिवर्थते ॥ १५ ॥
sa sphuliṅga sa dhūma-arci sa dhūma-kaluṣa-udayaḥ . mantra-saṅgha-hutaḥ api agniḥ na samyak abhivarthate .. 15 ..
अग्निष्ठेष्वग्निशलासु तथा ब्रह्मस्थालीषुच । सरीसृपाणि दृश्यन्ते हन्येषु च पिपीलिकाः ॥ १६ ॥
अग्निष्ठेषु अग्निशलासु तथा ब्रह्मस्थालीषु च । सरीसृपाणि दृश्यन्ते हन्येषु च पिपीलिकाः ॥ १६ ॥
agniṣṭheṣu agniśalāsu tathā brahmasthālīṣu ca . sarīsṛpāṇi dṛśyante hanyeṣu ca pipīlikāḥ .. 16 ..
गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः । दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः ॥ १७ ॥
गवाम् पयांसि स्कन्नानि विमदाः वर-कुञ्जराः । दीनम् अश्वाः प्रहेषन्ते नव-ग्रास-अभिनन्दिनः ॥ १७ ॥
gavām payāṃsi skannāni vimadāḥ vara-kuñjarāḥ . dīnam aśvāḥ praheṣante nava-grāsa-abhinandinaḥ .. 17 ..
खरोष्ट्राश्वतरा राजभन् भिन्नरोमा स्स्रवन्ति च । न स्वभावेऽवतिष्ठन्ति विधानैरपि चिन्तिताः ॥ १८ ॥
खर-उष्ट्र-अश्वतराः भिन्न-रोमा स्स्रवन्ति च । न स्वभावे अवतिष्ठन्ति विधानैः अपि चिन्तिताः ॥ १८ ॥
khara-uṣṭra-aśvatarāḥ bhinna-romā ssravanti ca . na svabhāve avatiṣṭhanti vidhānaiḥ api cintitāḥ .. 18 ..
वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ १९ ॥
वायसाः सङ्घशस् क्रूराः व्याहरन्ति समन्ततः । समवेताः च दृश्यन्ते विमान-अग्रेषु सङ्घशस् ॥ १९ ॥
vāyasāḥ saṅghaśas krūrāḥ vyāharanti samantataḥ . samavetāḥ ca dṛśyante vimāna-agreṣu saṅghaśas .. 19 ..
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च स्नध्ये द्वे व्याहऱ्‌नत्यशिवं शिवाः ॥ २० ॥
गृध्राः च परिलीयन्ते पुरीम् उपरि पिण्डिताः । उपपन्नाः च स्नध्ये द्वे शिवाः ॥ २० ॥
gṛdhrāḥ ca parilīyante purīm upari piṇḍitāḥ . upapannāḥ ca snadhye dve śivāḥ .. 20 ..
क्रव्यादानां मृगाणां च पुरीद्वारेषु सङ्घशः । श्रूयन्ते विपुला घोषा सविस्फूर्जितनिस्स्वनाः ॥ २१ ॥
क्रव्यादानाम् मृगाणाम् च पुरी-द्वारेषु सङ्घशस् । श्रूयन्ते विपुलाः घोषा स विस्फूर्जित-निस्स्वनाः ॥ २१ ॥
kravyādānām mṛgāṇām ca purī-dvāreṣu saṅghaśas . śrūyante vipulāḥ ghoṣā sa visphūrjita-nissvanāḥ .. 21 ..
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम् । रोचते वीर वैदेही राघवाय प्रदीयताम् ॥ २२ ॥
तत् एवम् प्रस्तुते कार्ये प्रायश्चित्तम् इदम् क्षमम् । रोचते वीर वैदेही राघवाय प्रदीयताम् ॥ २२ ॥
tat evam prastute kārye prāyaścittam idam kṣamam . rocate vīra vaidehī rāghavāya pradīyatām .. 22 ..
इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ २३॥
इदम् च यदि वा मोहात् लोभात् वा व्याहृतम् मया । तत्र अपि च महा-राज न दोषम् कर्तुम् अर्हसि ॥ २३॥
idam ca yadi vā mohāt lobhāt vā vyāhṛtam mayā . tatra api ca mahā-rāja na doṣam kartum arhasi .. 23..
अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते । रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ २४ ॥
अयम् हि दोषः सर्वस्य जनस्य अस्य उपलक्ष्यते । रक्षसाम् राक्षसीनाम् च पुरस्य अन्तःपुरस्य च ॥ २४ ॥
ayam hi doṣaḥ sarvasya janasya asya upalakṣyate . rakṣasām rākṣasīnām ca purasya antaḥpurasya ca .. 24 ..
प्रापणे चास्य मन्त्रस्य निवृत्ता सर्वमन्त्रिणः । अवश्यं च मया वाच्यं यद् दृष्टमथवा श्रुतम् । सम्प्रधार्य यथान्यायं तद भवान् कर्तुमर्हति ॥२५ ॥
प्रापणे च अस्य मन्त्रस्य निवृत्ता सर्व-मन्त्रिणः । अवश्यम् च मया वाच्यम् यत् दृष्टम् अथवा श्रुतम् । सम्प्रधार्य यथान्यायम् तद भवान् कर्तुम् अर्हति ॥२५ ॥
prāpaṇe ca asya mantrasya nivṛttā sarva-mantriṇaḥ . avaśyam ca mayā vācyam yat dṛṣṭam athavā śrutam . sampradhārya yathānyāyam tada bhavān kartum arhati ..25 ..
इति स्वमन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान् । रावणं राक्षसां श्रेष्ठं पथ्यमेतद विभीषणः ॥ २६ ॥
इति स्व-मन्त्रिणाम् मध्ये भ्राता भ्रातरम् ऊचिवान् । रावणम् राक्षसाम् श्रेष्ठम् पथ्यम् एतत् विभीषणः ॥ २६ ॥
iti sva-mantriṇām madhye bhrātā bhrātaram ūcivān . rāvaṇam rākṣasām śreṣṭham pathyam etat vibhīṣaṇaḥ .. 26 ..
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद् वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ २७ ॥
हितम् महार्थम् मृदु हेतु-संहितम् व्यतीत-काल-आयति-सम्प्रतिक्षमम् । निशम्य तत् वाक्यम् उपस्थित-ज्वरः प्रसङ्गवान् उत्तरम् एतत् अब्रवीत् ॥ २७ ॥
hitam mahārtham mṛdu hetu-saṃhitam vyatīta-kāla-āyati-sampratikṣamam . niśamya tat vākyam upasthita-jvaraḥ prasaṅgavān uttaram etat abravīt .. 27 ..
भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् । सुरै सहेन्द्रैरपि संगरे कथं ममाग्रत स्थास्यति लक्ष्मणाग्रजः ॥ २८ ॥
भयम् न पश्यामि कुतश्चिद् अपि अहम् न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सह इन्द्रैः अपि संगरे कथम् मम अग्रतस् स्थास्यति लक्ष्मण-अग्रजः ॥ २८ ॥
bhayam na paśyāmi kutaścid api aham na rāghavaḥ prāpsyati jātu maithilīm . suraiḥ saha indraiḥ api saṃgare katham mama agratas sthāsyati lakṣmaṇa-agrajaḥ .. 28 ..
इत्येवमुक्त्वा सुरसैन्यनाशनो महाबल संयति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ २९ ॥
इति एवम् उक्त्वा सुर-सैन्य-नाशनः महा-बल संयति चण्ड-विक्रमः । दशाननः भ्रातरम् आप्त-वादिनम् विसर्जयामास तदा विभीषणम् ॥ २९ ॥
iti evam uktvā sura-sainya-nāśanaḥ mahā-bala saṃyati caṇḍa-vikramaḥ . daśānanaḥ bhrātaram āpta-vādinam visarjayāmāsa tadā vibhīṣaṇam .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In