This overlay will guide you through the buttons:

| |
|
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्॥ १॥
शक्त्या निपातितम् दृष्ट्वा रावणेन बलीयसा। लक्ष्मणम् समरे शूरम् शोणित-ओघ-परिप्लुतम्॥ १॥
śaktyā nipātitam dṛṣṭvā rāvaṇena balīyasā. lakṣmaṇam samare śūram śoṇita-ogha-pariplutam.. 1..
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्॥ २॥
स दत्त्वा तुमुलम् युद्धम् रावणस्य दुरात्मनः। विसृजन् एव बाण-ओघान् सुषेणम् इदम् अब्रवीत्॥ २॥
sa dattvā tumulam yuddham rāvaṇasya durātmanaḥ. visṛjan eva bāṇa-oghān suṣeṇam idam abravīt.. 2..
एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥
एष रावण-वीर्येण लक्ष्मणः पतितः भुवि। सर्प-वत् चेष्टते वीरः मम शोकम् उदीरयन्॥ ३॥
eṣa rāvaṇa-vīryeṇa lakṣmaṇaḥ patitaḥ bhuvi. sarpa-vat ceṣṭate vīraḥ mama śokam udīrayan.. 3..
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः॥ ४॥
शोणित-आर्द्रम् इमम् वीरम् प्राणैः प्रियतरम् मम। पश्यतः मम का शक्तिः योद्धुम् पर्याकुल-आत्मनः॥ ४॥
śoṇita-ārdram imam vīram prāṇaiḥ priyataram mama. paśyataḥ mama kā śaktiḥ yoddhum paryākula-ātmanaḥ.. 4..
अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ ५॥
अयम् स समर-श्लाघी भ्राता मे शुभ-लक्षणः। यदि पञ्चत्वम् आपन्नः प्राणैः मे किम् सुखेन वा॥ ५॥
ayam sa samara-ślāghī bhrātā me śubha-lakṣaṇaḥ. yadi pañcatvam āpannaḥ prāṇaiḥ me kim sukhena vā.. 5..
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥
लज्जति इव हि मे वीर्यम् भ्रश्यति इव करात् धनुः। सायकाः व्यवसीदन्ति दृष्टिः बाष्प-वशम् गता॥ ६॥
lajjati iva hi me vīryam bhraśyati iva karāt dhanuḥ. sāyakāḥ vyavasīdanti dṛṣṭiḥ bāṣpa-vaśam gatā.. 6..
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते॥ ७॥
अवसीदन्ति गात्राणि स्वप्न-याने नृणाम् इव। चिन्ता मे वर्धते तीव्रा मुमूर्षा अपि च जायते॥ ७॥
avasīdanti gātrāṇi svapna-yāne nṛṇām iva. cintā me vardhate tīvrā mumūrṣā api ca jāyate.. 7..
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥
भ्रातरम् निहतम् दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तम् तु दुःख-आर्तम् मर्मणि अभिहतम् भृशम्॥ ८॥
bhrātaram nihatam dṛṣṭvā rāvaṇena durātmanā. viṣṭanantam tu duḥkha-ārtam marmaṇi abhihatam bhṛśam.. 8..
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥
राघवः भ्रातरम् दृष्ट्वा प्रियम् प्राणम् बहिस् चरम्। दुःखेन महता आविष्टः ध्यान-शोक-परायणः॥ ९॥
rāghavaḥ bhrātaram dṛṣṭvā priyam prāṇam bahis caram. duḥkhena mahatā āviṣṭaḥ dhyāna-śoka-parāyaṇaḥ.. 9..
परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ १०॥
परम् विषादम् आपन्नः विललाप आकुल-इन्द्रियः। भ्रातरम् निहतम् दृष्ट्वा लक्ष्मणम् रण-पांसुषु॥ १०॥
param viṣādam āpannaḥ vilalāpa ākula-indriyaḥ. bhrātaram nihatam dṛṣṭvā lakṣmaṇam raṇa-pāṃsuṣu.. 10..
विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ ११॥
विजयः अपि हि मे शूर न प्रियाय उपकल्पते। अ चक्षुः-विषयः चन्द्रः काम् प्रीतिम् जनयिष्यति॥ ११॥
vijayaḥ api hi me śūra na priyāya upakalpate. a cakṣuḥ-viṣayaḥ candraḥ kām prītim janayiṣyati.. 11..
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ १२॥
किम् मे युद्धेन किम् प्राणैः युद्ध-कार्यम् न विद्यते। यत्र अयम् निहतः शेते रण-मूर्धनि लक्ष्मणः॥ १२॥
kim me yuddhena kim prāṇaiḥ yuddha-kāryam na vidyate. yatra ayam nihataḥ śete raṇa-mūrdhani lakṣmaṇaḥ.. 12..
यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १३॥
यथा एव माम् वनम् यान्तम् अनुयाति महा-द्युतिः। अहम् अपि अनुयास्यामि तथा एव एनम् यम-क्षयम्॥ १३॥
yathā eva mām vanam yāntam anuyāti mahā-dyutiḥ. aham api anuyāsyāmi tathā eva enam yama-kṣayam.. 13..
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ १४॥
इष्ट-बन्धु-जनः नित्यम् माम् स नित्यम् अनुव्रतः। इमाम् अवस्थाम् गमितः राक्षसैः कूट-योधिभिः॥ १४॥
iṣṭa-bandhu-janaḥ nityam mām sa nityam anuvrataḥ. imām avasthām gamitaḥ rākṣasaiḥ kūṭa-yodhibhiḥ.. 14..
देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः। तम् तु देशम् न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ. tam tu deśam na paśyāmi yatra bhrātā sahodaraḥ.. 15..
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ १६॥
किम् नु राज्येन दुर्धर्ष-लक्ष्मणेन विना मम। कथम् वक्ष्यामि अहम् तु अम्बाम् सुमित्राम् पुत्र-वत्सलाम्॥ १६॥
kim nu rājyena durdharṣa-lakṣmaṇena vinā mama. katham vakṣyāmi aham tu ambām sumitrām putra-vatsalām.. 16..
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्॥ १७॥
उपालम्भम् न शक्ष्यामि सोढुम् दत्तम् सुमित्रया। किम् नु वक्ष्यामि कौसल्याम् मातरम् किम् नु कैकयीम्॥ १७॥
upālambham na śakṣyāmi soḍhum dattam sumitrayā. kim nu vakṣyāmi kausalyām mātaram kim nu kaikayīm.. 17..
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्॥ १८॥
भरतम् किम् नु वक्ष्यामि शत्रुघ्नम् च महा-बलम्। सह तेन वनम् यातः विना तेन आगतः कथम्॥ १८॥
bharatam kim nu vakṣyāmi śatrughnam ca mahā-balam. saha tena vanam yātaḥ vinā tena āgataḥ katham.. 18..
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ १९॥
इह एव मरणम् श्रेयः न तु बन्धु-विगर्हणम्। किम् मया दुष्कृतम् कर्म कृतम् अन्यत्र जन्मनि॥ १९॥
iha eva maraṇam śreyaḥ na tu bandhu-vigarhaṇam. kim mayā duṣkṛtam karma kṛtam anyatra janmani.. 19..
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ २०॥
येन मे धार्मिकः भ्राता निहतः च अग्रतस् स्थितः। हा भ्रातर् मनुज-श्रेष्ठ शूराणाम् प्रवर प्रभो॥ २०॥
yena me dhārmikaḥ bhrātā nihataḥ ca agratas sthitaḥ. hā bhrātar manuja-śreṣṭha śūrāṇām pravara prabho.. 20..
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्थं नावभाषसे॥ २१॥
एकाकी किम् नु माम् त्यक्त्वा पर-लोकाय गच्छसि। विलपन्तम् च माम् भ्रातर् किमर्थम् न अवभाषसे॥ २१॥
ekākī kim nu mām tyaktvā para-lokāya gacchasi. vilapantam ca mām bhrātar kimartham na avabhāṣase.. 21..
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
उत्तिष्ठ पश्य किम् शेषे दीनम् माम् पश्य चक्षुषा। शोक-आर्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
uttiṣṭha paśya kim śeṣe dīnam mām paśya cakṣuṣā. śoka-ārtasya pramattasya parvateṣu vaneṣu ca.. 22..
विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ २३॥
विषण्णस्य महा-बाहो समाश्वासयिता मम। रामम् एवम् ब्रुवाणम् तु शोक-व्याकुलित-इन्द्रियम्॥ २३॥
viṣaṇṇasya mahā-bāho samāśvāsayitā mama. rāmam evam bruvāṇam tu śoka-vyākulita-indriyam.. 23..
आश्वासयन्नुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ २४॥
आश्वासयन् उवाच इदम् सुषेणः परमम् वचः। त्यज इमाम् नर-शार्दूल बुद्धिम् वैक्लव्य-कारिणीम्॥ २४॥
āśvāsayan uvāca idam suṣeṇaḥ paramam vacaḥ. tyaja imām nara-śārdūla buddhim vaiklavya-kāriṇīm.. 24..
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥
शोक-संजननीम् चिन्ताम् तुल्याम् बाणैः चमू-मुखे। न एव पञ्चत्वम् आपन्नः लक्ष्मणः लक्ष्मि-वर्धनः॥ २५॥
śoka-saṃjananīm cintām tulyām bāṇaiḥ camū-mukhe. na eva pañcatvam āpannaḥ lakṣmaṇaḥ lakṣmi-vardhanaḥ.. 25..
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ २६॥
न हि अस्य विकृतम् वक्त्रम् न च श्याम-त्वम् आगतम्। सु प्रभम् च प्रसन्नम् च मुखम् अस्य निरीक्ष्यताम्॥ २६॥
na hi asya vikṛtam vaktram na ca śyāma-tvam āgatam. su prabham ca prasannam ca mukham asya nirīkṣyatām.. 26..
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ २७॥
पद्म-पत्र-तलौ हस्तौ सु प्रसन्ने च लोचने। न ईदृशम् दृश्यते रूपम् गतासूनाम् विशाम् पते॥ २७॥
padma-patra-talau hastau su prasanne ca locane. na īdṛśam dṛśyate rūpam gatāsūnām viśām pate.. 27..
विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २८॥
विषादम् मा कृथाः वीर स प्राणः अयम् अरिंदम। आख्याति तु प्रसुप्तस्य स्रस्त-गात्रस्य भू-तले॥ २८॥
viṣādam mā kṛthāḥ vīra sa prāṇaḥ ayam ariṃdama. ākhyāti tu prasuptasya srasta-gātrasya bhū-tale.. 28..
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ २९॥
स उच्छ्वासम् हृदयम् वीर कम्पमानम् मुहुर् मुहुर्। एवम् उक्त्वा महा-प्राज्ञः सुषेणः राघवम् वचः॥ २९॥
sa ucchvāsam hṛdayam vīra kampamānam muhur muhur. evam uktvā mahā-prājñaḥ suṣeṇaḥ rāghavam vacaḥ.. 29..
समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ ३०॥
समीप-स्थम् उवाच इदम् हनूमन्तम् महा-कपिम्। सौम्य शीघ्रम् इतस् गत्वा पर्वतम् हि महोदयम्॥ ३०॥
samīpa-stham uvāca idam hanūmantam mahā-kapim. saumya śīghram itas gatvā parvatam hi mahodayam.. 30..
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय॥ ३१॥
पूर्वम् तु कथितः यः असौ वीर जाम्बवता तव। दक्षिणे शिखरे जाताम् महौषधिम् इह आनय॥ ३१॥
pūrvam tu kathitaḥ yaḥ asau vīra jāmbavatā tava. dakṣiṇe śikhare jātām mahauṣadhim iha ānaya.. 31..
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीवकरणीं वीर संधानीं च महौषधीम्॥ ३२॥
विशल्यकरणीम् नाम्ना सावर्ण्यकरणीम् तथा। संजीव-करणीम् वीर संधानीम् च महा-ओषधीम्॥ ३२॥
viśalyakaraṇīm nāmnā sāvarṇyakaraṇīm tathā. saṃjīva-karaṇīm vīra saṃdhānīm ca mahā-oṣadhīm.. 32..
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
संजीवन-अर्थम् वीरस्य लक्ष्मणस्य त्वम् आनय। इति एवम् उक्तः हनुमान् गत्वा च ओषधि-पर्वतम्।
saṃjīvana-artham vīrasya lakṣmaṇasya tvam ānaya. iti evam uktaḥ hanumān gatvā ca oṣadhi-parvatam.
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३४॥
तस्य बुद्धिः समुत्पन्ना मारुतेः अमित-ओजसः। इदम् एव गमिष्यामि गृहीत्वा शिखरम् गिरेः॥ ३४॥
tasya buddhiḥ samutpannā māruteḥ amita-ojasaḥ. idam eva gamiṣyāmi gṛhītvā śikharam gireḥ.. 34..
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ ३५॥
अस्मिन् तु शिखरे जाताम् ओषधीम् ताम् सुख-आवहाम्। प्रतर्केण अवगच्छामि सुषेणः हि एवम् अब्रवीत्॥ ३५॥
asmin tu śikhare jātām oṣadhīm tām sukha-āvahām. pratarkeṇa avagacchāmi suṣeṇaḥ hi evam abravīt.. 35..
अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३६॥
अ गृह्य यदि गच्छामि विशल्यकरणीम् अहम्। काल-अत्ययेन दोषः स्यात् वैक्लव्यम् च महत् भवेत्॥ ३६॥
a gṛhya yadi gacchāmi viśalyakaraṇīm aham. kāla-atyayena doṣaḥ syāt vaiklavyam ca mahat bhavet.. 36..
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३७॥
इति संचिन्त्य हनुमान् गत्वा क्षिप्रम् महा-बलः। आसाद्य पर्वत-श्रेष्ठम् त्रिस् प्रकम्प्य गिरेः शिरः॥ ३७॥
iti saṃcintya hanumān gatvā kṣipram mahā-balaḥ. āsādya parvata-śreṣṭham tris prakampya gireḥ śiraḥ.. 37..
फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३८॥
फुल्ल-नाना तरु-गणम् समुत्पाट्य महा-बलः। गृहीत्वा हरि-शार्दूलः हस्ताभ्याम् समतोलयत्॥ ३८॥
phulla-nānā taru-gaṇam samutpāṭya mahā-balaḥ. gṛhītvā hari-śārdūlaḥ hastābhyām samatolayat.. 38..
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३९॥
स नीलम् इव जीमूतम् तोय-पूर्णम् नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरम् गिरेः॥ ३९॥
sa nīlam iva jīmūtam toya-pūrṇam nabhastalāt. utpapāta gṛhītvā tu hanūmān śikharam gireḥ.. 39..
समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ४०॥
समागम्य महा-वेगः संन्यस्य शिखरम् गिरेः। विश्रम्य किंचिद् हनुमान् सुषेणम् इदम् अब्रवीत्॥ ४०॥
samāgamya mahā-vegaḥ saṃnyasya śikharam gireḥ. viśramya kiṃcid hanumān suṣeṇam idam abravīt.. 40..
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४१॥
औषधीः न अवगच्छामि ताः अहम् हरि-पुङ्गव। तत् इदम् शिखरम् कृत्स्नम् गिरेः तस्य आहृतम् मया॥ ४१॥
auṣadhīḥ na avagacchāmi tāḥ aham hari-puṅgava. tat idam śikharam kṛtsnam gireḥ tasya āhṛtam mayā.. 41..
एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ४२॥
एवम् कथयमानम् तु प्रशस्य पवनात्मजम्। सुषेणः वानर-श्रेष्ठः जग्राह उत्पाट्य च ओषधीः॥ ४२॥
evam kathayamānam tu praśasya pavanātmajam. suṣeṇaḥ vānara-śreṣṭhaḥ jagrāha utpāṭya ca oṣadhīḥ.. 42..
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्॥ ४३॥
विस्मिताः तु बभूवुः ते सर्वे वानर-पुङ्गवाः। दृष्ट्वा तु हनुमत्-कर्म सुरैः अपि सु दुष्करम्॥ ४३॥
vismitāḥ tu babhūvuḥ te sarve vānara-puṅgavāḥ. dṛṣṭvā tu hanumat-karma suraiḥ api su duṣkaram.. 43..
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ ४४॥
ततस् संक्षोदयित्वा ताम् ओषधीम् वानर-उत्तमः। लक्ष्मणस्य ददौ नस्तस् सुषेणः सु महा-द्युतिः॥ ४४॥
tatas saṃkṣodayitvā tām oṣadhīm vānara-uttamaḥ. lakṣmaṇasya dadau nastas suṣeṇaḥ su mahā-dyutiḥ.. 44..
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४५॥
स शल्यः स समाघ्राय लक्ष्मणः पर-वीर-हा। विशल्यः विरुजः शीघ्रम् उदतिष्ठत् मही-तलात्॥ ४५॥
sa śalyaḥ sa samāghrāya lakṣmaṇaḥ para-vīra-hā. viśalyaḥ virujaḥ śīghram udatiṣṭhat mahī-talāt.. 45..
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ ४६॥
तम् उत्थितम् तु हरयः भू-तलात् प्रेक्ष्य लक्ष्मणम्। साधु-साधु इति सु प्रीताः लक्ष्मणम् प्रत्यपूजयन्॥ ४६॥
tam utthitam tu harayaḥ bhū-talāt prekṣya lakṣmaṇam. sādhu-sādhu iti su prītāḥ lakṣmaṇam pratyapūjayan.. 46..
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ ४७॥
एहि एहि इति अब्रवीत् रामः लक्ष्मणम् पर-वीर-हा। सस्वजे गाढम् आलिङ्गय बाष्प-पर्याकुल-ईक्षणः॥ ४७॥
ehi ehi iti abravīt rāmaḥ lakṣmaṇam para-vīra-hā. sasvaje gāḍham āliṅgaya bāṣpa-paryākula-īkṣaṇaḥ.. 47..
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४८॥
अब्रवीत् च परिष्वज्य सौमित्रिम् राघवः तदा। दिष्ट्या त्वाम् वीर पश्यामि मरणात् पुनर् आगतम्॥ ४८॥
abravīt ca pariṣvajya saumitrim rāghavaḥ tadā. diṣṭyā tvām vīra paśyāmi maraṇāt punar āgatam.. 48..
नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ ४९॥
नहि मे जीवितेन अर्थः सीतया च जयेन वा। कः हि मे जीवितेन अर्थः त्वयि पञ्चत्वम् आगते॥ ४९॥
nahi me jīvitena arthaḥ sītayā ca jayena vā. kaḥ hi me jīvitena arthaḥ tvayi pañcatvam āgate.. 49..
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ५०॥
इति एवम् ब्रुवतः तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणः वाक्यम् अब्रवीत्॥ ५०॥
iti evam bruvataḥ tasya rāghavasya mahātmanaḥ. khinnaḥ śithilayā vācā lakṣmaṇaḥ vākyam abravīt.. 50..
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि॥ ५१॥
ताम् प्रतिज्ञाम् प्रतिज्ञाय पुरा सत्य-पराक्रम। लघुः कश्चिद् इव असत्त्वः न एवम् त्वम् वक्तुम् अर्हसि॥ ५१॥
tām pratijñām pratijñāya purā satya-parākrama. laghuḥ kaścid iva asattvaḥ na evam tvam vaktum arhasi.. 51..
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५२॥
नहि प्रतिज्ञाम् कुर्वन्ति वितथाम् सत्य-वादिनः। लक्षणम् हि महत्-त्वस्य प्रतिज्ञा-परिपालनम्॥ ५२॥
nahi pratijñām kurvanti vitathām satya-vādinaḥ. lakṣaṇam hi mahat-tvasya pratijñā-paripālanam.. 52..
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५३॥
नैराश्यम् उपगन्तुम् च न अलम् ते मद्-कृते अनघ। वधेन रावणस्य अद्य प्रतिज्ञाम् अनुपालय॥ ५३॥
nairāśyam upagantum ca na alam te mad-kṛte anagha. vadhena rāvaṇasya adya pratijñām anupālaya.. 53..
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५४॥
न जीवन् यास्यते शत्रुः तव बाण-पथम् गतः। नर्दतः तीक्ष्ण-दंष्ट्रस्य सिंहस्य इव महा-गजः॥ ५४॥
na jīvan yāsyate śatruḥ tava bāṇa-patham gataḥ. nardataḥ tīkṣṇa-daṃṣṭrasya siṃhasya iva mahā-gajaḥ.. 54..
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५५॥
अहम् तु वधम् अच्छामि शीघ्रम् अस्य दुरात्मनः। यावत् अस्तम् न याति एष कृत-कर्मा दिवाकरः॥ ५५॥
aham tu vadham acchāmi śīghram asya durātmanaḥ. yāvat astam na yāti eṣa kṛta-karmā divākaraḥ.. 55..
यदि वधमिच्छसि रावणस्य संख्येयदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्यकुरु च वचो मम शीघ्रमद्य वीर॥ ५६॥
यदि वधम् इच्छसि रावणस्य संख्या इयदि च कृताम् हि तव इच्छसि प्रतिज्ञाम्। यदि तव राज-सुत-अभिलाषः आर्य कुरु च वचः मम शीघ्रम् अद्य वीर॥ ५६॥
yadi vadham icchasi rāvaṇasya saṃkhyā iyadi ca kṛtām hi tava icchasi pratijñām. yadi tava rāja-suta-abhilāṣaḥ ārya kuru ca vacaḥ mama śīghram adya vīra.. 56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In