This overlay will guide you through the buttons:

| |
|
लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः। संदधे परवीरघ्नो धनुरादाय वीर्यवान्॥ १॥
लक्ष्मणेन तु तत् वाक्यम् उक्तम् श्रुत्वा स राघवः। संदधे पर-वीर-घ्नः धनुः आदाय वीर्यवान्॥ १॥
lakṣmaṇena tu tat vākyam uktam śrutvā sa rāghavaḥ. saṃdadhe para-vīra-ghnaḥ dhanuḥ ādāya vīryavān.. 1..
रावणाय शरान् घोरान् विससर्ज चमूमुखे। अथान्यं रथमास्थाय रावणो राक्षसाधिपः॥ २॥
रावणाय शरान् घोरान् विससर्ज चमू-मुखे। अथ अन्यम् रथम् आस्थाय रावणः राक्षस-अधिपः॥ २॥
rāvaṇāya śarān ghorān visasarja camū-mukhe. atha anyam ratham āsthāya rāvaṇaḥ rākṣasa-adhipaḥ.. 2..
अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्। दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः। आजघान महाशैलं धाराभिरिव तोयदः॥ ३॥
अभ्यधावत काकुत्स्थम् स्वर्भानुः इव भास्करम्। दशग्रीवः रथ-स्थः तु रामम् वज्र-उपमैः शरैः। आजघान महा-शैलम् धाराभिः इव तोयदः॥ ३॥
abhyadhāvata kākutstham svarbhānuḥ iva bhāskaram. daśagrīvaḥ ratha-sthaḥ tu rāmam vajra-upamaiḥ śaraiḥ. ājaghāna mahā-śailam dhārābhiḥ iva toyadaḥ.. 3..
दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः। अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः॥ ४॥
दीप्त-पावक-संकाशैः शरैः काञ्चन-भूषणैः। अभ्यवर्षत् रणे रामः दशग्रीवम् समाहितः॥ ४॥
dīpta-pāvaka-saṃkāśaiḥ śaraiḥ kāñcana-bhūṣaṇaiḥ. abhyavarṣat raṇe rāmaḥ daśagrīvam samāhitaḥ.. 4..
भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः। न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः॥ ५॥
भूमौ स्थितस्य रामस्य रथ-स्थस्य स रक्षसः। न समम् युद्धम् इति आहुः देव-गन्धर्व-किंनराः॥ ५॥
bhūmau sthitasya rāmasya ratha-sthasya sa rakṣasaḥ. na samam yuddham iti āhuḥ deva-gandharva-kiṃnarāḥ.. 5..
ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम्। आहूय मातलिं शक्रो वचनं चेदमब्रवीत्॥ ६॥
ततस् देव-वरः श्रीमान् श्रुत्वा तेषाम् वचः अमृतम्। आहूय मातलिम् शक्रः वचनम् च इदम् अब्रवीत्॥ ६॥
tatas deva-varaḥ śrīmān śrutvā teṣām vacaḥ amṛtam. āhūya mātalim śakraḥ vacanam ca idam abravīt.. 6..
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्। आहूय भूतलं यात कुरु देवहितं महत्॥ ७॥
रथेन मम भूमिष्ठम् शीघ्रम् याहि रघूत्तमम्। आहूय भू-तलम् यात कुरु देव-हितम् महत्॥ ७॥
rathena mama bhūmiṣṭham śīghram yāhi raghūttamam. āhūya bhū-talam yāta kuru deva-hitam mahat.. 7..
इत्युक्तो देवराजेन मातलिर्देवसारथिः। प्रणम्य शिरसा देवं ततो वचनमब्रवीत्॥ ८॥
इति उक्तः देवराजेन मातलिः देव-सारथिः। प्रणम्य शिरसा देवम् ततस् वचनम् अब्रवीत्॥ ८॥
iti uktaḥ devarājena mātaliḥ deva-sārathiḥ. praṇamya śirasā devam tatas vacanam abravīt.. 8..
शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्। ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्॥ ९॥
शीघ्रम् यास्यामि देव-इन्द्र सारथ्यम् च करोमि अहम्। ततस् हयैः च संयोज्य हरितैः स्यन्दन-उत्तमम्॥ ९॥
śīghram yāsyāmi deva-indra sārathyam ca karomi aham. tatas hayaiḥ ca saṃyojya haritaiḥ syandana-uttamam.. 9..
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः। तरुणादित्यसंकाशो वैदूर्यमयकूबरः। सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः॥ १०॥
ततस् काञ्चन-चित्र-अङ्गः किङ्किणी-शत-भूषितः। तरुण-आदित्य-संकाशः वैदूर्य-मय-कूबरः। सत्-अश्वैः काञ्चन-आपीडैः युक्तः श्वेत-प्रकीर्णकैः॥ १०॥
tatas kāñcana-citra-aṅgaḥ kiṅkiṇī-śata-bhūṣitaḥ. taruṇa-āditya-saṃkāśaḥ vaidūrya-maya-kūbaraḥ. sat-aśvaiḥ kāñcana-āpīḍaiḥ yuktaḥ śveta-prakīrṇakaiḥ.. 10..
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः॥ ११॥
हरिभिः सूर्य-संकाशैः हेम-जाल-विभूषितैः। रुक्म-वेणु-ध्वजः श्रीमान् देव-राज-रथः वरः॥ ११॥
haribhiḥ sūrya-saṃkāśaiḥ hema-jāla-vibhūṣitaiḥ. rukma-veṇu-dhvajaḥ śrīmān deva-rāja-rathaḥ varaḥ.. 11..
देवराजेन संदिष्टो रथमारुह्य मातलिः। अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्॥ १२॥
देवराजेन संदिष्टः रथम् आरुह्य मातलिः। अभ्यवर्तत काकुत्स्थम् अवतीर्य त्रिविष्टपात्॥ १२॥
devarājena saṃdiṣṭaḥ ratham āruhya mātaliḥ. abhyavartata kākutstham avatīrya triviṣṭapāt.. 12..
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः॥ १३॥
अब्रवीत् च तदा रामम् स प्रतोदः रथे स्थितः। प्राञ्जलिः मातलिः वाक्यम् सहस्राक्षस्य सारथिः॥ १३॥
abravīt ca tadā rāmam sa pratodaḥ rathe sthitaḥ. prāñjaliḥ mātaliḥ vākyam sahasrākṣasya sārathiḥ.. 13..
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण॥ १४॥
सहस्राक्षेण काकुत्स्थ रथः अयम् विजयाय ते। दत्तः तव महा-सत्त्व श्रीमन् शत्रु-निबर्हण॥ १४॥
sahasrākṣeṇa kākutstha rathaḥ ayam vijayāya te. dattaḥ tava mahā-sattva śrīman śatru-nibarhaṇa.. 14..
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्। शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा॥ १५॥
इदम् ऐन्द्रम् महत् चापम् कवचम् च अग्नि-संनिभम्। शराः च आदित्य-संकाशाः शक्तिः च विमला शिवा॥ १५॥
idam aindram mahat cāpam kavacam ca agni-saṃnibham. śarāḥ ca āditya-saṃkāśāḥ śaktiḥ ca vimalā śivā.. 15..
आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना देव महेन्द्र इव दानवान्॥ १६॥
आरुह्य इमम् रथम् वीर राक्षसम् जहि रावणम्। मया सारथिना देव महा-इन्द्रः इव दानवान्॥ १६॥
āruhya imam ratham vīra rākṣasam jahi rāvaṇam. mayā sārathinā deva mahā-indraḥ iva dānavān.. 16..
इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च। आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्॥ १७॥
इति उक्तः सम्परिक्रम्य रथम् तम् अभिवाद्य च। आरुरोह तदा रामः लोकान् लक्ष्म्या विराजयन्॥ १७॥
iti uktaḥ samparikramya ratham tam abhivādya ca. āruroha tadā rāmaḥ lokān lakṣmyā virājayan.. 17..
तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्। रामस्य च महाबाहो रावणस्य च रक्षसः॥ १८॥
तत् बभौ च अद्भुतम् युद्धम् द्वैरथम् रोम-हर्षणम्। रामस्य च महा-बाहो रावणस्य च रक्षसः॥ १८॥
tat babhau ca adbhutam yuddham dvairatham roma-harṣaṇam. rāmasya ca mahā-bāho rāvaṇasya ca rakṣasaḥ.. 18..
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्॥ १९॥
स गान्धर्वेण गान्धर्वम् दैवम् दैवेन राघवः। अस्त्रम् राक्षस-राजस्य जघान परम-अस्त्र-विद्॥ १९॥
sa gāndharveṇa gāndharvam daivam daivena rāghavaḥ. astram rākṣasa-rājasya jaghāna parama-astra-vid.. 19..
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुनरेव निशाचरः॥ २०॥
अस्त्रम् तु परमम् घोरम् राक्षसम् राक्षस-अधिपः। ससर्ज परम-क्रुद्धः पुनर् एव निशाचरः॥ २०॥
astram tu paramam ghoram rākṣasam rākṣasa-adhipaḥ. sasarja parama-kruddhaḥ punar eva niśācaraḥ.. 20..
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः। अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः॥ २१॥
ते रावण-धनुः-मुक्ताः शराः काञ्चन-भूषणाः। अभ्यवर्तन्त काकुत्स्थम् सर्पाः भूत्वा महा-विषाः॥ २१॥
te rāvaṇa-dhanuḥ-muktāḥ śarāḥ kāñcana-bhūṣaṇāḥ. abhyavartanta kākutstham sarpāḥ bhūtvā mahā-viṣāḥ.. 21..
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः॥ २२॥
ते दीप्त-वदनाः दीप्तम् वमन्तः ज्वलनम् मुखैः। रामम् एव अभ्यवर्तन्त व्यादित-आस्याः भयानकाः॥ २२॥
te dīpta-vadanāḥ dīptam vamantaḥ jvalanam mukhaiḥ. rāmam eva abhyavartanta vyādita-āsyāḥ bhayānakāḥ.. 22..
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः। दिशश्च संतताः सर्वा विदिशश्च समावृताः॥ २३॥
तैः वासुकि-सम-स्पर्शैः दीप्त-भोगैः महाविषैः। दिशः च संतताः सर्वाः विदिशः च समावृताः॥ २३॥
taiḥ vāsuki-sama-sparśaiḥ dīpta-bhogaiḥ mahāviṣaiḥ. diśaḥ ca saṃtatāḥ sarvāḥ vidiśaḥ ca samāvṛtāḥ.. 23..
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे। अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्॥ २४॥
तान् दृष्ट्वा पन्नगान् रामः समापततः आहवे। अस्त्रम् गारुत्मतम् घोरम् प्रादुश्चक्रे भय-आवहम्॥ २४॥
tān dṛṣṭvā pannagān rāmaḥ samāpatataḥ āhave. astram gārutmatam ghoram prāduścakre bhaya-āvaham.. 24..
ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः॥ २५॥
ते राघव-धनुः-मुक्ताः रुक्म-पुङ्खाः शिखि-प्रभाः। सुपर्णाः काञ्चनाः भूत्वा विचेरुः सर्प-शत्रवः॥ २५॥
te rāghava-dhanuḥ-muktāḥ rukma-puṅkhāḥ śikhi-prabhāḥ. suparṇāḥ kāñcanāḥ bhūtvā viceruḥ sarpa-śatravaḥ.. 25..
ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान्। सुपर्णरूपा रामस्य विशिखाः कामरूपिणः॥ २६॥
ते तान् सर्वान् शरान् जघ्नुः सर्प-रूपान् महा-जवान्। सुपर्ण-रूपाः रामस्य विशिखाः कामरूपिणः॥ २६॥
te tān sarvān śarān jaghnuḥ sarpa-rūpān mahā-javān. suparṇa-rūpāḥ rāmasya viśikhāḥ kāmarūpiṇaḥ.. 26..
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः॥ २७॥
अस्त्रे प्रतिहते क्रुद्धः रावणः राक्षस-अधिपः। अभ्यवर्षत् तदा रामम् घोराभिः शर-वृष्टिभिः॥ २७॥
astre pratihate kruddhaḥ rāvaṇaḥ rākṣasa-adhipaḥ. abhyavarṣat tadā rāmam ghorābhiḥ śara-vṛṣṭibhiḥ.. 27..
ततः शरसहस्रेण राममक्लिष्टकारिणम्। अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत॥ २८॥
ततस् शर-सहस्रेण रामम् अक्लिष्ट-कारिणम्। अर्दयित्वा शर-ओघेण मातलिम् प्रत्यविध्यत॥ २८॥
tatas śara-sahasreṇa rāmam akliṣṭa-kāriṇam. ardayitvā śara-ogheṇa mātalim pratyavidhyata.. 28..
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः। पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्॥ २९॥
चिच्छेद केतुम् उद्दिश्य शरेण एकेन रावणः। पातयित्वा रथोपस्थे रथात् केतुम् च काञ्चनम्॥ २९॥
ciccheda ketum uddiśya śareṇa ekena rāvaṇaḥ. pātayitvā rathopasthe rathāt ketum ca kāñcanam.. 29..
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः। विषेदुर्देवगन्धर्वचारणा दानवैः सह॥ ३०॥
ऐन्द्रान् अपि जघान अश्वान् शर-जालेन रावणः। विषेदुः देव-गन्धर्व-चारणाः दानवैः सह॥ ३०॥
aindrān api jaghāna aśvān śara-jālena rāvaṇaḥ. viṣeduḥ deva-gandharva-cāraṇāḥ dānavaiḥ saha.. 30..
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः। व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः॥ ३१॥
रामम् आर्तम् तदा दृष्ट्वा सिद्धाः च परम-ऋषयः। व्यथिताः वानर-इन्द्राः च बभूवुः स विभीषणाः॥ ३१॥
rāmam ārtam tadā dṛṣṭvā siddhāḥ ca parama-ṛṣayaḥ. vyathitāḥ vānara-indrāḥ ca babhūvuḥ sa vibhīṣaṇāḥ.. 31..
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा। प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्॥ ३२॥
राम-चन्द्रमसम् दृष्ट्वा ग्रस्तम् रावण-राहुणा। प्राजापत्यम् च नक्षत्रम् रोहिणीम् शशिनः प्रियाम्॥ ३२॥
rāma-candramasam dṛṣṭvā grastam rāvaṇa-rāhuṇā. prājāpatyam ca nakṣatram rohiṇīm śaśinaḥ priyām.. 32..
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः। सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः॥ ३३॥
समाक्रम्य बुधः तस्थौ प्रजानाम् अहित-आवहः। स धूम-परिवृर्त्त-ऊमिः प्रज्वलन् इव सागरः॥ ३३॥
samākramya budhaḥ tasthau prajānām ahita-āvahaḥ. sa dhūma-parivṛrtta-ūmiḥ prajvalan iva sāgaraḥ.. 33..
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्। शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः॥ ३४॥
उत्पपात तदा क्रुद्धः स्पृशन् इव दिवाकरम्। शस्त्र-वर्णः सु परुषः मन्द-रश्मिः दिवाकरः॥ ३४॥
utpapāta tadā kruddhaḥ spṛśan iva divākaram. śastra-varṇaḥ su paruṣaḥ manda-raśmiḥ divākaraḥ.. 34..
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना। कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्॥ ३५॥
अदृश्यत कबन्ध-अङ्कः संसक्तः धूमकेतुना। कोसलानाम् च नक्षत्रम् व्यक्तम् इन्द्र-अग्नि-दैवतम्॥ ३५॥
adṛśyata kabandha-aṅkaḥ saṃsaktaḥ dhūmaketunā. kosalānām ca nakṣatram vyaktam indra-agni-daivatam.. 35..
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे। दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥ ३६॥
आहत्य अङ्गारकः तस्थौ विशाखम् अपि च अम्बरे। दश-आस्यः विंशति-भुजः प्रगृहीत-शरासनः॥ ३६॥
āhatya aṅgārakaḥ tasthau viśākham api ca ambare. daśa-āsyaḥ viṃśati-bhujaḥ pragṛhīta-śarāsanaḥ.. 36..
अदृश्यत दशग्रीवो मैनाक इव पर्वतः। निरस्यमानो रामस्तु दशग्रीवेण रक्षसा॥ ३७॥
अदृश्यत दशग्रीवः मैनाकः इव पर्वतः। निरस्यमानः रामः तु दशग्रीवेण रक्षसा॥ ३७॥
adṛśyata daśagrīvaḥ mainākaḥ iva parvataḥ. nirasyamānaḥ rāmaḥ tu daśagrīveṇa rakṣasā.. 37..
नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि। स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः॥ ३८॥
न अशक्नोत् अभिसंधातुम् सायकान् रण-मूर्धनि। स कृत्वा भ्रुकुटिम् क्रुद्धः किंचिद् संरक्त-लोचनः॥ ३८॥
na aśaknot abhisaṃdhātum sāyakān raṇa-mūrdhani. sa kṛtvā bhrukuṭim kruddhaḥ kiṃcid saṃrakta-locanaḥ.. 38..
जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्। तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी॥ ३९॥
जगाम सु महा-क्रोधम् निर्दहन् इव राक्षसान्। तस्य क्रुद्धस्य वदनम् दृष्ट्वा रामस्य धीमतः। सर्व-भूतानि वित्रेसुः प्राकम्पत च मेदिनी॥ ३९॥
jagāma su mahā-krodham nirdahan iva rākṣasān. tasya kruddhasya vadanam dṛṣṭvā rāmasya dhīmataḥ. sarva-bhūtāni vitresuḥ prākampata ca medinī.. 39..
सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः। बभूव चापि क्षुभितः समुद्रः सरितां पतिः॥ ४०॥
सिंह-शार्दूलवान् शैलः संचचाल चलत् द्रुमः। बभूव च अपि क्षुभितः समुद्रः सरिताम् पतिः॥ ४०॥
siṃha-śārdūlavān śailaḥ saṃcacāla calat drumaḥ. babhūva ca api kṣubhitaḥ samudraḥ saritām patiḥ.. 40..
खराश्च खरनिर्घोषा गगने परुषा घनाः। औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः॥ ४१॥
खराः च खर-निर्घोषाः गगने परुषाः घनाः। औत्पातिकाः च नर्दन्तः समन्तात् परिचक्रमुः॥ ४१॥
kharāḥ ca khara-nirghoṣāḥ gagane paruṣāḥ ghanāḥ. autpātikāḥ ca nardantaḥ samantāt paricakramuḥ.. 41..
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान्। वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम्॥ ४२॥
रामम् दृष्ट्वा सु संक्रुद्धम् उत्पातान् च एव दारुणान्। वित्रेसुः सर्व-भूतानि रावणस्य अभवत् भयम्॥ ४२॥
rāmam dṛṣṭvā su saṃkruddham utpātān ca eva dāruṇān. vitresuḥ sarva-bhūtāni rāvaṇasya abhavat bhayam.. 42..
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः। ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः॥ ४३॥
विमान-स्थाः तदा देवाः गन्धर्वाः च महा-उरगाः। ऋषि-दानव-दैत्याः च गरुत्मन्तः च खेचराः॥ ४३॥
vimāna-sthāḥ tadā devāḥ gandharvāḥ ca mahā-uragāḥ. ṛṣi-dānava-daityāḥ ca garutmantaḥ ca khecarāḥ.. 43..
ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्। नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः॥ ४४॥
ददृशुः ते तदा युद्धम् लोक-संवर्त-संस्थितम्। नाना प्रहरणैः भीमैः शूरयोः सम्प्रयुध्यतोः॥ ४४॥
dadṛśuḥ te tadā yuddham loka-saṃvarta-saṃsthitam. nānā praharaṇaiḥ bhīmaiḥ śūrayoḥ samprayudhyatoḥ.. 44..
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः। प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्॥ ४५॥
ऊचुः सुर-असुराः सर्वे तदा विग्रहम् आगताः। प्रेक्षमाणाः महा-युद्धम् वाक्यम् भक्त्या प्रहृष्ट-वत्॥ ४५॥
ūcuḥ sura-asurāḥ sarve tadā vigraham āgatāḥ. prekṣamāṇāḥ mahā-yuddham vākyam bhaktyā prahṛṣṭa-vat.. 45..
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः। देवा राममथोचुस्ते त्वं जयेति पुनः पुनः॥ ४६॥
दशग्रीवम् जय इति आहुः असुराः समवस्थिताः। देवाः रामम् अथ ऊचुः ते त्वम् जय इति पुनर् पुनर्॥ ४६॥
daśagrīvam jaya iti āhuḥ asurāḥ samavasthitāḥ. devāḥ rāmam atha ūcuḥ te tvam jaya iti punar punar.. 46..
एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः। प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्॥ ४७॥
एतस्मिन् अन्तरे क्रोधात् राघवस्य च रावणः। प्रहर्तु-कामः दुष्ट-आत्मा स्पृशन् प्रहरणम् महत्॥ ४७॥
etasmin antare krodhāt rāghavasya ca rāvaṇaḥ. prahartu-kāmaḥ duṣṭa-ātmā spṛśan praharaṇam mahat.. 47..
वज्रसारं महानादं सर्वशत्रुनिबर्हणम्। शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम्॥ ४८॥
वज्र-सारम् महा-नादम् सर्व-शत्रु-निबर्हणम्। शैल-शृङ्ग-निभैः कूटैः चित्त-दृष्टि-भय-आवहम्॥ ४८॥
vajra-sāram mahā-nādam sarva-śatru-nibarhaṇam. śaila-śṛṅga-nibhaiḥ kūṭaiḥ citta-dṛṣṭi-bhaya-āvaham.. 48..
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्। अतिरौद्रमनासाद्यं कालेनापि दुरासदम्॥ ४९॥
स धूमम् इव तीक्ष्ण-अग्रम् युगान्त-अग्नि-चय-उपमम्। अति रौद्रम् अनासाद्यम् कालेन अपि दुरासदम्॥ ४९॥
sa dhūmam iva tīkṣṇa-agram yugānta-agni-caya-upamam. ati raudram anāsādyam kālena api durāsadam.. 49..
त्रासनं सर्वभूतानां दारणं भेदनं तथा। प्रदीप्त इव रोषेण शूलं जग्राह रावणः॥ ५०॥
त्रासनम् सर्व-भूतानाम् दारणम् भेदनम् तथा। प्रदीप्तः इव रोषेण शूलम् जग्राह रावणः॥ ५०॥
trāsanam sarva-bhūtānām dāraṇam bhedanam tathā. pradīptaḥ iva roṣeṇa śūlam jagrāha rāvaṇaḥ.. 50..
तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान्। अनीकैः समरे शूरै राक्षसैः परिवारितः॥ ५१॥
तत् शूलम् परम-क्रुद्धः जग्राह युधि वीर्यवान्। अनीकैः समरे शूरैः राक्षसैः परिवारितः॥ ५१॥
tat śūlam parama-kruddhaḥ jagrāha yudhi vīryavān. anīkaiḥ samare śūraiḥ rākṣasaiḥ parivāritaḥ.. 51..
समुद्यम्य महाकायो ननाद युधि भैरवम्। संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन्॥ ५२॥
समुद्यम्य महा-कायः ननाद युधि भैरवम्। संरक्त-नयनः रोषात् स्व-सैन्यम् अभिहर्षयन्॥ ५२॥
samudyamya mahā-kāyaḥ nanāda yudhi bhairavam. saṃrakta-nayanaḥ roṣāt sva-sainyam abhiharṣayan.. 52..
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा। प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः॥ ५३॥
पृथिवीम् च अन्तरिक्षम् च दिशः च प्रदिशः तथा। प्राकम्पयत् तदा शब्दः राक्षस-इन्द्रस्य दारुणः॥ ५३॥
pṛthivīm ca antarikṣam ca diśaḥ ca pradiśaḥ tathā. prākampayat tadā śabdaḥ rākṣasa-indrasya dāruṇaḥ.. 53..
अतिकायस्य नादेन तेन तस्य दुरात्मनः। सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे॥ ५४॥
अतिकायस्य नादेन तेन तस्य दुरात्मनः। सर्व-भूतानि वित्रेसुः सागरः च प्रचुक्षुभे॥ ५४॥
atikāyasya nādena tena tasya durātmanaḥ. sarva-bhūtāni vitresuḥ sāgaraḥ ca pracukṣubhe.. 54..
स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्। विनद्य सुमहानादं रामं परुषमब्रवीत्॥ ५५॥
स गृहीत्वा महा-वीर्यः शूलम् तत् रावणः महत्। विनद्य सु महा-नादम् रामम् परुषम् अब्रवीत्॥ ५५॥
sa gṛhītvā mahā-vīryaḥ śūlam tat rāvaṇaḥ mahat. vinadya su mahā-nādam rāmam paruṣam abravīt.. 55..
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति॥ ५६॥
शूलः अयम् वज्र-सारः ते राम रोषात् मया उद्यतः। तव भ्रातृ-सहायस्य सद्यस् प्राणान् हरिष्यति॥ ५६॥
śūlaḥ ayam vajra-sāraḥ te rāma roṣāt mayā udyataḥ. tava bhrātṛ-sahāyasya sadyas prāṇān hariṣyati.. 56..
रक्षसामद्य शूराणां निहतानां चमूमुखे। त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्॥ ५७॥
रक्षसाम् अद्य शूराणाम् निहतानाम् चमू-मुखे। त्वाम् निहत्य रण-श्लाघिन् करोमि तरसा समम्॥ ५७॥
rakṣasām adya śūrāṇām nihatānām camū-mukhe. tvām nihatya raṇa-ślāghin karomi tarasā samam.. 57..
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव। एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः॥ ५८॥
तिष्ठ इदानीम् निहन्मि त्वाम् एष शूलेन राघव। एवम् उक्त्वा स चिक्षेप तत् शूलम् राक्षस-अधिपः॥ ५८॥
tiṣṭha idānīm nihanmi tvām eṣa śūlena rāghava. evam uktvā sa cikṣepa tat śūlam rākṣasa-adhipaḥ.. 58..
तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम्। अष्टघण्टं महानादं वियद्गतमशोभत॥ ५९॥
तत् रावण-करात् मुक्तम् विद्युत्-माला-समावृतम्। अष्ट-घण्टम् महा-नादम् वियत्-गतम् अशोभत॥ ५९॥
tat rāvaṇa-karāt muktam vidyut-mālā-samāvṛtam. aṣṭa-ghaṇṭam mahā-nādam viyat-gatam aśobhata.. 59..
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्। ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान्॥ ६०॥
तत् शूलम् राघवः दृष्ट्वा ज्वलन्तम् घोर-दर्शनम्। ससर्ज विशिखान् रामः चापम् आयम्य वीर्यवान्॥ ६०॥
tat śūlam rāghavaḥ dṛṣṭvā jvalantam ghora-darśanam. sasarja viśikhān rāmaḥ cāpam āyamya vīryavān.. 60..
आपतन्तं शरौघेण वारयामास राघवः। उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः॥ ६१॥
आपतन्तम् शर-ओघेण वारयामास राघवः। उत्पतन्तम् युगान्त-अग्निम् जल-ओघैः इव वासवः॥ ६१॥
āpatantam śara-ogheṇa vārayāmāsa rāghavaḥ. utpatantam yugānta-agnim jala-oghaiḥ iva vāsavaḥ.. 61..
निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्। रावणस्य महान् शूलः पतङ्गानिव पावकः॥ ६२॥
निर्ददाह स तान् बाणान् राम-कार्मुक-निःसृतान्। रावणस्य महान् शूलः पतङ्गान् इव पावकः॥ ६२॥
nirdadāha sa tān bāṇān rāma-kārmuka-niḥsṛtān. rāvaṇasya mahān śūlaḥ pataṅgān iva pāvakaḥ.. 62..
तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान्। सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत्॥ ६३॥
तान् दृष्ट्वा भस्मसात् भूतान् शूल-संस्पर्श-चूर्णितान्। सायकान् अन्तरिक्ष-स्थान् राघवः क्रोधम् आहरत्॥ ६३॥
tān dṛṣṭvā bhasmasāt bhūtān śūla-saṃsparśa-cūrṇitān. sāyakān antarikṣa-sthān rāghavaḥ krodham āharat.. 63..
स तां मातलिना नीतां शक्तिं वासवसम्मताम्। जग्राह परमक्रुद्धो राघवो रघुनन्दनः॥ ६४॥
स ताम् मातलिना नीताम् शक्तिम् वासव-सम्मताम्। जग्राह परम-क्रुद्धः राघवः रघुनन्दनः॥ ६४॥
sa tām mātalinā nītām śaktim vāsava-sammatām. jagrāha parama-kruddhaḥ rāghavaḥ raghunandanaḥ.. 64..
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना। नभः प्रज्वालयामास युगान्तोल्केव सप्रभा॥ ६५॥
सा तोलिता बलवता शक्तिः घण्टा-कृत-स्वना। नभः प्रज्वालयामास युग-अन्त-उल्का इव स प्रभा॥ ६५॥
sā tolitā balavatā śaktiḥ ghaṇṭā-kṛta-svanā. nabhaḥ prajvālayāmāsa yuga-anta-ulkā iva sa prabhā.. 65..
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह। भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः॥ ६६॥
सा क्षिप्ता राक्षस-इन्द्रस्य तस्मिन् शूले पपात ह। भिन्नः शक्त्या महान् शूलः निपपात गत-द्युतिः॥ ६६॥
sā kṣiptā rākṣasa-indrasya tasmin śūle papāta ha. bhinnaḥ śaktyā mahān śūlaḥ nipapāta gata-dyutiḥ.. 66..
निर्बिभेद ततो बाणैर्हयानस्य महाजवान्। रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः॥ ६७॥
निर्बिभेद ततस् बाणैः हयानस्य महा-जवान्। रामः तीक्ष्णैः महा-वेगैः वज्र-कल्पैः अजिह्मगैः॥ ६७॥
nirbibheda tatas bāṇaiḥ hayānasya mahā-javān. rāmaḥ tīkṣṇaiḥ mahā-vegaiḥ vajra-kalpaiḥ ajihmagaiḥ.. 67..
निर्बिभेदोरसि तदा रावणं निशितैः शरैः। राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः॥ ६८॥
निर्बिभेद उरसि तदा रावणम् निशितैः शरैः। राघवः परम-आयत्तः ललाटे पत्त्रिभिः त्रिभिः॥ ६८॥
nirbibheda urasi tadā rāvaṇam niśitaiḥ śaraiḥ. rāghavaḥ parama-āyattaḥ lalāṭe pattribhiḥ tribhiḥ.. 68..
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः। राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ॥ ६९॥
स शरैः भिन्न-सर्व-अङ्गः गात्र-प्रस्रुत-शोणितः। राक्षस-इन्द्रः समूह-स्थः फुल्ल-अशोकः इव आबभौ॥ ६९॥
sa śaraiḥ bhinna-sarva-aṅgaḥ gātra-prasruta-śoṇitaḥ. rākṣasa-indraḥ samūha-sthaḥ phulla-aśokaḥ iva ābabhau.. 69..
स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः। जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम्॥ ७०॥
स राम-बाणैः अतिविद्ध-गात्रः निशाचर-इन्द्रः क्षतज-आर्द्र-गात्रः। जगाम खेदम् च समाज-मध्ये क्रोधम् च चक्रे सु भृशम् तदानीम्॥ ७०॥
sa rāma-bāṇaiḥ atividdha-gātraḥ niśācara-indraḥ kṣataja-ārdra-gātraḥ. jagāma khedam ca samāja-madhye krodham ca cakre su bhṛśam tadānīm.. 70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In