This overlay will guide you through the buttons:

| |
|
स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो भृशम्। रावणः समरश्लाघी महाक्रोधमुपागमत्॥ १॥
स तु तेन तदा क्रोधात् काकुत्स्थेन अर्दितः भृशम्। रावणः समर-श्लाघी महा-क्रोधम् उपागमत्॥ १॥
sa tu tena tadā krodhāt kākutsthena arditaḥ bhṛśam. rāvaṇaḥ samara-ślāghī mahā-krodham upāgamat.. 1..
स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान्। अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे॥ २॥
स दीप्त-नयनः अमर्षात् चापम् उद्यम्य वीर्यवान्। अभ्यर्दयत् सु संक्रुद्धः राघवम् परम-आहवे॥ २॥
sa dīpta-nayanaḥ amarṣāt cāpam udyamya vīryavān. abhyardayat su saṃkruddhaḥ rāghavam parama-āhave.. 2..
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्। राघवं रावणो बाणैस्तटाकमिव पूरयन्॥ ३॥
बाण-धारा-सहस्रैः तैः स तोयदः इव अम्बरात्। राघवम् रावणः बाणैः तटाकम् इव पूरयन्॥ ३॥
bāṇa-dhārā-sahasraiḥ taiḥ sa toyadaḥ iva ambarāt. rāghavam rāvaṇaḥ bāṇaiḥ taṭākam iva pūrayan.. 3..
पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते॥ ४॥
पूरितः शर-जालेन धनुः-मुक्तेन संयुगे। महा-गिरिः इव अकम्प्यः काकुत्स्थः न प्रकम्पते॥ ४॥
pūritaḥ śara-jālena dhanuḥ-muktena saṃyuge. mahā-giriḥ iva akampyaḥ kākutsthaḥ na prakampate.. 4..
स शरैः शरजालानि वारयन् समरे स्थितः। गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ५॥
स शरैः शर-जालानि वारयन् समरे स्थितः। गभस्तीन् इव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ५॥
sa śaraiḥ śara-jālāni vārayan samare sthitaḥ. gabhastīn iva sūryasya pratijagrāha vīryavān.. 5..
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः। निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥ ६॥
ततस् शर-सहस्राणि क्षिप्र-हस्तः निशाचरः। निजघान उरसि क्रुद्धः राघवस्य महात्मनः॥ ६॥
tatas śara-sahasrāṇi kṣipra-hastaḥ niśācaraḥ. nijaghāna urasi kruddhaḥ rāghavasya mahātmanaḥ.. 6..
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः॥ ७॥
स शोणित-समादिग्धः समरे लक्ष्मण-अग्रजः। दृष्टः फुल्लः इव अरण्ये सु महान् किंशुक-द्रुमः॥ ७॥
sa śoṇita-samādigdhaḥ samare lakṣmaṇa-agrajaḥ. dṛṣṭaḥ phullaḥ iva araṇye su mahān kiṃśuka-drumaḥ.. 7..
शराभिघातसंरब्धः सोऽभिजग्राह सायकान्। काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः॥ ८॥
शर-अभिघात-संरब्धः सः अभिजग्राह सायकान्। काकुत्स्थः सु महा-तेजाः युग-अन्त-आदित्य-वर्चसः॥ ८॥
śara-abhighāta-saṃrabdhaḥ saḥ abhijagrāha sāyakān. kākutsthaḥ su mahā-tejāḥ yuga-anta-āditya-varcasaḥ.. 8..
ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ। शरान्धकारे समरे नोपलक्षयतां तदा॥ ९॥
ततस् अन्योन्यम् सु संरब्धौ तौ उभौ राम-रावणौ। शर-अन्धकारे समरे न उपलक्षयताम् तदा॥ ९॥
tatas anyonyam su saṃrabdhau tau ubhau rāma-rāvaṇau. śara-andhakāre samare na upalakṣayatām tadā.. 9..
ततः क्रोधसमाविष्टो रामो दशरथात्मजः। उवाच रावणं वीरः प्रहस्य परुषं वचः॥ १०॥
ततस् क्रोध-समाविष्टः रामः दशरथ-आत्मजः। उवाच रावणम् वीरः प्रहस्य परुषम् वचः॥ १०॥
tatas krodha-samāviṣṭaḥ rāmaḥ daśaratha-ātmajaḥ. uvāca rāvaṇam vīraḥ prahasya paruṣam vacaḥ.. 10..
मम भार्या जनस्थानादज्ञानाद् राक्षसाधम। हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान्॥ ११॥
मम भार्या जनस्थानात् अज्ञानात् राक्षस-अधम। हृता ते विवशा यस्मात् तस्मात् त्वम् न असि वीर्यवान्॥ ११॥
mama bhāryā janasthānāt ajñānāt rākṣasa-adhama. hṛtā te vivaśā yasmāt tasmāt tvam na asi vīryavān.. 11..
मया विरहितां दीनां वर्तमानां महावने। वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे॥ १२॥
मया विरहिताम् दीनाम् वर्तमानाम् महा-वने। वैदेहीम् प्रसभम् हृत्वा शूरः अहम् इति मन्यसे॥ १२॥
mayā virahitām dīnām vartamānām mahā-vane. vaidehīm prasabham hṛtvā śūraḥ aham iti manyase.. 12..
स्त्रीषु शूर विनाथासु परदाराभिमर्शनम्। कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे॥ १३॥
स्त्रीषु शूर विनाथासु परदार-अभिमर्शनम्। कृत्वा कापुरुषम् कर्म शूरः अहम् इति मन्यसे॥ १३॥
strīṣu śūra vināthāsu paradāra-abhimarśanam. kṛtvā kāpuruṣam karma śūraḥ aham iti manyase.. 13..
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित। दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे॥ १४॥
भिन्न-मर्याद निर्लज्ज चारित्रेषु अनवस्थित। दर्पात् मृत्युम् उपादाय शूरः अहम् इति मन्यसे॥ १४॥
bhinna-maryāda nirlajja cāritreṣu anavasthita. darpāt mṛtyum upādāya śūraḥ aham iti manyase.. 14..
शूरेण धनदभ्रात्रा बलैः समुदितेन च। श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया॥ १५॥
शूरेण धनद-भ्रात्रा बलैः समुदितेन च। श्लाघनीयम् महत् कर्म यशस्यम् च कृतम् त्वया॥ १५॥
śūreṇa dhanada-bhrātrā balaiḥ samuditena ca. ślāghanīyam mahat karma yaśasyam ca kṛtam tvayā.. 15..
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च। कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्॥ १६॥
उत्सेकेन अभिपन्नस्य गर्हितस्य अहितस्य च। कर्मणः प्राप्नुहि इदानीम् तस्य अद्य सु महत् फलम्॥ १६॥
utsekena abhipannasya garhitasya ahitasya ca. karmaṇaḥ prāpnuhi idānīm tasya adya su mahat phalam.. 16..
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते। नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः॥ १७॥
शूरः अहम् इति च आत्मानम् अवगच्छसि दुर्मते। ना एव लज्जा अस्ति ते सीताम् चौर-वत् व्यपकर्षतः॥ १७॥
śūraḥ aham iti ca ātmānam avagacchasi durmate. nā eva lajjā asti te sītām caura-vat vyapakarṣataḥ.. 17..
यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात्। भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥ १८॥
यदि मद्-संनिधौ सीता धर्षिता स्यात् त्वया बलात्। भ्रातरम् तु खरम् पश्येः तदा मद्-सायकैः हतः॥ १८॥
yadi mad-saṃnidhau sītā dharṣitā syāt tvayā balāt. bhrātaram tu kharam paśyeḥ tadā mad-sāyakaiḥ hataḥ.. 18..
दिष्ट्यासि मम मन्दात्मंश्चक्षुर्विषयमागतः। अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्॥ १९॥
दिष्ट्या असि मम मन्द-आत्मन् चक्षुः-विषयम् आगतः। अद्य त्वाम् सायकैः तीक्ष्णैः नयामि यम-सादनम्॥ १९॥
diṣṭyā asi mama manda-ātman cakṣuḥ-viṣayam āgataḥ. adya tvām sāyakaiḥ tīkṣṇaiḥ nayāmi yama-sādanam.. 19..
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्। क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ २०॥
अद्य ते मद्-शरैः छिन्नम् शिरः ज्वलित-कुण्डलम्। क्रव्यादाः व्यपकर्षन्तु विकीर्णम् रण-पांसुषु॥ २०॥
adya te mad-śaraiḥ chinnam śiraḥ jvalita-kuṇḍalam. kravyādāḥ vyapakarṣantu vikīrṇam raṇa-pāṃsuṣu.. 20..
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम्॥ २१॥
निपत्य उरसि गृध्राः ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरम् तर्षात् बाण-शल्य-अन्तर-उत्थितम्॥ २१॥
nipatya urasi gṛdhrāḥ te kṣitau kṣiptasya rāvaṇa. pibantu rudhiram tarṣāt bāṇa-śalya-antara-utthitam.. 21..
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते। कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्॥ २२॥
अद्य मद्-बाण-भिन्नस्य गतासोः पतितस्य ते। कर्षन् तु अन्त्राणि पतगाः गरुत्मन्तः इव उरगान्॥ २२॥
adya mad-bāṇa-bhinnasya gatāsoḥ patitasya te. karṣan tu antrāṇi patagāḥ garutmantaḥ iva uragān.. 22..
इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः। राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत्॥ २३॥
इति एवम् स वदन् वीरः रामः शत्रु-निबर्हणः। राक्षस-इन्द्रम् समीप-स्थम् शर-वर्षैः अवाकिरत्॥ २३॥
iti evam sa vadan vīraḥ rāmaḥ śatru-nibarhaṇaḥ. rākṣasa-indram samīpa-stham śara-varṣaiḥ avākirat.. 23..
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे। रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः॥ २४॥
बभूव द्विगुणम् वीर्यम् बलम् हर्षः च संयुगे। रामस्य अस्त्र-बलम् च एव शत्रोः निधन-कांक्षिणः॥ २४॥
babhūva dviguṇam vīryam balam harṣaḥ ca saṃyuge. rāmasya astra-balam ca eva śatroḥ nidhana-kāṃkṣiṇaḥ.. 24..
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः। प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्॥ २५॥
प्रादुर्बभूवुः अस्त्राणि सर्वाणि विदित-आत्मनः। प्रहर्षात् च महा-तेजाः शीघ्रहस्ततरः अभवत्॥ २५॥
prādurbabhūvuḥ astrāṇi sarvāṇi vidita-ātmanaḥ. praharṣāt ca mahā-tejāḥ śīghrahastataraḥ abhavat.. 25..
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दयद् रामो रावणं राक्षसान्तकृत्॥ २६॥
शुभानि एतानि चिह्नानि विज्ञाय आत्म-गतानि सः। भूयस् एव अर्दयत् रामः रावणम् राक्षस-अन्त-कृत्॥ २६॥
śubhāni etāni cihnāni vijñāya ātma-gatāni saḥ. bhūyas eva ardayat rāmaḥ rāvaṇam rākṣasa-anta-kṛt.. 26..
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्। हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्॥ २७॥
हरीणाम् च अश्म-निकरैः शर-वर्षैः च राघवात्। हन्यमानः दशग्रीवः विघूर्ण-हृदयः अभवत्॥ २७॥
harīṇām ca aśma-nikaraiḥ śara-varṣaiḥ ca rāghavāt. hanyamānaḥ daśagrīvaḥ vighūrṇa-hṛdayaḥ abhavat.. 27..
यदा च शस्त्रं नारेभे न चकर्ष शरासनम्। नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना॥ २८॥
यदा च शस्त्रम् न आरेभे न चकर्ष शरासनम्। न अस्य प्रत्यकरोत् वीर्यम् विक्लवेन अन्तरात्मना॥ २८॥
yadā ca śastram na ārebhe na cakarṣa śarāsanam. na asya pratyakarot vīryam viklavena antarātmanā.. 28..
क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च। मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत॥ २९॥
क्षिप्ताः च आशु शराः तेन शस्त्राणि विविधानि च। मरण-अर्थाय वर्तन्ते मृत्यु-कालः अभ्यवर्तत॥ २९॥
kṣiptāḥ ca āśu śarāḥ tena śastrāṇi vividhāni ca. maraṇa-arthāya vartante mṛtyu-kālaḥ abhyavartata.. 29..
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्। शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत्॥ ३०॥
सूतः तु रथ-नेता अस्य तद्-अवस्थम् निरीक्ष्य तम्। शनैस् युद्धात् असम्भ्रान्तः रथम् तस्य अपवाहयत्॥ ३०॥
sūtaḥ tu ratha-netā asya tad-avastham nirīkṣya tam. śanais yuddhāt asambhrāntaḥ ratham tasya apavāhayat.. 30..
रथं च तस्याथ जवेन सारथि- र्निवार्य भीमं जलदस्वनं तदा। जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य॥ ३१॥
रथम् च तस्य अथ जवेन सारथिः निवार्य भीमम् जलद-स्वनम् तदा। जगाम भीत्या समरात् महीपतिम् निरस्त-वीर्यम् पतितम् समीक्ष्य॥ ३१॥
ratham ca tasya atha javena sārathiḥ nivārya bhīmam jalada-svanam tadā. jagāma bhītyā samarāt mahīpatim nirasta-vīryam patitam samīkṣya.. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In