This overlay will guide you through the buttons:

| |
|
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्॥ १॥
स तु मोहात् सु संक्रुद्धः कृतान्त-बल-चोदितः। क्रोध-संरक्त-नयनः रावणः सूतम् अब्रवीत्॥ १॥
sa tu mohāt su saṃkruddhaḥ kṛtānta-bala-coditaḥ. krodha-saṃrakta-nayanaḥ rāvaṇaḥ sūtam abravīt.. 1..
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्। भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा॥ २॥
हीन-वीर्यम् इव अशक्तम् पौरुषेण विवर्जितम्। भीरुम् लघुम् इव असत्त्वम् विहीनम् इव तेजसा॥ २॥
hīna-vīryam iva aśaktam pauruṣeṇa vivarjitam. bhīrum laghum iva asattvam vihīnam iva tejasā.. 2..
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्। मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३॥
विमुक्तम् इव मायाभिः अस्त्रैः इव बहिष्कृतम्। माम् अवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३॥
vimuktam iva māyābhiḥ astraiḥ iva bahiṣkṛtam. mām avajñāya durbuddhe svayā buddhyā viceṣṭase.. 3..
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ ४॥
किमर्थम् माम् अवज्ञाय मद्-छन्दम् अन् अवेक्ष्य च। त्वया शत्रु-समक्षम् मे रथः अयम् अपवाहितः॥ ४॥
kimartham mām avajñāya mad-chandam an avekṣya ca. tvayā śatru-samakṣam me rathaḥ ayam apavāhitaḥ.. 4..
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५॥
त्वया अद्य हि मम अनार्य चिर-कालम् उपार्जितम्। यशः वीर्यम् च तेजः च प्रत्ययः च विनाशितः॥ ५॥
tvayā adya hi mama anārya cira-kālam upārjitam. yaśaḥ vīryam ca tejaḥ ca pratyayaḥ ca vināśitaḥ.. 5..
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया॥ ६॥
शत्रोः प्रख्यात-वीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतः युद्ध-लुब्धः अहम् कृतः कापुरुषः त्वया॥ ६॥
śatroḥ prakhyāta-vīryasya rañjanīyasya vikramaiḥ. paśyataḥ yuddha-lubdhaḥ aham kṛtaḥ kāpuruṣaḥ tvayā.. 6..
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते। सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः॥ ७॥
यत् त्वम् कथम् इदम् मोहात् न चेद् वहसि दुर्मते। सत्यः अयम् प्रतितर्कः मे परेण त्वम् उपस्कृतः॥ ७॥
yat tvam katham idam mohāt na ced vahasi durmate. satyaḥ ayam pratitarkaḥ me pareṇa tvam upaskṛtaḥ.. 7..
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः। रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्॥ ८॥
नहि तत् विद्यते कर्म सुहृदः हित-कांक्षिणः। रिपूणाम् सदृशम् तु एतत् यत् त्वया एतत् अनुष्ठितम्॥ ८॥
nahi tat vidyate karma suhṛdaḥ hita-kāṃkṣiṇaḥ. ripūṇām sadṛśam tu etat yat tvayā etat anuṣṭhitam.. 8..
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः। यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः॥ ९॥
निवर्तय रथम् शीघ्रम् यावत् न अपैति मे रिपुः। यदि वा अध्युषितः असि त्वम् स्मर्यते यदि मे गुणः॥ ९॥
nivartaya ratham śīghram yāvat na apaiti me ripuḥ. yadi vā adhyuṣitaḥ asi tvam smaryate yadi me guṇaḥ.. 9..
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना। अब्रवीद् रावणं सूतो हितं सानुनयं वचः॥ १०॥
एवम् परुष-मुक्तः तु हित-बुद्धिः अबुद्धिना। अब्रवीत् रावणम् सूतः हितम् स अनुनयम् वचः॥ १०॥
evam paruṣa-muktaḥ tu hita-buddhiḥ abuddhinā. abravīt rāvaṇam sūtaḥ hitam sa anunayam vacaḥ.. 10..
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः। न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ ११॥
न भीतः अस्मि न मूढः अस्मि न उपजप्तः अस्मि शत्रुभिः। न प्रमत्तः न निःस्नेहः विस्मृता न च सत्क्रिया॥ ११॥
na bhītaḥ asmi na mūḍhaḥ asmi na upajaptaḥ asmi śatrubhiḥ. na pramattaḥ na niḥsnehaḥ vismṛtā na ca satkriyā.. 11..
मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्॥ १२॥
मया तु हित-कामेन यशः च परिरक्षता। स्नेह-प्रस्कन्न-मनसा हितम् इति अप्रियम् कृतम्॥ १२॥
mayā tu hita-kāmena yaśaḥ ca parirakṣatā. sneha-praskanna-manasā hitam iti apriyam kṛtam.. 12..
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि॥ १३॥
न अस्मिन् अर्थे महा-राज त्वम् माम् प्रिय-हिते रतम्। कश्चिद् लघुः इव अनार्यः दोषतः गन्तुम् अर्हसि॥ १३॥
na asmin arthe mahā-rāja tvam mām priya-hite ratam. kaścid laghuḥ iva anāryaḥ doṣataḥ gantum arhasi.. 13..
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ १४॥
श्रूयताम् प्रति दास्यामि यत् निमित्तम् मया रथः। नदी-वेगः इव अम्भोभिः संयुगे विनिवर्तितः॥ १४॥
śrūyatām prati dāsyāmi yat nimittam mayā rathaḥ. nadī-vegaḥ iva ambhobhiḥ saṃyuge vinivartitaḥ.. 14..
श्रमं तवावगच्छामि महता रणकर्मणा। नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये॥ १५॥
श्रमम् तव अवगच्छामि महता रण-कर्मणा। नहि ते वीर्य-सौमुख्यम् प्रकर्षम् न उपधारये॥ १५॥
śramam tava avagacchāmi mahatā raṇa-karmaṇā. nahi te vīrya-saumukhyam prakarṣam na upadhāraye.. 15..
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः। दीना घर्मपरिश्रान्ता गावो वर्षहता इव॥ १६॥
रथ-उद्वहन-खिन्नाः च भग्नाः मे रथ-वाजिनः। दीनाः घर्म-परिश्रान्ताः गावः वर्ष-हताः इव॥ १६॥
ratha-udvahana-khinnāḥ ca bhagnāḥ me ratha-vājinaḥ. dīnāḥ gharma-pariśrāntāḥ gāvaḥ varṣa-hatāḥ iva.. 16..
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्॥ १७॥
निमित्तानि च भूयिष्ठम् यानि प्रादुर्भवन्ति नः। तेषु तेषु अभिपन्नेषु लक्षयामि अप्रदक्षिणम्॥ १७॥
nimittāni ca bhūyiṣṭham yāni prādurbhavanti naḥ. teṣu teṣu abhipanneṣu lakṣayāmi apradakṣiṇam.. 17..
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च। दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्॥ १८॥
देश-कालौ च विज्ञेयौ लक्षणानि इङ्गितानि च। दैन्यम् हर्षः च खेदः च रथिनः च बलाबलम्॥ १८॥
deśa-kālau ca vijñeyau lakṣaṇāni iṅgitāni ca. dainyam harṣaḥ ca khedaḥ ca rathinaḥ ca balābalam.. 18..
स्थलनिम्नानि भूमेश्च समानि विषमाणि च। युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्॥ १९॥
स्थल-निम्नानि भूमेः च समानि विषमाणि च। युद्ध-कालः च विज्ञेयः परस्य अन्तर-दर्शनम्॥ १९॥
sthala-nimnāni bhūmeḥ ca samāni viṣamāṇi ca. yuddha-kālaḥ ca vijñeyaḥ parasya antara-darśanam.. 19..
उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना॥ २०॥
उपयान-अपयाने च स्थानम् प्रत्यपसर्पणम्। सर्वम् एतत् रथ-स्थेन ज्ञेयम् रथकुटुम्बिना॥ २०॥
upayāna-apayāne ca sthānam pratyapasarpaṇam. sarvam etat ratha-sthena jñeyam rathakuṭumbinā.. 20..
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ २१॥
तव विश्राम-हेतोः तु तथा एषाम् रथ-वाजिनाम्। रौद्रम् वर्जयता खेदम् क्षमम् कृतम् इदम् मया॥ २१॥
tava viśrāma-hetoḥ tu tathā eṣām ratha-vājinām. raudram varjayatā khedam kṣamam kṛtam idam mayā.. 21..
स्वेच्छया न मया वीर रथोऽयमपवाहितः। भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो॥ २२॥
स्व-इच्छया न मया वीर रथः अयम् अपवाहितः। भर्तुः स्नेह-परीतेन मया इदम् यत् कृतम् प्रभो॥ २२॥
sva-icchayā na mayā vīra rathaḥ ayam apavāhitaḥ. bhartuḥ sneha-parītena mayā idam yat kṛtam prabho.. 22..
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन। तत् करिष्याम्यहं वीर गतानृण्येन चेतसा॥ २३॥
आज्ञापय यथातत्त्वम् वक्ष्यसि अरि-निषूदन। तत् करिष्यामि अहम् वीर गत-अनृण्येन चेतसा॥ २३॥
ājñāpaya yathātattvam vakṣyasi ari-niṣūdana. tat kariṣyāmi aham vīra gata-anṛṇyena cetasā.. 23..
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ २४॥
संतुष्टः तेन वाक्येन रावणः तस्य सारथेः। प्रशस्य एनम् बहुविधम् युद्ध-लुब्धः अब्रवीत् इदम्॥ २४॥
saṃtuṣṭaḥ tena vākyena rāvaṇaḥ tasya sāratheḥ. praśasya enam bahuvidham yuddha-lubdhaḥ abravīt idam.. 24..
रथं शीघ्रमिमं सूत राघवाभिमुखं नय। नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः॥ २५॥
रथम् शीघ्रम् इमम् सूत राघव-अभिमुखम् नय। न अ हत्वा समरे शत्रून् निवर्तिष्यति रावणः॥ २५॥
ratham śīghram imam sūta rāghava-abhimukham naya. na a hatvā samare śatrūn nivartiṣyati rāvaṇaḥ.. 25..
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः। ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्। श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत॥ २६॥
एवम् उक्त्वा रथ-स्थस्य रावणः राक्षसेश्वरः। ददौ तस्य शुभम् हि एकम् हस्त-आभरणम् उत्तमम्। श्रुत्वा रावण-वाक्यानि सारथिः संन्यवर्तत॥ २६॥
evam uktvā ratha-sthasya rāvaṇaḥ rākṣaseśvaraḥ. dadau tasya śubham hi ekam hasta-ābharaṇam uttamam. śrutvā rāvaṇa-vākyāni sārathiḥ saṃnyavartata.. 26..
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः। स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्॥ २७॥
ततस् द्रुतम् रावण-वाक्य-चोदितः प्रचोदयामास हयान् स सारथिः। स राक्षस-इन्द्रस्य ततस् महा-रथः क्षणेन रामस्य रण-अग्रतस् अभवत्॥ २७॥
tatas drutam rāvaṇa-vākya-coditaḥ pracodayāmāsa hayān sa sārathiḥ. sa rākṣasa-indrasya tatas mahā-rathaḥ kṣaṇena rāmasya raṇa-agratas abhavat.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In