This overlay will guide you through the buttons:

| |
|
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥
ततस् युद्ध-परिश्रान्तम् समरे चिन्तया स्थितम्। रावणम् च अग्रतस् दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥
tatas yuddha-pariśrāntam samare cintayā sthitam. rāvaṇam ca agratas dṛṣṭvā yuddhāya samupasthitam.. 1..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपगम्याब्रवीद् राममगस्त्यो भगवानृषि॥ २॥
दैवतैः च समागम्य द्रष्टुम् अभ्यागतः रणम्। उपगम्य अब्रवीत् रामम् अगस्त्यः भगवान् ऋषिः॥ २॥
daivataiḥ ca samāgamya draṣṭum abhyāgataḥ raṇam. upagamya abravīt rāmam agastyaḥ bhagavān ṛṣiḥ.. 2..
राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसे॥ ३॥
राम राम महा-बाहो शृणु गुह्यम् सनातनम्। येन सर्वान् अरीन् वत्स समरे विजयिष्यसे॥ ३॥
rāma rāma mahā-bāho śṛṇu guhyam sanātanam. yena sarvān arīn vatsa samare vijayiṣyase.. 3..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपं नित्यमक्षयं परमं शिवम्॥ ४॥
आदित्य-हृदयम् पुण्यम् सर्व-शत्रु-विनाशनम्। जय-आवहम् जपम् नित्यम् अक्षयम् परमम् शिवम्॥ ४॥
āditya-hṛdayam puṇyam sarva-śatru-vināśanam. jaya-āvaham japam nityam akṣayam paramam śivam.. 4..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्॥ ५॥
सर्व। चिन्ता-शोक-प्रशमनम् आयुः-वर्धनम् उत्तमम्॥ ५॥
sarva. cintā-śoka-praśamanam āyuḥ-vardhanam uttamam.. 5..
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥
रश्मिमन्तम् समुद्यन्तम् देव-असुर-नमस्कृतम्। पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम्॥ ६॥
raśmimantam samudyantam deva-asura-namaskṛtam. pūjayasva vivasvantam bhāskaram bhuvaneśvaram.. 6..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥
सर्व-देव-आत्मकः हि एष तेजस्वी रश्मि-भावनः। एष देव-असुर-गणान् लोकान् पाति गभस्तिभिः॥ ७॥
sarva-deva-ātmakaḥ hi eṣa tejasvī raśmi-bhāvanaḥ. eṣa deva-asura-gaṇān lokān pāti gabhastibhiḥ.. 7..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥
एष ब्रह्मा च विष्णुः च शिवः स्कन्दः प्रजापतिः। महेन्द्रः धनदः कालः यमः सोमः हि अपाम् पतिः॥ ८॥
eṣa brahmā ca viṣṇuḥ ca śivaḥ skandaḥ prajāpatiḥ. mahendraḥ dhanadaḥ kālaḥ yamaḥ somaḥ hi apām patiḥ.. 8..
पितरो वसवः साध्या अश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः॥ ९॥
पितरः वसवः साध्याः अश्विनौ मरुतः मनुः। वायुः वह्निः प्रजाः प्राणः ऋतुकर्ता प्रभाकरः॥ ९॥
pitaraḥ vasavaḥ sādhyāḥ aśvinau marutaḥ manuḥ. vāyuḥ vahniḥ prajāḥ prāṇaḥ ṛtukartā prabhākaraḥ.. 9..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्ण-सदृशः भानुः हिरण्य-रेताः दिवाकरः॥ १०॥
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān. suvarṇa-sadṛśaḥ bhānuḥ hiraṇya-retāḥ divākaraḥ.. 10..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्॥ ११॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिः मरीचिमान्। तिमिरोन्मथनः शम्भुः त्वष्टा मार्तण्डकः ॐऽशुमान्॥ ११॥
haridaśvaḥ sahasrārciḥ saptasaptiḥ marīcimān. timironmathanaḥ śambhuḥ tvaṣṭā mārtaṇḍakaḥ oṃ'śumān.. 11..
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः। अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥
हिरण्यगर्भः शिशिरः तपनः अहस्करः रविः। अग्निगर्भः अदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥
hiraṇyagarbhaḥ śiśiraḥ tapanaḥ ahaskaraḥ raviḥ. agnigarbhaḥ aditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ.. 12..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः॥ १३॥
vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ| ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṃgamaḥ|| 13||
vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ| ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṃgamaḥ|| 13||
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः॥ १४॥
। कविः विश्वः महा-तेजाः रक्तः सर्व-भव-उद्भवः॥ १४॥
. kaviḥ viśvaḥ mahā-tejāḥ raktaḥ sarva-bhava-udbhavaḥ.. 14..
नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥
नक्षत्र-ग्रह-ताराणाम् अधिपः विश्वभावनः। तेजसाम् अपि तेजस्वी द्वादश-आत्मन् नमः अस्तु ते॥ १५॥
nakṣatra-graha-tārāṇām adhipaḥ viśvabhāvanaḥ. tejasām api tejasvī dvādaśa-ātman namaḥ astu te.. 15..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥
नमः पूर्वाय गिरये पश्चिमाय अद्रये नमः। ज्योतिः-गणानाम् पतये दिन-अधिपतये नमः॥ १६॥
namaḥ pūrvāya giraye paścimāya adraye namaḥ. jyotiḥ-gaṇānām pataye dina-adhipataye namaḥ.. 16..
जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥
जयाय जयभद्राय हर्यश्वाय नमः नमः। नमः नमः सहस्र-अंशो आदित्याय नमः नमः॥ १७॥
jayāya jayabhadrāya haryaśvāya namaḥ namaḥ. namaḥ namaḥ sahasra-aṃśo ādityāya namaḥ namaḥ.. 17..
नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥ १८॥
नमः उग्राय वीराय सारङ्गाय नमः नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमः अस्तु ते॥ १८॥
namaḥ ugrāya vīrāya sāraṅgāya namaḥ namaḥ. namaḥ padmaprabodhāya pracaṇḍāya namaḥ astu te.. 18..
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥
ब्रह्म-ईशान-अच्युत-ईशाय सूराय आदित्य-वर्चसे। भास्वते सर्व-भक्षाय रौद्राय वपुषे नमः॥ १९॥
brahma-īśāna-acyuta-īśāya sūrāya āditya-varcase. bhāsvate sarva-bhakṣāya raudrāya vapuṣe namaḥ.. 19..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥
तमः-घ्नाय हिम-घ्नाय शत्रु-घ्नाय अमित-आत्मने। कृतघ्न-घ्नाय देवाय ज्योतिषाम् पतये नमः॥ २०॥
tamaḥ-ghnāya hima-ghnāya śatru-ghnāya amita-ātmane. kṛtaghna-ghnāya devāya jyotiṣām pataye namaḥ.. 20..
तप्तचामीकराभाय हरये विश्वकर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥
तप्त-चामीकर-आभाय हरये विश्वकर्मणे। नमः तमः-अभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥
tapta-cāmīkara-ābhāya haraye viśvakarmaṇe. namaḥ tamaḥ-abhinighnāya rucaye lokasākṣiṇe.. 21..
नाशयत्येष वै भूतं तमेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥
नाशयति एष वै भूतम् तम् एव सृजति प्रभुः। पायति एष तपति एष वर्षति एष गभस्तिभिः॥ २२॥
nāśayati eṣa vai bhūtam tam eva sṛjati prabhuḥ. pāyati eṣa tapati eṣa varṣati eṣa gabhastibhiḥ.. 22..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष च एव अग्निहोत्रम् च फलम् च एव अग्निहोत्रिणाम्॥ २३॥
eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ. eṣa ca eva agnihotram ca phalam ca eva agnihotriṇām.. 23..
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥ २४॥
देवाः च क्रतवः च एव क्रतूनाम् फलम् एव च। यानि कृत्यानि लोकेषु सर्वेषु परम-प्रभुः॥ २४॥
devāḥ ca kratavaḥ ca eva kratūnām phalam eva ca. yāni kṛtyāni lokeṣu sarveṣu parama-prabhuḥ.. 24..
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥
एनम् आपत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिद् न अवसीदति राघव॥ २५॥
enam āpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca. kīrtayan puruṣaḥ kaścid na avasīdati rāghava.. 25..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति॥ २६॥
पूजयस्व एनम् एकाग्रः देवदेवम् जगत्पतिम्। एतत् त्रि-गुणितम् जप्त्वा युद्धेषु विजयिष्यति॥ २६॥
pūjayasva enam ekāgraḥ devadevam jagatpatim. etat tri-guṇitam japtvā yuddheṣu vijayiṣyati.. 26..
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि। एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्॥ २७॥
अस्मिन् क्षणे महा-बाहो रावणम् त्वम् जहिष्यसि। एवम् उक्त्वा ततस् अगस्त्यः जगाम स यथागतम्॥ २७॥
asmin kṣaṇe mahā-bāho rāvaṇam tvam jahiṣyasi. evam uktvā tatas agastyaḥ jagāma sa yathāgatam.. 27..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥
एतत् श्रुत्वा महा-तेजाः नष्ट-शोकः अभवत् तदा। धारयामास सु प्रीतः राघवः प्रयत-आत्मवान्॥ २८॥
etat śrutvā mahā-tejāḥ naṣṭa-śokaḥ abhavat tadā. dhārayāmāsa su prītaḥ rāghavaḥ prayata-ātmavān.. 28..
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥
आदित्यम् प्रेक्ष्य जप्त्वा इदम् परम् हर्षम् अवाप्तवान्। त्रिस् आचम्य शुचिः भूत्वा धनुः आदाय वीर्यवान्॥ २९॥
ādityam prekṣya japtvā idam param harṣam avāptavān. tris ācamya śuciḥ bhūtvā dhanuḥ ādāya vīryavān.. 29..
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्॥ ३०॥
रावणम् प्रेक्ष्य हृष्ट-आत्मा जय-अर्थम् समुपागमत्। सर्व-यत्नेन महता वृतः तस्य वधे अभवत्॥ ३०॥
rāvaṇam prekṣya hṛṣṭa-ātmā jaya-artham samupāgamat. sarva-yatnena mahatā vṛtaḥ tasya vadhe abhavat.. 30..
अथ रविरवदन्निरीक्ष्य रामंमुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वासुरगणमध्यगतो वचस्त्वरेति॥ ३१॥
अथ रविः अवदत् निरीक्ष्य रामम् मुदित-मनाः परमम् प्रहृष्यमाणः। निशिचर-पति-संक्षयम् विदित्वा असुर-गण-मध्य-गतः वचः त्वर इति॥ ३१॥
atha raviḥ avadat nirīkṣya rāmam mudita-manāḥ paramam prahṛṣyamāṇaḥ. niśicara-pati-saṃkṣayam viditvā asura-gaṇa-madhya-gataḥ vacaḥ tvara iti.. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In