This overlay will guide you through the buttons:

| |
|
सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनम्॥ १॥
सारथिः स रथम् हृष्टः पर-सैन्य-प्रधर्षणम्। गन्धर्वनगर-आकारम् समुच्छ्रित-पताकिनम्॥ १॥
sārathiḥ sa ratham hṛṣṭaḥ para-sainya-pradharṣaṇam. gandharvanagara-ākāram samucchrita-patākinam.. 1..
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्॥ २॥
युक्तम् परम-सम्पन्नैः वाजिभिः हेम-मालिभिः। युद्ध-उपकरणैः पूर्णम् पताका-ध्वज-मालिनम्॥ २॥
yuktam parama-sampannaiḥ vājibhiḥ hema-mālibhiḥ. yuddha-upakaraṇaiḥ pūrṇam patākā-dhvaja-mālinam.. 2..
ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्॥ ३॥
ग्रसन्तम् इव च आकाशम् नादयन्तम् वसुंधराम्। प्रणाशम् पर-सैन्यानाम् स्व-सैन्यस्य प्रहर्षणम्॥ ३॥
grasantam iva ca ākāśam nādayantam vasuṃdharām. praṇāśam para-sainyānām sva-sainyasya praharṣaṇam.. 3..
रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महाध्वजम्॥ ४॥
रावणस्य रथम् क्षिप्रम् चोदयामास सारथिः। तम् आपतन्तम् सहसा स्वनवन्तम् महा-ध्वजम्॥ ४॥
rāvaṇasya ratham kṣipram codayāmāsa sārathiḥ. tam āpatantam sahasā svanavantam mahā-dhvajam.. 4..
रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा॥ ५॥
रथम् राक्षस-राजस्य नर-राजः ददर्श ह। कृष्ण-वाजि-समायुक्तम् युक्तम् रौद्रेण वर्चसा॥ ५॥
ratham rākṣasa-rājasya nara-rājaḥ dadarśa ha. kṛṣṇa-vāji-samāyuktam yuktam raudreṇa varcasā.. 5..
दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्। तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम्॥ ६॥
दीप्यमानम् इव आकाशे विमानम् सूर्य-वर्चसम्। तडित्-पताका-गहनम् दर्शित-इन्द्रायुध-प्रभम्॥ ६॥
dīpyamānam iva ākāśe vimānam sūrya-varcasam. taḍit-patākā-gahanam darśita-indrāyudha-prabham.. 6..
शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्। स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः॥ ७॥
शर-धाराः विमुञ्चन्तम् धाराधरम् इव अम्बुदम्। स दृष्ट्वा मेघ-संकाशम् आपतन्तम् रथम् रिपोः॥ ७॥
śara-dhārāḥ vimuñcantam dhārādharam iva ambudam. sa dṛṣṭvā megha-saṃkāśam āpatantam ratham ripoḥ.. 7..
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः॥ ८॥
गिरेः वज्र-अभिमृष्टस्य दीर्यतः सदृश-स्वनम्। विस्फारयन् वै वेगेन बाल-चन्द्र-आनतम् धनुः॥ ८॥
gireḥ vajra-abhimṛṣṭasya dīryataḥ sadṛśa-svanam. visphārayan vai vegena bāla-candra-ānatam dhanuḥ.. 8..
उवाच मातलिं रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धमापतन्तं रथं रिपोः॥ ९॥
उवाच मातलिम् रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धम् आपतन्तम् रथम् रिपोः॥ ९॥
uvāca mātalim rāmaḥ sahasrākṣasya sārathim. mātale paśya saṃrabdham āpatantam ratham ripoḥ.. 9..
यथापसव्यं पतता वेगेन महता पुनः। समरे हन्तुमात्मानं तथानेन कृता मतिः॥ १०॥
यथा अपसव्यम् पतता वेगेन महता पुनर्। समरे हन्तुम् आत्मानम् तथा अनेन कृता मतिः॥ १०॥
yathā apasavyam patatā vegena mahatā punar. samare hantum ātmānam tathā anena kṛtā matiḥ.. 10..
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः। विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्॥ ११॥
तत् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ रथम् रिपोः। विध्वंसयितुम् इच्छामि वायुः मेघम् इव उत्थितम्॥ ११॥
tat apramādam ātiṣṭha pratyudgaccha ratham ripoḥ. vidhvaṃsayitum icchāmi vāyuḥ megham iva utthitam.. 11..
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्। रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्॥ १२॥
अविक्लवम् असम्भ्रान्तम् अव्यग्र-हृदय-ईक्षणम्। रश्मि-संचार-नियतम् प्रचोदय रथम् द्रुतम्॥ १२॥
aviklavam asambhrāntam avyagra-hṛdaya-īkṣaṇam. raśmi-saṃcāra-niyatam pracodaya ratham drutam.. 12..
कामं न त्वं समाधेयः पुरंदररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये॥ १३॥
कामम् न त्वम् समाधेयः पुरंदर-रथ-उचितः। युयुत्सुः अहम् एकाग्रः स्मारये त्वाम् न शिक्षये॥ १३॥
kāmam na tvam samādheyaḥ puraṃdara-ratha-ucitaḥ. yuyutsuḥ aham ekāgraḥ smāraye tvām na śikṣaye.. 13..
परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिरुत्तमः॥ १४॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथम् सुर-सारथिः उत्तमः॥ १४॥
parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ. pracodayāmāsa ratham sura-sārathiḥ uttamaḥ.. 14..
अपसव्यं ततः कुर्वन् रावणस्य महारथम्। चक्रसम्भूतरजसा रावणं व्यवधूनयत्॥ १५॥
अपसव्यम् ततस् कुर्वन् रावणस्य महा-रथम्। चक्र-सम्भूत-रजसा रावणम् व्यवधूनयत्॥ १५॥
apasavyam tatas kurvan rāvaṇasya mahā-ratham. cakra-sambhūta-rajasā rāvaṇam vyavadhūnayat.. 15..
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत्॥ १६॥
ततस् क्रुद्धः दशग्रीवः ताम्र-विस्फारित-ईक्षणः। रथ-प्रतिमुखम् रामम् सायकैः अवधूनयत्॥ १६॥
tatas kruddhaḥ daśagrīvaḥ tāmra-visphārita-īkṣaṇaḥ. ratha-pratimukham rāmam sāyakaiḥ avadhūnayat.. 16..
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्। जग्राह सुमहावेगमैन्द्रं युधि शरासनम्॥ १७॥
धर्षण-आमर्षितः रामः धैर्यम् रोषेण लम्भयन्। जग्राह सु महा-वेगम् ऐन्द्रम् युधि शरासनम्॥ १७॥
dharṣaṇa-āmarṣitaḥ rāmaḥ dhairyam roṣeṇa lambhayan. jagrāha su mahā-vegam aindram yudhi śarāsanam.. 17..
शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्। तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ १८॥
शरान् च सु महा-वेगान् सूर्य-रश्मि-सम-प्रभान्। तत् उपोढम् महत् युद्धम् अन्योन्य-वध-कांक्षिणोः। परस्पर-अभिमुखयोः दृप्तयोः इव सिंहयोः॥ १८॥
śarān ca su mahā-vegān sūrya-raśmi-sama-prabhān. tat upoḍham mahat yuddham anyonya-vadha-kāṃkṣiṇoḥ. paraspara-abhimukhayoḥ dṛptayoḥ iva siṃhayoḥ.. 18..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः॥ १९॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः। समीयुः द्वैरथम् द्रष्टुम् रावण-क्षय-कांक्षिणः॥ १९॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ. samīyuḥ dvairatham draṣṭum rāvaṇa-kṣaya-kāṃkṣiṇaḥ.. 19..
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च॥ २०॥
समुत्पेतुः अथ उत्पाताः दारुणाः रोम-हर्षणाः। रावणस्य विनाशाय राघवस्य उदयाय च॥ २०॥
samutpetuḥ atha utpātāḥ dāruṇāḥ roma-harṣaṇāḥ. rāvaṇasya vināśāya rāghavasya udayāya ca.. 20..
ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः॥ २१॥
ववर्ष रुधिरम् देवः रावणस्य रथ-उपरि। वाताः मण्डलिनः तीव्राः व्यपसव्यम् प्रचक्रमुः॥ २१॥
vavarṣa rudhiram devaḥ rāvaṇasya ratha-upari. vātāḥ maṇḍalinaḥ tīvrāḥ vyapasavyam pracakramuḥ.. 21..
महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले। येन येन रथो याति तेन तेन प्रधावति॥ २२॥
महत् गृध्र-कुलम् च अस्य भ्रममाणम् नभ-स्थले। येन येन रथः याति तेन तेन प्रधावति॥ २२॥
mahat gṛdhra-kulam ca asya bhramamāṇam nabha-sthale. yena yena rathaḥ yāti tena tena pradhāvati.. 22..
संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा॥ २३॥
संध्यया च आवृता लङ्का जपा-पुष्प-निकाशया। दृश्यते सम्प्रदीप्ता इव दिवसे अपि वसुंधरा॥ २३॥
saṃdhyayā ca āvṛtā laṅkā japā-puṣpa-nikāśayā. dṛśyate sampradīptā iva divase api vasuṃdharā.. 23..
सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः॥ २४॥
स निर्घाताः महा-उल्काः च सम्प्रपेतुः महा-स्वनाः। विषादयन् ते रक्षांसि रावणस्य तद्-आहिताः॥ २४॥
sa nirghātāḥ mahā-ulkāḥ ca samprapetuḥ mahā-svanāḥ. viṣādayan te rakṣāṃsi rāvaṇasya tad-āhitāḥ.. 24..
रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः॥ २५॥
रावणः च यतस् तत्र प्रचचाल वसुंधरा। रक्षसाम् च प्रहरताम् गृहीताः इव बाहवः॥ २५॥
rāvaṇaḥ ca yatas tatra pracacāla vasuṃdharā. rakṣasām ca praharatām gṛhītāḥ iva bāhavaḥ.. 25..
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः॥ २६॥
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्य-रश्मयः। दृश्यन्ते रावणस्य अग्रे पर्वतस्य इव धातवः॥ २६॥
tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūrya-raśmayaḥ. dṛśyante rāvaṇasya agre parvatasya iva dhātavaḥ.. 26..
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ २७॥
गृध्रैः अनुगताः च अस्य वमन्त्यः ज्वलनम् मुखैः। प्रणेदुः मुखम् ईक्षन्त्यः संरब्धम् अशिवम् शिवाः॥ २७॥
gṛdhraiḥ anugatāḥ ca asya vamantyaḥ jvalanam mukhaiḥ. praṇeduḥ mukham īkṣantyaḥ saṃrabdham aśivam śivāḥ.. 27..
प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्॥ २८॥
प्रतिकूलम् ववौ वायुः रणे पांसून् समुत्किरन्। तस्य राक्षस-राजस्य कुर्वन् दृष्टि-विलोपनम्॥ २८॥
pratikūlam vavau vāyuḥ raṇe pāṃsūn samutkiran. tasya rākṣasa-rājasya kurvan dṛṣṭi-vilopanam.. 28..
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वरा घोरा विना जलधरोदयम्॥ २९॥
निपेतुः इन्द्र-अशनयः सैन्ये च अस्य समन्ततः। दुर्विषह्य-स्वराः घोराः विना जलधर-उदयम्॥ २९॥
nipetuḥ indra-aśanayaḥ sainye ca asya samantataḥ. durviṣahya-svarāḥ ghorāḥ vinā jaladhara-udayam.. 29..
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्॥ ३०॥
दिशः च प्रदिशः सर्वाः बभूवुः तिमिर-आवृताः। पांसु-वर्षेण महता दुर्दर्शम् च नभः अभवत्॥ ३०॥
diśaḥ ca pradiśaḥ sarvāḥ babhūvuḥ timira-āvṛtāḥ. pāṃsu-varṣeṇa mahatā durdarśam ca nabhaḥ abhavat.. 30..
कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणा दारुणारुताः॥ ३१॥
कुर्वन्त्यः कलहम् घोरम् सारिकाः तद्-रथम् प्रति। निपेतुः शतशस् तत्र दारुणाः दारुण-आरुताः॥ ३१॥
kurvantyaḥ kalaham ghoram sārikāḥ tad-ratham prati. nipetuḥ śataśas tatra dāruṇāḥ dāruṇa-ārutāḥ.. 31..
जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ ३२॥
जघनेभ्यः स्फुलिङ्गाः च नेत्रेभ्यः अश्रूणि संततम्। मुमुचुः तस्य तुरगाः तुल्यम् अग्निम् च वारि च॥ ३२॥
jaghanebhyaḥ sphuliṅgāḥ ca netrebhyaḥ aśrūṇi saṃtatam. mumucuḥ tasya turagāḥ tulyam agnim ca vāri ca.. 32..
एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे॥ ३३॥
एवंप्रकाराः बहवः समुत्पाताः भय-आवहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे॥ ३३॥
evaṃprakārāḥ bahavaḥ samutpātāḥ bhaya-āvahāḥ. rāvaṇasya vināśāya dāruṇāḥ samprajajñire.. 33..
रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ ३४॥
रामस्य अपि निमित्तानि सौम्यानि च शिवानि च। बभूवुः जय-शंसीनि प्रादुर्भूतानि सर्वशस्॥ ३४॥
rāmasya api nimittāni saumyāni ca śivāni ca. babhūvuḥ jaya-śaṃsīni prādurbhūtāni sarvaśas.. 34..
निमित्तानीह सौम्यानि राघवः स्वजयाय वै। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्॥ ३५॥
निमित्तानि इह सौम्यानि राघवः स्व-जयाय वै। दृष्ट्वा परम-संहृष्टः हतम् मेने च रावणम्॥ ३५॥
nimittāni iha saumyāni rāghavaḥ sva-jayāya vai. dṛṣṭvā parama-saṃhṛṣṭaḥ hatam mene ca rāvaṇam.. 35..
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम्॥ ३६॥
ततस् निरीक्ष्य आत्म-गतानि राघवः रणे निमित्तानि निमित्त-कोविदः। जगाम हर्षम् च पराम् च निर्वृतिम् चकार युद्धे हि अधिकम् च विक्रमम्॥ ३६॥
tatas nirīkṣya ātma-gatāni rāghavaḥ raṇe nimittāni nimitta-kovidaḥ. jagāma harṣam ca parām ca nirvṛtim cakāra yuddhe hi adhikam ca vikramam.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In