This overlay will guide you through the buttons:

| |
|
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा। सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्॥ १॥
ततस् प्रवृत्तम् सु क्रूरम् राम-रावणयोः तदा। सु महत् द्वैरथम् युद्धम् सर्व-लोक-भय-आवहम्॥ १॥
tatas pravṛttam su krūram rāma-rāvaṇayoḥ tadā. su mahat dvairatham yuddham sarva-loka-bhaya-āvaham.. 1..
ततो राक्षससैन्यं च हरीणां च महद्बलम्। प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत॥ २॥
ततस् राक्षस-सैन्यम् च हरीणाम् च महत् बलम्। प्रगृहीत-प्रहरणम् निश्चेष्टम् समवर्तत॥ २॥
tatas rākṣasa-sainyam ca harīṇām ca mahat balam. pragṛhīta-praharaṇam niśceṣṭam samavartata.. 2..
सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः॥ ३॥
सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवत्-नर-राक्षसौ। व्याक्षिप्त-हृदयाः सर्वे परम् विस्मयम् आगताः॥ ३॥
samprayuddhau tu tau dṛṣṭvā balavat-nara-rākṣasau. vyākṣipta-hṛdayāḥ sarve param vismayam āgatāḥ.. 3..
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम्॥ ४॥
नाना प्रहरणैः व्यग्रैः भुजैः विस्मित-बुद्धयः। तस्थुः प्रेक्ष्य च संग्रामम् न अभिजग्मुः परस्परम्॥ ४॥
nānā praharaṇaiḥ vyagraiḥ bhujaiḥ vismita-buddhayaḥ. tasthuḥ prekṣya ca saṃgrāmam na abhijagmuḥ parasparam.. 4..
रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ॥ ५॥
रक्षसाम् रावणम् च अपि वानराणाम् च राघवम्। पश्यताम् विस्मित-अक्षाणाम् सैन्यम् चित्रम् इव आबभौ॥ ५॥
rakṣasām rāvaṇam ca api vānarāṇām ca rāghavam. paśyatām vismita-akṣāṇām sainyam citram iva ābabhau.. 5..
तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत्॥ ६॥
तौ तु तत्र निमित्तानि दृष्ट्वा राघव-रावणौ। कृत-बुद्धी स्थिर-अमर्षौ युयुधाते हि अभीत-वत्॥ ६॥
tau tu tatra nimittāni dṛṣṭvā rāghava-rāvaṇau. kṛta-buddhī sthira-amarṣau yuyudhāte hi abhīta-vat.. 6..
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा॥ ७॥
जेतव्यम् इति काकुत्स्थः मर्तव्यम् इति रावणः। धृतौ स्व-वीर्य-सर्वस्वम् युद्धे अदर्शयताम् तदा॥ ७॥
jetavyam iti kākutsthaḥ martavyam iti rāvaṇaḥ. dhṛtau sva-vīrya-sarvasvam yuddhe adarśayatām tadā.. 7..
ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्॥ ८॥
ततस् क्रोधात् दशग्रीवः शरान् संधाय वीर्यवान्। मुमोच ध्वजम् उद्दिश्य राघवस्य रथे स्थितम्॥ ८॥
tatas krodhāt daśagrīvaḥ śarān saṃdhāya vīryavān. mumoca dhvajam uddiśya rāghavasya rathe sthitam.. 8..
ते शरास्तमनासाद्य पुरंदररथध्वजम्। रथशक्तिं परामृश्य निपेतुर्धरणीतले॥ ९॥
ते शराः तमन् आसाद्य पुरंदर-रथ-ध्वजम्। रथ-शक्तिम् परामृश्य निपेतुः धरणी-तले॥ ९॥
te śarāḥ taman āsādya puraṃdara-ratha-dhvajam. ratha-śaktim parāmṛśya nipetuḥ dharaṇī-tale.. 9..
ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे॥ १०॥
ततस् रामः अपि संक्रुद्धः चापम् आकृष्य वीर्यवान्। कृत-प्रतिकृतम् कर्तुम् मनसा सम्प्रचक्रमे॥ १०॥
tatas rāmaḥ api saṃkruddhaḥ cāpam ākṛṣya vīryavān. kṛta-pratikṛtam kartum manasā sampracakrame.. 10..
रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा॥ ११॥
रावण-ध्वजम् उद्दिश्य मुमोच निशितम् शरम्। महा-सर्पम् इव असह्यम् ज्वलन्तम् स्वेन तेजसा॥ ११॥
rāvaṇa-dhvajam uddiśya mumoca niśitam śaram. mahā-sarpam iva asahyam jvalantam svena tejasā.. 11..
रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्। जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः॥ १२॥
रामः चिक्षेप तेजस्वी केतुम् उद्दिश्य सायकम्। जगाम स महीम् छित्त्वा दशग्रीव-ध्वजम् शरः॥ १२॥
rāmaḥ cikṣepa tejasvī ketum uddiśya sāyakam. jagāma sa mahīm chittvā daśagrīva-dhvajam śaraḥ.. 12..
स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः। ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः॥ १३॥
स निकृत्तः अपतत् भूमौ रावण-स्यन्दन-ध्वजः। ध्वजस्य उन्मथनम् दृष्ट्वा रावणः स महा-बलः॥ १३॥
sa nikṛttaḥ apatat bhūmau rāvaṇa-syandana-dhvajaḥ. dhvajasya unmathanam dṛṣṭvā rāvaṇaḥ sa mahā-balaḥ.. 13..
सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव। स रोषवशमापन्नः शरवर्षं ववर्ष ह॥ १४॥
सम्प्रदीप्तः अभवत् क्रोधात् अमर्षात् प्रदहन् इव। स रोष-वशम् आपन्नः शर-वर्षम् ववर्ष ह॥ १४॥
sampradīptaḥ abhavat krodhāt amarṣāt pradahan iva. sa roṣa-vaśam āpannaḥ śara-varṣam vavarṣa ha.. 14..
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः। ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः॥ १५॥
रामस्य तुरगान् दीप्तैः शरैः विव्याध रावणः। ते दिव्याः हरयः तत्र न अस्खलन् न अपि बभ्रमुः॥ १५॥
rāmasya turagān dīptaiḥ śaraiḥ vivyādha rāvaṇaḥ. te divyāḥ harayaḥ tatra na askhalan na api babhramuḥ.. 15..
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः। तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा॥ १६॥
बभूवुः स्वस्थ-हृदयाः पद्म-नालैः इव आहताः। तेषाम् असम्भ्रमम् दृष्ट्वा वाजिनाम् रावणः तदा॥ १६॥
babhūvuḥ svastha-hṛdayāḥ padma-nālaiḥ iva āhatāḥ. teṣām asambhramam dṛṣṭvā vājinām rāvaṇaḥ tadā.. 16..
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह। गदाश्च परिघांश्चैव चक्राणि मुसलानि च॥ १७॥
भूयस् एव सु संक्रुद्धः शर-वर्षम् मुमोच ह। गदाः च परिघान् च एव चक्राणि मुसलानि च॥ १७॥
bhūyas eva su saṃkruddhaḥ śara-varṣam mumoca ha. gadāḥ ca parighān ca eva cakrāṇi musalāni ca.. 17..
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्। मायाविहितमेतत् तु शस्त्रवर्षमपातयत्। सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः॥ १८॥
गिरि-शृङ्गाणि वृक्षान् च तथा शूल-परश्वधान्। माया-विहितम् एतत् तु शस्त्र-वर्षम् अपातयत्। सहस्रशस् तदा बाणान् अश्रान्त-हृदय-उद्यमः॥ १८॥
giri-śṛṅgāṇi vṛkṣān ca tathā śūla-paraśvadhān. māyā-vihitam etat tu śastra-varṣam apātayat. sahasraśas tadā bāṇān aśrānta-hṛdaya-udyamaḥ.. 18..
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्। तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत्॥ १९॥
तुमुलम् त्रास-जननम् भीमम् भीम-प्रतिस्वनम्। तत् वर्षम् अभवत् युद्धे न एक-शस्त्र-मयम् महत्॥ १९॥
tumulam trāsa-jananam bhīmam bhīma-pratisvanam. tat varṣam abhavat yuddhe na eka-śastra-mayam mahat.. 19..
विमुच्य राघवरथं समन्ताद् वानरे बले। सायकैरन्तरिक्षं च चकार सुनिरन्तरम्॥ २०॥
विमुच्य राघव-रथम् समन्तात् वानरे बले। सायकैः अन्तरिक्षम् च चकार सु निरन्तरम्॥ २०॥
vimucya rāghava-ratham samantāt vānare bale. sāyakaiḥ antarikṣam ca cakāra su nirantaram.. 20..
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे॥ २१॥
मुमोच च दशग्रीवः निःसङ्गेन अन्तरात्मना। व्यायच्छमानम् तम् दृष्ट्वा तद्-परम् रावणम् रणे॥ २१॥
mumoca ca daśagrīvaḥ niḥsaṅgena antarātmanā. vyāyacchamānam tam dṛṣṭvā tad-param rāvaṇam raṇe.. 21..
प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततो बाणान् शतशोऽथ सहस्रशः॥ २२॥
प्रहसन् इव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततस् बाणान् शतशस् अथ सहस्रशस्॥ २२॥
prahasan iva kākutsthaḥ saṃdadhe niśitān śarān. sa mumoca tatas bāṇān śataśas atha sahasraśas.. 22..
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता॥ २३॥
तान् दृष्ट्वा रावणः चक्रे स्व-शरैः खम् निरन्तरम्। ताभ्याम् नियुक्तेन तदा शर-वर्षेण भास्वता॥ २३॥
tān dṛṣṭvā rāvaṇaḥ cakre sva-śaraiḥ kham nirantaram. tābhyām niyuktena tadā śara-varṣeṇa bhāsvatā.. 23..
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः॥ २४॥
शर-बद्धम् इव आभाति द्वितीयम् भास्वत् अम्बरम्। न अनिमित्तः अभवत् बाणः न अ निर्भेत्ता न निष्फलः॥ २४॥
śara-baddham iva ābhāti dvitīyam bhāsvat ambaram. na animittaḥ abhavat bāṇaḥ na a nirbhettā na niṣphalaḥ.. 24..
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान् रामरावणयोर्मृधे॥ २५॥
अन्योन्यम् अभिसंहत्य निपेतुः धरणी-तले। तथा विसृजतोः बाणान् राम-रावणयोः मृधे॥ २५॥
anyonyam abhisaṃhatya nipetuḥ dharaṇī-tale. tathā visṛjatoḥ bāṇān rāma-rāvaṇayoḥ mṛdhe.. 25..
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्॥ २६॥
प्रायुध्येताम् अविच्छिन्नम् अस्यन्तौ सव्य-दक्षिणम्। चक्रतुः च शरैः घोरैः निरुच्छ्वासम् इव अम्बरम्॥ २६॥
prāyudhyetām avicchinnam asyantau savya-dakṣiṇam. cakratuḥ ca śaraiḥ ghoraiḥ nirucchvāsam iva ambaram.. 26..
रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ॥ २७॥
रावणस्य हयान् रामः हयान् रामस्य रावणः। जघ्नतुः तौ तदा अन्योन्यम् कृत-अनुकृत-कारिणौ॥ २७॥
rāvaṇasya hayān rāmaḥ hayān rāmasya rāvaṇaḥ. jaghnatuḥ tau tadā anyonyam kṛta-anukṛta-kāriṇau.. 27..
एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्। मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्॥ २८॥
एवम् तु तौ सु संक्रुद्धौ चक्रतुः युद्धम् उत्तमम्। मुहूर्तम् अभवत् युद्धम् तुमुलम् रोम-हर्षणम्॥ २८॥
evam tu tau su saṃkruddhau cakratuḥ yuddham uttamam. muhūrtam abhavat yuddham tumulam roma-harṣaṇam.. 28..
तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ २९॥
तौ तथा युध्यमानौ तु समरे राम-रावणौ। ददृशुः सर्व-भूतानि विस्मितेन अन्तरात्मना॥ २९॥
tau tathā yudhyamānau tu samare rāma-rāvaṇau. dadṛśuḥ sarva-bhūtāni vismitena antarātmanā.. 29..
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ॥ ३०॥
अर्दयन्तौ तु समरे तयोः तौ स्यन्दन-उत्तमौ। परस्परम् अभिक्रुद्धौ परस्परम् अभिद्रुतौ॥ ३०॥
ardayantau tu samare tayoḥ tau syandana-uttamau. parasparam abhikruddhau parasparam abhidrutau.. 30..
परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ ३१॥
परस्पर-वधे युक्तौ घोर-रूपौ बभूवतुः। मण्डलानि च वीथीः च गत-प्रत्यागतानि च॥ ३१॥
paraspara-vadhe yuktau ghora-rūpau babhūvatuḥ. maṇḍalāni ca vīthīḥ ca gata-pratyāgatāni ca.. 31..
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः॥ ३२॥
दर्शयन्तौ बहुविधाम् सूतौ सारथ्य-जाम् गतिम्। अर्दयन् रावणम् रामः राघवम् च अपि रावणः॥ ३२॥
darśayantau bahuvidhām sūtau sārathya-jām gatim. ardayan rāvaṇam rāmaḥ rāghavam ca api rāvaṇaḥ.. 32..
गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ॥ ३३॥
गति-वेगम् समापन्नौ प्रवर्तन-निवर्तने। क्षिपतोः शर-जालानि तयोः तौ स्यन्दन-उत्तमौ॥ ३३॥
gati-vegam samāpannau pravartana-nivartane. kṣipatoḥ śara-jālāni tayoḥ tau syandana-uttamau.. 33..
चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे॥ ३४॥
चेरतुः संयुग-महीम् स आसारौ जलदौ इव। दर्शयित्वा तदा तौ तु गतिम् बहुविधाम् रणे॥ ३४॥
ceratuḥ saṃyuga-mahīm sa āsārau jaladau iva. darśayitvā tadā tau tu gatim bahuvidhām raṇe.. 34..
परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ३५॥
परस्परस्य अभिमुखौ पुनर् एव च तस्थतुः। धुरम् धुरेण रथयोः वक्त्रम् वक्त्रेण वाजिनाम्॥ ३५॥
parasparasya abhimukhau punar eva ca tasthatuḥ. dhuram dhureṇa rathayoḥ vaktram vaktreṇa vājinām.. 35..
पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ ३६॥
पताकाः च पताकाभिः समीयुः स्थितयोः तदा। रावणस्य ततस् रामः धनुः-मुक्तैः शितैः शरैः॥ ३६॥
patākāḥ ca patākābhiḥ samīyuḥ sthitayoḥ tadā. rāvaṇasya tatas rāmaḥ dhanuḥ-muktaiḥ śitaiḥ śaraiḥ.. 36..
चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे॥ ३७॥
चतुर्भिः चतुरः दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोध-वशम् आपन्नः हयानाम् अपसर्पणे॥ ३७॥
caturbhiḥ caturaḥ dīptān hayān pratyapasarpayat. sa krodha-vaśam āpannaḥ hayānām apasarpaṇe.. 37..
मुमोच निशितान् बाणान् राघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ ३८॥
मुमोच निशितान् बाणान् राघवाय दशाननः। सः अतिविद्धः बलवता दशग्रीवेण राघवः॥ ३८॥
mumoca niśitān bāṇān rāghavāya daśānanaḥ. saḥ atividdhaḥ balavatā daśagrīveṇa rāghavaḥ.. 38..
जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्॥ ३९॥
जगाम न विकारम् च न च अपि व्यथितः अभवत्। चिक्षेप च पुनर् बाणान् वज्र-सार-सम-स्वनान्॥ ३९॥
jagāma na vikāram ca na ca api vyathitaḥ abhavat. cikṣepa ca punar bāṇān vajra-sāra-sama-svanān.. 39..
सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ ४०॥
सारथिम् वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेः तु महा-वेगाः शरीरे पतिताः शराः॥ ४०॥
sārathim vajrahastasya samuddiśya daśānanaḥ. mātaleḥ tu mahā-vegāḥ śarīre patitāḥ śarāḥ.. 40..
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि। तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः॥ ४१॥
न सूक्ष्मम् अपि सम्मोहम् व्यथाम् वा प्रददुः युधि। तया धर्षणया क्रुद्धः मातलेः न तथा आत्मनः॥ ४१॥
na sūkṣmam api sammoham vyathām vā pradaduḥ yudhi. tayā dharṣaṇayā kruddhaḥ mātaleḥ na tathā ātmanaḥ.. 41..
चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ ४२॥
चकार शर-जालेन राघवः विमुखम् रिपुम्। विंशतिम् त्रिंशतिम् षष्टिम् शतशस् अथ सहस्रशस्॥ ४२॥
cakāra śara-jālena rāghavaḥ vimukham ripum. viṃśatim triṃśatim ṣaṣṭim śataśas atha sahasraśas.. 42..
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः॥ ४३॥
मुमोच राघवः वीरः सायकान् स्यन्दने रिपोः। रावणः अपि ततस् क्रुद्धः रथ-स्थः राक्षसेश्वरः॥ ४३॥
mumoca rāghavaḥ vīraḥ sāyakān syandane ripoḥ. rāvaṇaḥ api tatas kruddhaḥ ratha-sthaḥ rākṣaseśvaraḥ.. 43..
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे। तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्॥ ४४॥
गदा-मुसल-वर्षेण रामम् प्रत्यर्दयत् रणे। तत् प्रवृत्तम् पुनर् युद्धम् तुमुलम् रोम-हर्षणम्॥ ४४॥
gadā-musala-varṣeṇa rāmam pratyardayat raṇe. tat pravṛttam punar yuddham tumulam roma-harṣaṇam.. 44..
गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः॥ ४५॥
गदानाम् मुसलानाम् च परिघाणाम् च निःस्वनैः। शराणाम् पुङ्ख-वातैः च क्षुभिताः सप्त सागराः॥ ४५॥
gadānām musalānām ca parighāṇām ca niḥsvanaiḥ. śarāṇām puṅkha-vātaiḥ ca kṣubhitāḥ sapta sāgarāḥ.. 45..
क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः॥ ४६॥
क्षुब्धानाम् सागराणाम् च पाताल-तल-वासिनः। व्यथिताः दानवाः सर्वे पन्नगाः च सहस्रशस्॥ ४६॥
kṣubdhānām sāgarāṇām ca pātāla-tala-vāsinaḥ. vyathitāḥ dānavāḥ sarve pannagāḥ ca sahasraśas.. 46..
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः॥ ४७॥
चकम्पे मेदिनी कृत्स्ना स शैल-वन-कानना। भास्करः निष्प्रभः च आसीत् न ववौ च अपि मारुतः॥ ४७॥
cakampe medinī kṛtsnā sa śaila-vana-kānanā. bhāskaraḥ niṣprabhaḥ ca āsīt na vavau ca api mārutaḥ.. 47..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः॥ ४८॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः। चिन्ताम् आपेदिरे सर्वे स किंनर-महोरगाः॥ ४८॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ. cintām āpedire sarve sa kiṃnara-mahoragāḥ.. 48..
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ ४९॥
स्वस्ति गो-ब्राह्मणेभ्यः तु लोकाः तिष्ठन्तु शाश्वताः। जयताम् राघवः संख्ये रावणम् राक्षसेश्वरम्॥ ४९॥
svasti go-brāhmaṇebhyaḥ tu lokāḥ tiṣṭhantu śāśvatāḥ. jayatām rāghavaḥ saṃkhye rāvaṇam rākṣaseśvaram.. 49..
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्॥ ५०॥
एवम् जपन्तः अपश्यन् ते देवाः स ऋषि-गणाः तदा। राम-रावणयोः युद्धम् सु घोरम् रोम-हर्षणम्॥ ५०॥
evam japantaḥ apaśyan te devāḥ sa ṛṣi-gaṇāḥ tadā. rāma-rāvaṇayoḥ yuddham su ghoram roma-harṣaṇam.. 50..
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। गगनं गगनाकारं सागरः सागरोपमः॥ ५१॥
गन्धर्व-अप्सरसाम् सङ्घाः दृष्ट्वा युद्धम् अनु उपमम्। गगनम् गगन-आकारम् सागरः सागर-उपमः॥ ५१॥
gandharva-apsarasām saṅghāḥ dṛṣṭvā yuddham anu upamam. gaganam gagana-ākāram sāgaraḥ sāgara-upamaḥ.. 51..
रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्॥ ५२॥
राम-रावणयोः युद्धम् राम-रावणयोः इव। एवम् ब्रुवन्तः ददृशुः तत् युद्धम् राम-रावणम्॥ ५२॥
rāma-rāvaṇayoḥ yuddham rāma-rāvaṇayoḥ iva. evam bruvantaḥ dadṛśuḥ tat yuddham rāma-rāvaṇam.. 52..
ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः शरमाशीविषोपमम्॥ ५३॥
ततस् क्रोधात् महा-बाहुः रघूणाम् कीर्ति-वर्धनः। संधाय धनुषा रामः शरम् आशीविष-उपमम्॥ ५३॥
tatas krodhāt mahā-bāhuḥ raghūṇām kīrti-vardhanaḥ. saṃdhāya dhanuṣā rāmaḥ śaram āśīviṣa-upamam.. 53..
रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ ५४॥
रावणस्य शिरः अच्छिन्दत् श्रीमत् ज्वलित-कुण्डलम्। तत् शिरः पतितम् भूमौ दृष्टम् लोकैः त्रिभिः तदा॥ ५४॥
rāvaṇasya śiraḥ acchindat śrīmat jvalita-kuṇḍalam. tat śiraḥ patitam bhūmau dṛṣṭam lokaiḥ tribhiḥ tadā.. 54..
तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः। तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा॥ ५५॥
तस्य एव सदृशम् च अन्यत् रावणस्य उत्थितम् शिरः। तत् क्षिप्तम् क्षिप्र-हस्तेन रामेण क्षिप्र-कारिणा॥ ५५॥
tasya eva sadṛśam ca anyat rāvaṇasya utthitam śiraḥ. tat kṣiptam kṣipra-hastena rāmeṇa kṣipra-kāriṇā.. 55..
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते॥ ५६॥
द्वितीयम् रावण-शिरः छिन्नम् संयति सायकैः। छिन्न-मात्रम् च तत् शीर्षम् पुनर् एव प्रदृश्यते॥ ५६॥
dvitīyam rāvaṇa-śiraḥ chinnam saṃyati sāyakaiḥ. chinna-mātram ca tat śīrṣam punar eva pradṛśyate.. 56..
तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः। एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्॥ ५७॥
तत् अपि अशनि-संकाशैः छिन्नम् रामस्य सायकैः। एवम् एव शतम् छिन्नम् शिरसाम् तुल्य-वर्चसाम्॥ ५७॥
tat api aśani-saṃkāśaiḥ chinnam rāmasya sāyakaiḥ. evam eva śatam chinnam śirasām tulya-varcasām.. 57..
न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः॥ ५८॥
न च एव रावणस्य अन्तः दृश्यते जीवित-क्षये। ततस् सर्व-अस्त्र-विद् वीरः कौसल्या-आनन्द-वर्धनः॥ ५८॥
na ca eva rāvaṇasya antaḥ dṛśyate jīvita-kṣaye. tatas sarva-astra-vid vīraḥ kausalyā-ānanda-vardhanaḥ.. 58..
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ ५९॥
मार्गणैः बहुभिः युक्तः चिन्तयामास राघवः। मारीचः निहतः यैः तु खरः यैः तु स दूषणः॥ ५९॥
mārgaṇaiḥ bahubhiḥ yuktaḥ cintayāmāsa rāghavaḥ. mārīcaḥ nihataḥ yaiḥ tu kharaḥ yaiḥ tu sa dūṣaṇaḥ.. 59..
क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः॥ ६०॥
क्रौञ्चावटे विराधः तु कबन्धः दण्डका-वने। यैः सालाः गिरयः भग्नाः वाली च क्षुभितः अम्बुधिः॥ ६०॥
krauñcāvaṭe virādhaḥ tu kabandhaḥ daṇḍakā-vane. yaiḥ sālāḥ girayaḥ bhagnāḥ vālī ca kṣubhitaḥ ambudhiḥ.. 60..
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं नु तत् कारणं येन रावणे मन्दतेजसः॥ ६१॥
ते इमे सायकाः सर्वे युद्धे प्रात्ययिकाः मम। किम् नु तत् कारणम् येन रावणे मन्द-तेजसः॥ ६१॥
te ime sāyakāḥ sarve yuddhe prātyayikāḥ mama. kim nu tat kāraṇam yena rāvaṇe manda-tejasaḥ.. 61..
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि॥ ६२॥
इति चिन्ता-परः च आसीत् अप्रमत्तः च संयुगे। ववर्ष शर-वर्षाणि राघवः रावण-उरसि॥ ६२॥
iti cintā-paraḥ ca āsīt apramattaḥ ca saṃyuge. vavarṣa śara-varṣāṇi rāghavaḥ rāvaṇa-urasi.. 62..
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे॥ ६३॥
रावणः अपि ततस् क्रुद्धः रथ-स्थः राक्षसेश्वरः। गदा-मुसल-वर्षेण रामम् प्रत्यर्दयत् रणे॥ ६३॥
rāvaṇaḥ api tatas kruddhaḥ ratha-sthaḥ rākṣaseśvaraḥ. gadā-musala-varṣeṇa rāmam pratyardayat raṇe.. 63..
तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ६४॥
तत् प्रवृत्तम् महत् युद्धम् तुमुलम् रोम-हर्षणम्। अन्तरिक्षे च भूमौ च पुनर् च गिरि-मूर्धनि॥ ६४॥
tat pravṛttam mahat yuddham tumulam roma-harṣaṇam. antarikṣe ca bhūmau ca punar ca giri-mūrdhani.. 64..
देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत॥ ६५॥
देव-दानव-यक्षाणाम् पिशाच-उरग-रक्षसाम्। पश्यताम् तत् महत् युद्धम् सर्व-रात्रम् अवर्तत॥ ६५॥
deva-dānava-yakṣāṇām piśāca-uraga-rakṣasām. paśyatām tat mahat yuddham sarva-rātram avartata.. 65..
नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्धं विराममुपगच्छति॥ ६६॥
न एव रात्रिम् न दिवसम् न मुहूर्तम् न च क्षणम्। राम-रावणयोः युद्धम् विरामम् उपगच्छति॥ ६६॥
na eva rātrim na divasam na muhūrtam na ca kṣaṇam. rāma-rāvaṇayoḥ yuddham virāmam upagacchati.. 66..
दशरथसुतराक्षसेन्द्रयोस्तयो- र्जयमनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु॥ ६७॥
दशरथ-सुत-राक्षस-इन्द्रयोः तयोः जयम् अन् अवेक्ष्य रणे स राघवस्य। सुर-वर-रथ-सारथिः महात्मा रण-रत-रामम् उवाच वाक्यम् आशु॥ ६७॥
daśaratha-suta-rākṣasa-indrayoḥ tayoḥ jayam an avekṣya raṇe sa rāghavasya. sura-vara-ratha-sārathiḥ mahātmā raṇa-rata-rāmam uvāca vākyam āśu.. 67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In